________________ चतुर्थस्तवके ] स्मृतेर्मानान्तरत्वखण्डनम् / . नच तदेव शानं कालमेदेनाप्रमाणम् , अनपेक्षत्वस्यापरावृत्तः। तथापि वा अप्रामाण्येऽतिप्रसङ्गादिति // 1 // __ स्यादेतत् / अनुपकारकं विषयस्य, तदीयमेतदीयं वा न भवितुमर्हत्यविशेपात् / न च तस्येत्यनियतं तत्र प्रमाणमतिप्रसङ्गात् / न च तदभिशमन्तरेण तदुपकारस्योत्पत्तिः, तथा नभ्युपगमात् / श्रभ्युपगमे पा,कार्यत्वस्यानैकान्तिकत्वात्। अत्रोच्यते स्वभावनियमाभावादुपकारोऽपि दुर्घटः / सुघटत्वेऽपि सत्यर्थेऽसति का गतिरन्यथा // 2 // प्रकाशः। दिति भावः / नन्वीश्वरस्य ज्ञानान्तराभावेऽपि प्रथमक्षणे गृहीतस्यैव द्वितीयादिक्षणे ज्ञानाद् गृहीतग्राहित्वमस्त्येवेत्यत आह न चेति। अनपेक्षत्वस्येति / न हि स्मृतिवदुत्तरकालबुद्धिविषयत्वे पूर्वकालीनतद्विषयज्ञानापेक्षा ईश्वरज्ञानेऽस्तीत्यर्थः / अतिप्रसङ्गादिति / सर्वज्ञानानां द्वितीयादिक्षणे ग्रहणरूपत्वेनाप्रमात्वापातादित्यर्थः / वस्तुतो गृहीतेत्यत्र निष्ठार्थस्य ध्वंसस्यासम्भव एवेति भावः // 1 // ___ ननु विषयनियमान्यथाऽनुपपत्त्या तदुपपादको विषयनिष्ठो ज्ञानजन्यो धर्मः स्वीकार्यः, तस्य च तदुपादानज्ञानजन्यत्वे तदुत्पत्तेः प्राक् तद्विषयत्वाभावात् कथं तदुत्पत्तिः, तदुपादानज्ञानाजन्यत्वे च क्षित्यादिसकर्तृकत्वग्राहक कार्यत्वं तत्रैवानकान्तिकमित्याह- स्यादेतदिति / न चेति / तदीयोऽयं विषय इति नानियतं, किन्तु नियतमेव / तनियामकस्तजन्यधर्म एव वाच्यः / तेन तज्जन्यज्ञातताऽऽश्रयत्वमेव तद्विषयत्वमित्यर्थः / ज्ञानस्य ज्ञेयनिष्ठोपकाराधानेऽपि नियामकः स्वभाव एव वाच्यः, तथा च तत एव विषयनियमोपपत्तौ किमुपकाराधानेनेत्याह स्वभावेति / विद्यमानेऽर्थे ज्ञानजन्योपकारसम्भवेऽप्यतीताद्यर्थे तदऽसम्भवाद् यथा तत्र स्वभाव एव विषयत्वनियामकः, तथा विद्यमानेऽप्यर्थेऽस्त्वित्याह सुघटत्वेऽपीति / प्रकाशिकाः। व्याख्यानाय पुनराशङ्कते नन्वीश्वरस्येति / ननु विषयेति / इयश्च यथार्था तटस्थाशङ्का यथार्थानुभवत्वरूपं हि प्रामाण्यं स्वविषये वाच्यम् , विषयता चानुपपन्ना ज्ञातताऽस्वीकारे नियामकाभावात्, ततस्वीकारे च तदुत्पत्तेः प्राक् तद्विषयकज्ञानाभावेन तदनुत्पत्तेः, उत्पत्तौ वा कार्यत्वस्य तत्रैवानेकान्तिकत्वादिति मूलप्रकाशयोः सङ्गतिः। एतेन-कार्यत्वनैकान्तिकोद्भावनमत्रार्थान्तरम् / म च ज्ञाततामादायागृहीतग्राहित्वमुपपादयितुमेव तद्ग्रन्थावतार इति वाच्यम् / न तु तदभिशमन्तरेणेत्यादिना तदुत्पत्त्यसम्भवोपन्यासस्य विद्धरुत्वापातादिति-दुषणमपास्तसू / ननु देव मकरन्दः। नन्विति / ननु कार्यत्वानकान्तिकोद्भावनस्य नायमवसरः / न च ज्ञाततामादायाग्रहीतप्राहित्वमुपपादयितुं तत्साधनमेवेदमिति वाच्यम् / पूर्वनिरस्तस्वात् , न च तदभिज्ञानमित्यादिना तदु. त्पत्त्यसम्भवोपन्यासस्य विरुद्धत्वापाताच इति चेत् / मैवम् / यथार्थानुभवत्वादिकं प्रामाण्यं ज्ञानस्य स्वविषये स्यात, विषयता च नियामकं विनाऽनुपपन्ना, ज्ञाततायास्तथात्वे कार्यत्वानकान्तिकत्वापत्त्या तदुपादानज्ञानजन्यत्वमवश्यं वाच्यम् , तच्च तदुत्पत्तेः प्राक् तद्विषयत्वाभावादसम्भवीति न प्रामाण्यव्यवस्थितिरिति तटस्थशङ्कापरत्वेनास्य सातत्वात् / टिप्पणी रस्य यदुपादानमाश्रयो विषयस्तज्ज्ञानस्येत्यर्थः / तद्विषयत्वाभावादिति / तस्य विषयत्वेना.