________________ चतुर्थस्तषके] स्मृतेर्मानान्तरत्वखण्डनम् / कलाविशिष्टतया तत्राप्यनधिगतार्थत्वमुपपादनीयम् / क्षणोपाधीनामनाकलनात् / न चाज्ञातेष्वपि विशेषणेषु तजनितविशिष्टता प्रकाशते इति कल्पनीयम् , स्वरूपेण तजननेऽनागतादिविशिष्टतानुभवविरोधात् / तज्ज्ञानेन तु तज्जनने सूर्यगत्यादीनामशाने तद्विशिष्टतानुत्पादात् / न चैतस्यां प्रमाणमस्ति / नन्वनुपकार्यानुपकारकयोर्विशेषणविशेष्यभावे कथमतिप्रसङ्गो वारणीयः ? / व्यवच्छित्तिप्रत्यायनेन व्यवच्छित्तौ स्वभावेन, अन्यथा तवाप्यनवस्थानादिति / प्रकाशः। बुद्धिधारायां विषयभेदानुपलम्भाज्ज्ञानायौगपद्यं स्वरूपसत्क्रमिकक्षणभेदमादायेति भावः / उपाधयो यदि स्वसत्तया विशिष्टतां जनयेयुः, तदाऽनधिगतधर्माणामविद्यमानतया तद्विष्टितयाऽनुभवो न स्यादित्याह स्वरूपेणेति। . ___ अथ स्वासत्त्वेऽपि ज्ञानसत्तया ते तां जनयन्ति, तत्राह तज्ज्ञानेनेति / नन्वसन्तस्ते सत्तामात्रेण, नासन्तश्च स्वज्ञानसत्तया तां जनयन्तीति नोक्तदोष इत्यत आह न चैतस्यामिति / एतस्यां विशिष्टतायाम् / विशेषणविशेष्यभावानुपपत्तिं तत्र मानमाह नन्विति / विशेषणेन विशेष्ये विशिष्टताख्यधर्मोत्पादनं विनैव स्वसम्बन्धादेव व्यावृत्तिबुद्धिजननेन तदुपपत्तिरित्याह व्यवच्छित्तीति / न च विशिष्टज्ञाने सा भासते, विशेषणविशेष्यसम्बन्धातिरिक्तायास्तस्या अननुभवात् / ननु चाभावविशिष्टयुद्धेविशिष्टज्ञानत्वात् संयोगादिबाधेन वैशिष्ट्यमेव सम्वन्धो विषयोऽस्तु / मैवम् / तद्धि प्रत्यभावव्यक्ति भिन्नमभिन्नं वा ? आये तत्तत्स्वरूपरूपा विशेषणतैवास्तु, किमनन्तवैशिष्ट्येन / अन्त्ये घटाभाववति पटवति घटाभावधीप्रसङ्गः / घटाभावपटाभाववैशिष्ट्ययोरभेदात् / तद्वैशिष्ट्यसत्त्वेऽपि तत्र पटाभावो नास्तीति चेन्न / पटाभावाभावस्य भावत्वे पटस्य प्रतिबन्धकतया तदभावस्य हेतुत्वात् / तस्य च वैशिष्ट्यसम्बन्धेन तत्र सत्वात् / अभावत्वे च तस्यापि वैशिष्ट्य प्रकाशिका। प्राह ज्ञानायौगपद्यमिति। ननु चेति। यद्यप्यभावे वैशिष्टयसम्बन्धसिद्धावपि घटोऽयमित्यादिधारावहनवुद्धावव्याप्तिर्न परिहृता, तथापि तद्दृष्टान्तेन ज्ञानकालानामपि वैशिष्टयं स्वीकरणीयं, तदेव चादायागृहीतग्राहित्वं धारावहनबुद्धरुपपादनीयमित्यत्र तात्पर्यम् / घटाभाववतीति / इदच वैशिष्ट्यनिराककरणाभिप्रायेण, प्रकृते त्वनुगतवैशिष्टयसिद्धावपि सङ्गतिः तदादायाप्यगृहीतग्राहित्वाभावादित्यवधेयम् / अभावत्वे चेति / पूर्वं घटाभावानुरोधेन पटाभाववैशिष्टयमस्वीकरणीयमित्युक्तमिदानीन्तु पटाभावाभावानुरोधेनापि तदङ्गीकारणीयमित्यत्र तात्पर्यम् / केचित्तु प्रतियोगिभावा मकरन्दः / अभावत्वे चेति / अभावात्मनः पटाभावाभावस्य वैशिष्टयसम्बन्धेन सत्त्वं स्यात् , वैशिटयस्यैकत्वाभ्युपगमादित्यर्थः / अधिकं प्रत्यक्षप्रकाशे / टिप्पणी। वारणायानायेति, ज्ञानयोगपद्यनिषेधेन तस्यावश्यकत्वादिति ज्ञानानामयोगपद्यन्तरसिद्धान्तश्च / ___ तृतीयज्ञानस्य द्वितीयज्ञानोत्पत्तिक्षणे दुर्वारसामग्रीसाम्राज्यात् अतोऽकामेन प्रमाणफलीभूतं सर्वमेव ज्ञानमतिरिक्तविषयकं वाच्यमित्यधिकमानार्थं सामग्रीभेदोऽपि वाच्यस्तथा च प्रथमक्षणे तृतीयसामग्यभावान्न यौगपद्यमतिरिक्तश्च विषयः कालोपाधिरेव तदन्यस्य सर्वस्यैव ग्राह्यस्य प्रथममपि विद्यमानतया सम्पन्नग्रहणसामग्रीकत्वादित्याशयः / तत्र पटाभावो नास्तीति चेदिति / पटा. -त्मकप्रतिबन्धकसत्त्वादिति शेषः / प्रतिबन्धकतया तदभावस्य हेतुत्वादिति / प्रतिबन्धकाभावरूपकारणविघटकतयैव प्रतिबन्धकस्य प्रतिवध्यवारकत्वम् / तद् यदि प्रतिबन्धकसत्त्वेऽपि प्रति. बन्धकाभावस्य सत्त्वङ्कुर्यात् , प्रतिबन्धकसत्ता हि सम्बन्धसत्ताधीना वस्तुनः सम्बन्धश्चास्ति वैशिष्टयमिति स्यादेव प्रतिबन्धकाभावसत्त्वमिति भावः / अभावत्वे च तस्यापि वैशिष्टय.