________________ 456 व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलो [ 1 कारिकाव्याख्यायां ___ एवं व्यवस्थिते तय॑तेऽपि-यदियमनुभवैक विषया सती तन्मुखनिरीक्षणेन तद्यथार्थत्वायथार्थत्वे अनुविधीयमाना तत्प्रामाण्यमव्यवस्थाप्य न यथार्थतया व्यवहत्तुं शक्यते इति / व्यवहारेऽपि पूर्वानुभव एव प्रमितिरनपेक्षत्वात्। न तु स्मृतिः, नित्यं तदपेक्षणात् / असमीचीने ह्यनुभवे स्मृतिरपि तथैव / नन्वेवमनुमानमध्यप्रमाणमापद्येत , मूलप्रत्यक्षानुविधानात् / न, विषयमेदात् / - - - प्रकाशः। अनपेक्षतयेति विवृणोति-तय॑तेऽपीति / अनुभवैकविषया, अनुभवमात्रविषयेत्यर्थः / तेनास्या विषयान्तरेऽपि न प्रमात्वमिति भावः / तद्यथार्थत्वेति / स्वजनकानुभवयथार्थत्वायथार्थत्वव्याप्तयथार्थत्वायथार्थत्वेत्यर्थः / तत्प्रामाण्यमिति / स्वजनकानुभवप्रामाण्यमित्यर्थः / अव्यवस्थाप्य अनवधार्य / यद्यपि स्वजनकानुभवप्रामाण्यमनिश्चित्यापि प्रवृत्तिसंवादादिना अनुभवस्येव स्मृतेरपि प्रामाण्यग्रहः सम्भवत्येव, तथाऽपि यदि स्मृतिः प्रमा स्यात् , तदा स्वान्यूनानतिरिक्तविषयकस्वजनकानुभवप्रामाण्यव्याप्तप्रामाण्या न स्यात् / व्यतिरेके इच्छादिदृष्टान्तः। धारावहनबुद्धिषु पूर्वपूर्वबुद्धर्विशेषणमात्रविषयतयोत्तरोत्तरबुद्धिष्वपेक्षा, स्मृतौ त्यन्यूनानतिरिक्तविषयतयेति न तत्र व्यभिचारः / धारावहनबुद्धयन्यत्वेन वा विशेषणम् / शक्यते इतीत्यस्यानन्तरं, न स्मृतिः प्रमेति शेषः / तदपेक्षणमेवाह असमीचीने हीति / - मूलेति / कारणव्याप्त्यादिप्रत्यक्षप्रामाण्यव्याप्यप्रामाण्यादित्यर्थः। विषयेति। व्याप्त्यादिप्रत्यक्षस्य लिङ्गलिङ्गिविषयत्वादनुमितौ च पक्षतावच्छेदकधर्मभाननैयत्येन तस्याऽधिकस्य भानादित्यर्थः / प्रकाशिका। यत इत्याध्याहारेण प्रत्यक्षरूपकरणलक्षणाभिधानादिति भावः। यदि स्मृतिरिति / इदञ्चाव्यवधानेनैव विवृतप्रायम् / अत्रापादके प्रमापदं यथानुभवपरम्, अत इच्छादौ तद्व्यतिरेकः / श्रापाद्य चोभयत्र यथार्थत्वपरं प्रामाण्यपदं तेनापाद्यव्यतिरेकस्तत्र अत एवाह व्यतिरेक इति / धारावहनेति / तथा चापायेऽनुभवस्य तथा जनकत्वं प्रविष्टमिति विशिष्टाभावोऽस्त्येव. धारावहनबुद्धाविति भावः। तथा च जनकत्वाविवक्षायामाह धारेति। यद्यपि अनुमित्यनन्तरोत्प्रनेन्द्रियसन्निकर्षेण जनितेऽनुमितिसमानविषयप्रत्यक्षे विशेषणज्ञानात्मकतदनुमितिजन्य एवमपि व्यभिचार एव, तथापि स्वान्यूनविषयकज्ञानजन्यानुभवत्वमेव धारावहनत्वमिति भावः / विशेष्यस्येति / अतीतादिविशेष्यकपू मकरन्दः / तदास्वाऽन्यूनानतिरिक्तेति। एतच्च प्रागेब विवृतप्रायम् / नन्वापादकस्य प्रामाण्यस्य वैकल्यादिच्छादिकं नान्वयदृष्टान्तः, व्यतिरेकदृष्टान्तोऽपि न स्यात् , तादृशानुभवव्याप्तप्रामाण्यवत्त्वस्यापाद्यव्यतिरेकस्य व्याप्यत्वाभिमतवैकल्यादिति चेत् / मैवम् / आपाये प्रामाण्यपदद्वयस्य यथार्थत्वमात्रपरत्वात् , आपादके च यथार्थानुभवपरत्वात् / एवञ्चेच्छादेरापाद्यव्यतिरेकस्य व्याप्यस्यापाद्यव्यतिरेकस्य व्यापकस्य च सत्त्वाद्यतिरेकदृष्टान्तत्वमिति / विशेष्यस्येति / अतीतादिविशेष्यकस्यानुभवस्येत्यर्थः / टिप्पणी अनुभवप्रामाण्यव्याप्तेति / आपाद्ये प्रामाण्यं यथार्थत्वमात्रम् , आपादके च यथार्थानुभवत्वं तयाचेच्छादेर्व्यतिरेकपृष्टान्तत्वसम्भवः / विषयतयोत्तरोत्तरबुद्धिष्विति / स्वान्यूनानतिरिक्तविषयकत्वावच्छिन्नजनकत्वस्य प्रवेशान्नोक्तापायापादकव्याप्तौ व्यभिचारः, पूर्वज्ञानस्य विशेषणमात्रविषयकत्वेन जनकत्वादिति भावः / तस्य तदुपादानज्ञानेति / तस्य ज्ञाततालक्षणस्योपका