________________ 458 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलौ [ 1 कारिकाव्याख्यावा स्मृत्यनुभवयोः कार्यकारणभावसिद्धिरिति / न / तदप्रामाण्येऽपि पूर्वाऽपरावस्थावदात्मप्रत्यभिज्ञानप्रामाण्यादेष तदुपपत्तेः। योऽहमन्वभवममुमथै, सोऽहं स्मरामीति मानसप्रत्यक्षमस्तीति।। __ न च गृहीतग्राहित्वमीश्वरज्ञानस्य, तदीयज्ञानान्तरागोचरत्वाद् विश्वस्य / प्रकाशः। अतीतानुभवविशिष्टे स्मृतिवैशिष्टयप्रत्यभिज्ञानं स्मृत्यनुभवयोः कार्यकारणभावग्राहकमित्यन्यथोपपत्त्या न स्मृतिः प्रमेत्याह तदप्रामाण्येऽपोति / प्रत्यभिज्ञानस्वरूपमाह योऽहमिति / - ननु केयं तत्ता ? न तावदतीतानुभवविषयत्वम् / अतीतानुभव विषयत्वस्यानुभवाविषयतया स्मृत्या तदनुल्लेखापत्तेः। न च तस्याऽनुभवाविषयत्वेऽपि यदा ज्ञानान्तरेण ग्रहणं तदा स घट इति स्मृतिः, अन्यथा प्रमुष्टतत्तांशा घट इतीति वाच्यम् / अतीतानुभवविषयत्वस्यानुमितौ भानेऽपि स इति बुद्धेरभावात् / नाप्यतीतधर्मवैशिष्टयम् / यदि हि यो वस्तुतोऽतीतो धर्मस्तद्वैशिष्टयं तत्ता, तदाजुभवेऽपि तद्विषयत्वात्तत्तोल्लेखापत्तिः, अतीतधर्मविशिष्टः स इति सहप्रयोगानुपपत्तिश्च / नाप्यतीतत्वेन भासते यो धर्मस्तद्वैशिष्टयम् / भासमानधर्मस्यातीतत्वेनानुभवाविषयत्वात् , प्रत्युत वर्तमानत्वेनाऽनुभवात् , स्मृतौ तत्तोल्लेखानापत्तेः / नाऽप्यतीतसमयसम्बन्धः / अनागतगोचरस्मृतिप्रत्यभिज्ञयोस्तत्तोल्लेखानापत्तेः / इदन्ताऽपि न तवृत्तिगुणादि / गुणादावभावात् / नापि प्रत्यक्ष ज्ञानगोचरत्वम् / अचाक्षुषत्वापत्तेः। ___ उच्यते / अनुभवे य एव धर्मः कालो वा वर्तमानत्वेन भासते स एव स्मृतावपि / तयोरेक. विषयत्वेऽपि स्मृतावेव तच्छब्दोल्लेखः, संस्कारजज्ञानस्यैव तच्छब्दप्रयोगहेतुत्वात् , प्रत्यभिज्ञाने तथा कल्पनात् / तत्रैव च प्रत्यक्षानुभवेनेदंशब्दप्रयोगः / विषयकृतश्च स्मृत्यऽनुभवयोर्विशेषो नास्त्येव / अत एवायं घट इत्यनुभवादयं घट इति न स्मृतिः / स घट इति स्मृतेश्च स घट इति नानुभवः / सह प्रयोगस्तु धर्मविशेषमादायेत्यस्मत्पितृचरणाः / परलक्षणमभ्युपगम्य अनधिगतार्थगन्तृत्वमीश्वरज्ञानेऽप्यस्तीत्याह न चेति / ईश्वरस्य ज्ञानान्तराभावान तज्ज्ञानं गृहीतग्राहीत्यर्थः / पुरुषान्तरज्ञानान्तरगोचरत्वेन गृहीतग्राहित्वे अभिमताऽपि प्रमा न स्यात् / अथ तद्विषयज्ञानोत्तरकालवर्तिसमानाश्रयतद्विषयकज्ञानत्वमेव गृहीतग्राहित्वम् / तन्न / बुद्धिमात्रस्य प्रमात्वाभावापत्तेः / यद्विषया बुद्धिरुत्पन्ना तद्विषयाया एव तस्याः स्वोत्पत्त्युत्तरक्षणेऽपि सत्त्वा प्रकाशिका। प्रसादाह इदन्तापीति / संस्कारजेति / एतच्च प्रत्यभिज्ञायाः संस्कारजन्यत्वपक्षे यदा स्मृतिजन्यत्वं तस्यास्तदाप्यनुभवावृत्यात्मविशेषगुणमात्रवृत्तिधर्मावच्छिन्नकारणताकत्वं तत्त्वोल्लेखप्रयोजकं प्रत्यभिज्ञाने च तत्वोल्लेखानुरोधादेव स्मृतित्वेन कारणत्वं वाच्यमिति भावः। यद्विषया बुद्धिरिति / नचोत्तरकालपदेनाव्यवहितोत्तरकालो विवक्षित इति वाच्यम् / प्रहराद्यनन्तरतद्विषयकज्ञानेऽपि प्रमावव्यवहारेणाव्याप्तितादवस्थ्यात् / बुद्धिमात्रस्येत्यादिना निराकृतमप्यर्थ मूल मकरन्द / तद्विषयेति / न चोत्तरकालत्वं व्यवहितकालत्वं विवक्षितमिति वाच्यम् / मासायनन्तरतद्विष' यज्ञानस्याप्यप्रमात्वव्यवहारादिति भावः / यद्यपि बुद्धिमात्रस्येत्यादिना निरासान्नेयं शङ्का, तथापि मूले तदनिरासात्तत्र तदविरोध इति भावः /