________________ चतुर्थस्तवके ] स्मृतेर्मानान्तरत्वखण्डनम् / ___ धात्वर्थमात्राभिप्रायेण प्रयोगे संयोगादिभिरनेकान्तात् , न हि शरसंयोगेन गगने किञ्चित् क्रियते, अन्त्यशब्दाभिव्यक्तया वा, स्पन्दाभिप्रायेणासिद्धेः / व्यापाराभिप्रायेण शब्दलिङ्गेन्द्रियव्यापारैर्व्यभिचारात् , न हि तैः प्रमेये किञ्चित् क्रियते, अपि तु प्रमातर्येव / फलाभिप्रायेणापि तथा। अन्ततस्तेनैवानेकान्ताद् , अनवस्थानाच्च / प्राशुविनाशिधर्माभिप्रायेण द्वित्वादिभिरनियमात् / श्राशुकारकाभिप्रायेण कर्मण्यसिद्धेः, कर्मण्याशुकारकं ज्ञानमित्येव हि साध्यम् / कर्तर्याशुकारकत्वस्य कर्मोपकारत्वेनाव्याप्तः। शब्दादिव्यापारेवानेकान्तात् // 3 // स्यादेतत् , अनुभवसिद्धमेव प्राकट्यम् / तथा हि-ज्ञातोऽयमर्थ इति सामान्यतः, साक्षात्कृतोऽयमर्थइति विशेषतो विषयविशेषणमेव किश्चित् परिस्फुरतीति चेत् / तदसत् / यथा हि-. अर्थ नैव विशेषो हि निराकारतया धियाम् / - - प्रकाशः। अन्त्यशब्देति / न चान्त्यशब्दाभिव्यक्त्या तत्र ज्ञाततैवोत्पद्यते इति वाच्यम् / तस्याव्यवहितोत्तरक्षण एव नाशात् / समवायिकारणस्य च कार्यसमानकालतानियमात् / शब्दनित्यत्वस्य च निषेधादिति भावः / असिद्धेरिति / ज्ञानक्रिया न स्पन्द इत्यर्थः / ननु क्रिया फलमत्र, यद्धि फलं तत्प्रमेयनिष्टकिञ्चिजनकं, प्रयत्नवदात्मसंयोगवदित्यत आह फलेति / अन्तत इति / फलेनापि फलजननेऽनवस्थेति क्वचिद्विश्रान्तौ तेनैव व्यभिचार इत्यर्थः / आशुविनाशित्वं क्षणचतुष्टयानवस्थायित्वम् / अनियमाद् , व्यभिचारादित्यऽर्थः। कर्मण्याशुकारकत्वं हेतुः, कर्तर्याशुकारकत्वं वा, आशुकारकत्वमात्रं वा ? / नाद्यः / साध्याविशिष्टतया हेतोरसिद्धत्वादित्याह कर्मणीति / न द्विती. यतृतीयावनेकान्तादित्याह कर्तरीति / शब्दादिव्यापारैः पदार्थस्मृतिलिङ्गपरामर्शादिगिर्वाक्यार्थज्ञानानुमित्यादिकं कर्त्तर्याशुक्रियते / न च कर्मणि वाक्याथै अनुमेयादौ वा किञ्चित् क्रियते इत्यनै कान्तिकमित्यर्थः // 3 // ___कारिकोत्तरार्द्ध व्याख्यातुं शङ्कते अनुभवेति / निराकारमपि ज्ञानं यया विषयेण नीलत्वादिना नीलज्ञानाद्युच्यते, तथा ज्ञानरूपक्रिययैव ज्ञातो घट इति धीव्यपदेशो, इत्थमनभ्युपगमे च कृतो घट इत्यादावपि कृत्यादिजनितधर्माधारो घटः स्यात् / न चैतत् त्वयेष्यते, इति परिहरेति यथा हीति / घटक्रियेत्यत्र क्रियायामर्थो विशेषकः, कृतो घट इत्यत्रार्थे क्रिया विशेषिकेति भेदः / एवं घटज्ञानमित्यत्रार्थो ज्ञाने विशेषणं, ज्ञातो घट इत्यत्रार्थे ज्ञानं विशेषणम् / ननु घटोऽयमिति ज्ञानं घटधर्मिककिञ्चिद्धर्मजनक घटज्ञानत्वाद् अपेक्षाबुद्धिवत् / न चापेक्षा प्रकाशिका। प्रत्यक्षत्वमपि तस्य कथमिति वाच्यम् / प्रत्यक्षविषयस्य पूर्ववर्तितामात्रेणैव हेतुत्वात् / आशुविना मकरन्दः / तस्येति / नवं प्रत्यक्षमपि कथं स्यादिति वाच्यम् / पूर्ववर्तितामात्रेणैव तस्य तद्धेतुत्वात् / समवायिक रणमात्रस्यैव कार्यसमानकालत्वनियगादिति भावः / / टिप्पणी तत्प्रमेयनिष्ठेति / प्रमेयेति प्रकृतभिप्रायम् फलं किञ्चिज्जनयतीत्येव व्याप्तिः। आत्मशरीरसंयोगवदिति / स च शरीरे चेष्टाजनकः / /