________________ तृतीयस्तवके ] स्मृतर्मानान्तरत्वस्त्रण्डनम् / ___ आगमंस्तर्हि न प्रमाणं, तद्विषयमानान्तरानुविधानात् / न / प्रमातृभेदात् / धारावाहिकबुद्धयस्तर्हि न प्रमाणम् , श्राद्यप्रमाणानुविधानात् / न / कारणविशुद्धिमात्रापेक्षया प्रथमवदुत्तरासामपि पूर्वमुखनिरीक्षणभावात् , कारणबलायातं काकतालीयं पौर्वापर्यमिति / यदि हि स्मृतिर्न प्रमितिः पूर्वानुभवे किं प्रमाणम् / स्मृत्यन्यथानुपपत्तिरिति चेत् / न / तया कारणमात्रसिद्धः, न तु तेनानुभवेनैव भवितव्यमिति नियामक मस्ति / अननुभूतेऽपि तर्हि स्मरणं स्यादिति चेत् , किं न स्यात् / न ह्यत्र प्रमाणमस्ति / पूर्वानुभवाकारोल्लेखः स्मृतेश्यते, सोऽन्यथा न स्यादिति चेत्। तत् किं बौद्धवद्विषयाकारान्यथानुपपन्या विषयसिद्धिस्त्वयापीप्यते, तथाभृतं ज्ञानमेव वा तसिद्धिः? / श्राद्ये तद्देवानेकान्तिकत्वम् / न हि यदाकारं ज्ञानं, तत्पूर्वकत्वं तस्येति नियमः, अनागतज्ञाने विभ्रमे च व्यभिचारात् / द्वितीये तु स्मृतिप्रामाण्यमवर्जनीयम् / मा भूत पूर्वानुभवसिद्धिः, किं नश्छिन्नमिति चेत् / न तर्हि प्रकाशः। तथापि श्रोतुर्वाक्यार्थप्रमाया वाक्यप्रयोगमूलतदर्थविषयकज्ञानप्रामाण्यापेक्षित्वान्न प्रमात्वं स्यादित्याह अागम इति / तथात्वेऽपि वक्तृश्रोतृरूपप्रमातृभेदोऽस्ति, स्मृतौ त्वेकस्यैव तथात्वमित्याह प्रमाविति / तर्हि विषयप्रमात्रोरभेदाद्धारावहनबुद्धयः पूर्वबुद्ध्यपेक्षाः प्रमा न स्युरित्याह धारेति / यद्यपि बुद्धिकमान्यथाऽनुपपत्त्या पूर्वबुद्धेविशेषण ज्ञानत्वेनोत्तरबुद्धिकारणत्वं, तथापि स्मृतिवदन्यूनविषयतया न कारणत्वं किन्तु विशेषणमात्र विषयत्वेनेत्युक्तम् / अन्यूनानतिरिक्तविषयत्वन्तु काकतालीयमित्याह कारणेति। . नन्वतीतानुभववेशिष्टयरूपा तत्ता न मानसप्रत्यक्षदेद्या, अनुभवसत्त्वकाले तदतीतत्वाभावात् , तदत्ययकाले च विशेष्यासत्त्वादिति स्मृतिरेव तत्र मानमित्यगृहीतविषयतया सा प्रमा स्यादित्याह___ यदीत्यादिना, न तीत्यन्तेन। तत्किमिति। सौत्रान्तिकानां घटाद्याकारज्ञानकादाचित्कत्वान्यथाऽनुपपत्त्या . घटादिकल्पनवत् तत्ताऽऽकारान्यथाऽनुपपत्त्या पूर्वानुभवकल्पनमित्यर्थः / तथाभूतमिति / सौत्रान्तिकमते यथाऽनैकान्तिकत्वं, तथा त्वन्मतेऽपीत्यर्थः / तदेवाह न हीति / आकारेण ज्ञानस्यार्थजन्यत्वमनुमेयमर्थसत्त्वमानं वा ? आये अनागतार्थस्य वर्त्तमानज्ञानाकारणत्वादनकान्तिकम् / अन्त्ये अनागतस्य कादाचित्कत्वेऽपि शुक्तौ सर्वदा रजतत्वाकारत्वाऽसत्त्वाद्रजतत्वाकारभ्रमेऽनै कान्तिकमित्यर्थः / द्वितीये विति / तत्ताविषया स्मृतिरेव तत्तासिद्धिरिति सा प्रमा स्यादेवेत्यर्थः / तथा च स्मृत्यनुभवयोः कार्यकारणभावान्यथाऽनुपपत्तेः स्मृतिः प्रमेति भावः / - प्रकाशिका। र्वानुभवस्येत्यर्थः / अतीतानुभववैशिष्टयेति / यद्यप्येतावता पूर्वापरीभावसिद्धावपि न कार्यकारणभावसिद्धिरन्यथा योऽहं घटमद्राक्षं सोहं घटं स्पृशामीत्यत्रापि तत्सिद्धथापत्तेः, तथाप्येवमुभयोपस्थितौ / भूते स्मरणाभावादन्वयव्यतिरेकादिसहकृतमनसा तदग्रह इति भावः / मकरन्दः। . अतीतानुभववैशिष्टयेति / यद्यप्येवं पौर्वापर्य्यमात्रं सिध्यति, न तु कार्यकारणभावः, अन्यथा योऽहं घटमद्राक्षं सोऽहं स्पृशामीत्यादावपि तथा स्यात् / तथाप्यननुभूते स्मरणाभावादन्वयन्यतिरेकादिसहकृतमनसा तग्रह इति भावः / .. 58 न्या० कु०