________________ 460 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 2 कारिकाव्याख्याय . विशेषाभावात्तत्रैव फलं नान्यत्रेत्यस्यापि नियमस्यानुपपत्तेः। स्वभावनियमेन चोपपत्तौ तथैव विषयव्यवस्थोपपत्तेः। अवश्यञ्चैतदनुमन्तव्यम् , अतीतादिविष. यत्वानुरोधात् / न हि तत्र ज्ञानेन किञ्चित् क्रियते इति शक्यमवगन्तुम् / अस. त्वात्। न च तद्धर्मसामान्याधारं किञ्चित् क्रियते इति युक्तम्। तेन तस्यैव विषयत्वप्राप्तः। तादात्म्याद्विशेषस्यापि सैव ज्ञाततेति चेत् , तत् किं चक्षुषा घटे ज्ञायमाने रसोऽपि ज्ञायते. तादात्म्यात। घटाकारेण ज्ञायत एवासौ रस इति चेत् / अथ रसाकारेण किं न ज्ञायते।तेन रूपेण ज्ञाततानाधारत्वादिति चेत्। न तर्हि वर्त्तमानसामान्यज्ञानेऽष्यतीतानागतादिज्ञानम् , तेनाकारेण प्राकट्यानाधारत्वादिति // 2 // ननु क्रियया कर्मणि किश्चित् कर्त्तव्यमितिव्याप्तेरस्त्वनुमानम् / न / अनैकान्त्यादसिद्धेर्वा न च लिङ्गमिह क्रिया। तद्वैशिष्ट्यप्रकाशत्वान्नाध्यक्षानुभवोऽधिके // 3 // प्रकाशः। अतीतादिघटादौ भासमाने घटत्वादेरपि भासनात्तत्रैव ज्ञाततोत्पत्तिः स्यादित्यपि नास्तीत्याह न चेति / तथा सति ज्ञातताऽनाश्रयत्वाद् घटादिविषयो न स्यात् , घटत्वादौ ज्ञातताऽऽधानात्तस्यैव तद्विषयत्वादित्यर्थः / ननु धर्मधर्मिणोस्तादात्म्यात्तद्धर्मज्ञातता तस्यैवेत्याह तादात्म्यादिति / तत्किमिति / ननु धर्मिणो धर्माभेदेऽपि धर्मस्य न धर्म्यभेदः / भेदाभेदाङ्गीकारात् / तथा च धर्मे ज्ञायमाने तदभिन्नो धर्मी ज्ञायतां, धर्मिणि ज्ञायमाने तद्भिन्नो धर्मः कथं ज्ञायेत / मैवम् / भेदाभेदस्य विरोधेनासम्भवात् // 2 // ___ननु धात्वर्थावच्छेदकपरसमवेतक्रियाफलशालित्वं कर्मत्वमिति ज्ञानक्रियायाः स्वकर्मनिष्ठफलजनकत्वाज्ज्ञातता स्यादित्याह नन्विति / क्रिया न धात्वर्थमात्रं, शरसंयोगादिना धात्वर्थन कर्मणि गगनादौ तदजननादनैकान्तिकत्वात् / नापि स्पन्दः, ज्ञाने स्पन्दत्वाभावात् / नापि करणव्यापारस्वं, शब्दादिव्यापारपदार्थस्मृत्यादिभिरनकान्तिकत्वादित्याह अनैकान्त्यादिति / इह ज्ञाततायाम् / ननु प्रत्यक्षैव ज्ञातता, संयुक्त इतिवज्ज्ञात इत्यनुभवादित्यत आह तद्वैशिष्ट्येति / ज्ञातताऽनुभवो ज्ञानवैशिष्ट्यमात्रविषयको नातिरिक्तविषयतायां मानमित्यर्थः / प्रकाशिका। दत्तो गच्छतीत्यत्र गमनक्रियाफलं विभागोपीति तदाश्रयपूर्वदेशस्य कर्मत्वापत्तिरित्याशयेनाह घात्वर्थेति / विभागश्च न तथा उत्तरसंयोगावच्छिन्नरूपन्दस्य गमिधात्वर्थत्वादिति भावः / गमनकर्तर्यपि संयोगाश्रयत्वादतिव्याप्तिरिति परेति / अतिरिक्तेति। ज्ञाततायामित्यर्थः / न चैवं मकरन्दः / ननु चैत्रो गच्छतीत्यत्र परसमवेतगमनक्रियायाः फलमुत्तरदेशसंयोगवत् पूर्वदेशविभागोऽपीति पूर्वदेशेऽतिव्याप्तिरित्यत उक्तं-धात्वर्थतावच्छेदकेति फलविशेषणम् / उत्तरसंयोगावच्छिन्नस्पन्दस्य धात्वर्थत्वाद्विभागो न तथेत्याहुः / घटं जानाति चैत्र इत्यत्र ज्ञानक्रियाफलमिच्छादि, तच्छालितयाऽऽत्मन्यतिव्याप्तिरित्यत उक्तं परेति / न चाभावो घटमाश्रयते इत्यादावव्याप्तिः, आश्रयणक्रियाया अभावे समवेतत्वाभावादिति वाच्यम् / परसमवेतपदस्य सम्बन्धपरत्वात् / अतिरिक्तति / ज्ञाततायामित्यर्थः / टिप्पणी। भिमतस्य विषयत्वाभावात् विषयत्वस्य ज्ञातताधीनतया ज्ञाततानुत्पत्तेर्ज्ञानविषयत्वस्यासम्भवादित्यर्थः। अतिरिक्तविषयतायामिति / ज्ञाततारूपायामित्यर्थः /