________________ चतुर्थस्तवके ] स्मृतेर्मानान्तरत्वखण्डनम् / रपि तथैव प्रामाण्यप्रसङ्गात् / जनकागोचरत्वेऽप्युत्तरोत्तरस्मृतौ पूर्वपूर्वस्मरणजनितशाततावभासनात् / अस्तु वा प्रत्यक्षे यथा तथा, गृहीतविस्मृतार्थश्रुतौ का वार्ता। अप्रमैवासाविति चेत् / गतमिदानी वेदप्रामाण्यप्रत्याशया, न ह्यनादौ संसारे स्वर्गकामो यजेतेति पाक्यार्थः केनचिन्नावगतः, सन्देहेऽपि प्रामाण्यसन्देहात् / न च तत्रापि कालकलाविशेषाः परिस्फुरन्ति / न चैकजन्मावच्छेदपरि. भाषयेदं लक्षणं, तत्राप्यनुभूतविस्मृतवेदार्थ प्रति अप्रामाण्यप्रसङ्गात् / कथन्तर्हि स्मृतेर्व्यवच्छेदः ? अननुभवत्वेनैव / यथार्थो ह्यनुभवः प्रमेति प्रामाणिकाः पश्यन्ति / 'तत्त्वज्ञानाद्' इति सूत्रणात् , 'अव्यभिचारि ज्ञानमिति' च / ननु स्मृतिः प्रमैव किं न स्याद्, यथार्थज्ञानत्वात् प्रत्यक्षाद्यनुभूतिवदिति चेत् / न / सिद्धे व्यवहारे निमित्तानुसरणात् , न च स्वेच्छाकल्पितेन निमित्तेन लोकव्यवहारनियमनम् , अव्यवस्थया लोकव्यवहारविप्लवप्रसङ्गात् / न च स्मृतिहेतौ प्रमाणाभियुक्तानां महर्षीणां प्रमाणव्यवहारोऽस्ति, पृथगनुपदेशात्। उक्तेष्वन्तर्भावादनुपदेश इति चेत् ।न। प्रत्यक्षस्यासाक्षात्कारिफलत्वानुपपत्तेः, लिङ्गशब्दादेश्च सत्तामात्रेण प्रतीत्य साधनत्वादिति / प्रकाशः। तताविशिष्टस्योत्तरोत्तरस्मृतौ भानादनधिगतार्थत्वसत्त्वादित्याह जनकेति / न च स्मृतता नोत्तरोत्तरस्मृतिविषयोऽनुभवाविषयत्वादिति वाच्यम् / धारावहनबुद्धावप्युत्तरोत्तरबुद्धेः पूर्वपूर्वज्ञानाहितज्ञाततासमानकालोत्पत्तिकत्वेन तत्राऽपि तद्विषयत्वाभावापातादिति भावः / अन्यत्र तत्सन्देहेऽप्युभयसिद्धप्रामाण्ये वेदे अधिगतार्थगोचरे प्रामाण्यासम्भव इति दुरुत्तरं समाधानमित्याह अस्तु वेति। तत्रापीति। एकजन्मनीत्यर्थः / अननुभवत्वेनैवेति / इममर्थमनुभवामीममर्थं स्मरामीत्यनुभवसाक्षिकावेवानुभवत्वस्मृतित्वे जातिविशेषावित्यर्थः / तत्वज्ञानादिति / ज्ञानपदमनुभवपरम् / एवमग्रेऽपि / नन्विति / यथार्थज्ञानत्वमेव प्रमापदप्रवृत्तिनिमित्तं लाघवाद् , न तु तद्विशेषोऽनुभवत्वमपीत्यर्थः / सिद्ध इति / स्मृतेः प्रमात्वं यदि यथार्थज्ञानत्वमेव साध्यं, तदा सिद्धसाधनं साध्याविशेषश्च स्यादिति प्रमापदवाच्यत्वं साध्यम् , तत्र च तन्निमित्तत्वमुपाधिरित्यर्थः। ननु यथार्थज्ञानत्वमेव तन्निमित्तमित्युक्तमित्यत आह न चेति। न च स्मृतीति / यदि स्मृतौ प्रमापदस्येश्वरसङ्केतः स्यात् , तदा प्रमाणाभियुक्तानां संस्कारे प्रमाकरणत्वव्यवहारः स्यात् , न चैवमित्यर्थः / उक्तेषु प्रत्यक्षादिष्वित्यर्थः / प्रकाशिका। षणज्ञानत्वेन जनकत्वसम्भवादिति भावः / न चेति / संस्कारोपनीतस्यैव स्मृतिविषयत्वादिति भावः। धारेति। जनकीभूतेन्द्रियसन्निकर्षाश्रयस्यैव साक्षात्कारविषयत्वादिति भावः / ज्ञानपदमिति। सूत्रे तत्वज्ञानपदस्य करणव्युत्पत्या शास्त्रपरस्य विशेषकतया फलीभूतानुभव एव तात्पर्यात् , न हि स्मृतिकरणत्वं शास्त्रस्य / एवमव्यभिचारिपदस्यापि प्रत्यक्षफलीभूतानुभव एव तात्पर्य सूत्रे / तत्रापि टिप्पणी त्वनियमादुक्तनियमोपपत्तावपि न ज्ञातताग्रहणसम्भव इत्याह न च स्मृतता नोत्तरोत्तरेति / अनुभवाविषयत्वादिति / ज्ञानजनकज्ञानाविषयत्वादित्यर्थः / समानकालोत्पत्तिकत्वेनेति / प्रत्यक्षस्यापि स्वप्राकालसन्निकृष्टग्राहित्वात् स्वोत्पत्तिक्षणोत्पन्नज्ञातताग्राहकत्वासम्भव इत्याशयः /