________________ 454 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलौ [ 1 कारिकाव्याख्यायां ज्ञाततैवोपाधिरिति चेत् / न निराकरिष्यमाणत्वात् / तत्सद्भावेऽपि वा स्मृते प्रकाशः। संबन्धेन तत्र सत्त्वात् / न चाभावेऽपि समवाय एव सम्बन्धः, तत्साधकविशिष्टबुद्धेरविशेषादिति वाच्यम् / समवेतकार्यत्वाद् ध्वंसनाशे पटाद्युन्मजनप्रसङ्गात् / न च तत्र भावत्वं तन्त्रं, गौरवाद्वैपरी. त्यापत्तेश्चेति सक्षेपः। ___ ज्ञाततैवेति / पूर्वपूर्वज्ञानाहितज्ञातताविशिष्टमुत्तरोत्तरज्ञानविषय इत्यनधिगतार्थतैव धारावहनबुद्धीनामित्यर्थः / तत्सद्भावेऽपीति / स्मृतिव्यावृत्त्यर्थमनधिगतेति व्यर्थविशेषणम् / तेनापि च न तव्यवच्छेदः / तत्रापि कारणीभूतानुभवजनितज्ञाततासत्त्वेनानधिगतार्थताऽनपायादित्यर्थः। . अथ स्मृतेर्जनकज्ञानविषयमात्रविषयत्वात् सा स्मृतौ न भासते, तथापि पूर्वपूर्वस्मृतिजनितज्ञा. प्रकाशिका। भावयोरेकत्रैकेन सम्बन्धेन सत्त्वं विरुद्धमिति पटाभावतदभावयोनैकः सम्बन्धः इत्यत्र तात्पर्यमित्याहुः / वैपरीत्यापत्तश्चेति / अमावत्वमेव नाश्यतावच्छेदकमस्तु कार्यत्वविशेषणस्योभयपक्षसमानत्वादित्यर्थः / न च तथासति घटनाशो न स्यादिति वाच्यम् / अप्रामाणिकभावत्वविशेषणप्रवेशे तस्याप्यापादनीयत्वादिति भावः / तत्रापीति / कारण ज्ञानाहितज्ञातताया एव त्वया कार्यज्ञानविषयत्वाङ्गीकारादिति भावः / अथेति / स्वाव्यवहितप्राक्कालवृत्तिजनकज्ञानाहिततज्ज्ञानतयैव ज्ञानविषय इति नानुभवाहितज्ञातता स्मृतिबिषय इत्यर्थः / तथापीति / पूर्वस्मृतेरुत्तरस्मृति प्रति विशे मकरन्दः। तथापीति / यद्यपि जनकागोचरत्वमत्रापि तुल्यं, तथाप्यनुपदमेवाशङ्कय परिहरिष्यतीति ध्येयम् / टिप्पणी - सम्बन्धेनेति।पटाभावाभावसत्त्वानुरोधेनापि वैशिष्ठयस्य स्वीकरणीयत्वात्तस्याभावत्वे सम्बन्धान्त. राभावात् , तस्य च स्वीकृतस्यैकत्वेन तेन पटाभावस्यापि तत्र सत्त्वं स्यादभावत्वाविशेषात् , तथा च विरोध एव दुर्घट इति भावः। वैपरीत्यापत्तश्चेति / संक्षेप इति / गौरवेणावच्छेदकत्वे बाधिते भावत्वे तत्स्वीकरणमप्रामाणिकम् / न च ध्वंसनाशकारणस्य फलस्य सत्त्वेन गौरवस्य फलमुखत्वान्न बाधकत्वमिति वाच्यम् / विशिष्टबुद्धेः सम्बन्धान्तरेणानुपपत्तेः, समवायविषयकत्वे नाश्यतावच्छेदककोटौ भावत्वस्याधिकस्य प्रवेशे गौरवात् , कार्य्यनाशत्वावच्छिन्नं प्रति समवायेन कार्य्यत्वेनैव कारणत्वाद् ध्वंसस्यासमवेतत्वादिति ध्वंसनाशवारणस्य फलस्यान्यथासिद्धत्वेन गौरवस्य फल. मुखत्वाभावेन बाधकत्वानपायात् / एवञ्च प्रामाणिके भावत्वस्य नाश्यतावच्छेदकत्वे स्वीक्रियमाणे - भावत्वस्यैव तथाविधं तत् किन्न स्याद् ,विनिगमकाभावात् / न चाभावत्वस्य तथात्वे घटादीनामनाशप्रसङ्ग इति वाच्यम् / तेन च प्रसङ्गेन तस्याप्रामाणिकत्वमेव प्रसजनीयम् ; तत्स्वीकृत्यैव हि तत्स्वी. क्रियत इत्युक्तप्रसङ्गस्यादोषत्वात् / न चेष्टापत्तिर्घटादीनां नित्यत्वप्रसङ्गाद्, भवतामपि हि तन्नेष्टमिति भावः। अथ स्मृतेर्जनकज्ञानविषयमात्रेति / यतो ज्ञातता स्वाव्यवहितपूर्ववर्तिज्ञानाहितैव स्वेन गोचरीक्रियते, न च स्मृतेरव्यवहितपूर्वोऽनुभव इति स्मृतेर्जनकज्ञानविषयमात्रविषयकत्वव्यवस्थितेा. तता स्मृतौ न भासत इत्यर्थः, एवश्च न तथापीत्यादिप्रन्थासङ्गतिः, अन्यथा जनकज्ञानाविषयज्ञातताया उत्तरस्मृत्या प्रहणप्रतिपादनादसङ्गातिः स्यात् , धारावाहिकस्मृतिपक्षे समानविषयकज्ञानत्वमात्रेण स्मृत्यनुभवकार्यकारणभावाभ्युपगमात् , पूर्वस्मृतेरुत्तरस्मृतिजनकत्वादव्यवहितपूर्वत्वात्तजनितज्ञातताग्रहणस्योत्तरेण सम्भवादित्यभिप्रेत्याह तथापि पूर्वपूर्वस्मृतीति / स्मृतेः स्वजनकगृहीतग्राहि