________________ 452 . व्याख्यात्रयोपेतप्रकाशबोधनीयुतेन्यायकुसुमाञ्जलौ [ 1 कारिकाव्याख्यायां सिद्धसाधनात् , साध्यसमत्वञ्च / व्यवहारनिषेधे तन्निमित्तविरहौपाधिकत्वात् , बाधितत्वाच / न चानधिगताऽर्थत्वमेव तन्निमित्तं, विपर्ययेऽपि प्रमाव्यवहारप्रसगात् / नापि यथार्थत्वविशिष्टमेतदेव, धारावहनबुद्धयव्याप्तेः। न च तत्तत्काल प्रकाशः। साध्यसमत्वादिति / प्रमात्वाभावस्य गृहीतमात्रग्राहित्वरूपतया साध्याविशेषादित्यर्थः / व्यवहारेति / प्रमाशब्दवाच्यत्यव्यतिरेके साध्ये तत्प्रवृत्तिनिमित्तरहितत्वमुपाधिरित्यर्थः / न चायमुपाधिः साधनाव्यापक इत्याह न चेति / धारावहनेति / इन्द्रियार्थसन्निकर्षाधारस्तृतीयक्षणस्तदिन्द्रियार्थसन्निकर्षजज्ञानोत्पत्त्याधारः, अभ्यासक्तमनसो यावत्सहकारिसाकल्ये सत्यनाद्येन्द्रियसन्निकर्षाधारक्षणत्वाद् द्वितीयक्षणवदिति धारावहनबुद्धौ मानमाहुः। ननु सूर्यगत्यादिरूपकालावच्छेदकोपाधिविशिष्टतत्तदर्थविषयत्वेन तासामप्यधिकविषयकत्वम् , एकस्मिन् क्षणे योगपद्यनिषेधेन तस्यावश्यकत्वादित्यत आह न चेति / घटोऽयं घटोऽयमित्यादि प्रकाशिका। ज्ञानत्वेनैव हेतुत्वात् क्रमासम्भव एव, तथापि फलवलेन तत्तद्व्यक्तित्वेनैव. उत्तरोत्तरं तत्त् ज्ञानं प्रति विशेषसामग्रीत्वमिति भावः / यद्यपि स्वरूपसत एव क्रमिकक्षणोत्पत्तिकत्वेनैव क्रमोपपत्तिः, तथापि प्रथमज्ञानोत्पत्तिकाले विनिगमकाभावेन द्वितीयज्ञानस्यैवोत्पत्तिः स्यादिति भावः / इन्दियार्थति / सन्निकर्षोत्पत्त्यधिकरणक्षणतृतीयक्षण इत्यर्थः / इतरसामग्रीसहकृतत्वं च प्रथमक्षण पदार्थविशेषणम् / तेन प्रतिबन्धाकरणेनोत्पत्त्यव्यवधानेन यत्र सन्निकर्षण ज्ञानं जनितं तत्र तृतीयक्षणे ज्ञानोत्पत्तेरपि नाभिमतसिद्धिरित्यर्थान्तरमिति प्रत्युक्तम् , साध्ये च पुरुषान्तरीयज्ञानमादायार्थान्तरमिति तदिति सन्निकर्षविशेषणम् / द्वितीयक्षणोत्पन्नज्ञानस्य तृतीयक्षणसत्वेनार्थान्तरमित्युत्पत्तीति। व्यासङ्गदशायां व्यभिचार इत्यव्यासक्तेति / व्यासङ्गदशायां ज्ञानोत्पादेऽपि तदिन्द्रियार्थसन्निकर्षजज्ञानाभावाद्भवति व्यभिचारः / यद्यपि व्यासङ्गदशायां तदिन्द्रियमनःसंयोगाभावाद्यावदित्यादि विशेषणादेव न व्यभिचार इत्यव्यासक्तेत्यादि व्यर्थम् / तथापि तदितरयावत्सहकारिसाकल्यमेव विशेषणं यावदित्यादिना विवक्षितम् / आलोकादिकिञ्चित्कारणसमवधानदशायां व्यभिचार इति याचदिति विशेषणम् / साकल्ये समवधान इत्यर्थः / सन्निकर्षोत्पत्तिक्षणे व्यभिचार इत्यनाघेति क्षणविशेषम् / इन्द्रियपदं तदिन्द्रियपरमतो न पुरुषान्तरीयसन्निकर्षमादाय व्यभिचारः / इन्द्रिये व्यभिचार इति क्षणपदम् / नन्वेकक्षणोत्पन्नज्ञानद्वयस्थले द्वितीयज्ञाने तथाप्यव्याप्तिरत आह एकस्मिन्निति / ननु ज्ञानस्य क्षणविषयत्वे विषयीभूतनियामकाभावादेकक्षणेपि ज्ञानद्वयापत्तिरत __ मकरन्दः। तृतीयक्षण इति सन्निकर्षापेक्षया। एचञ्च विनश्यदवस्थप्रथमज्ञानाधारत्वेनार्थान्तरप्रसङ्गनिरासाय मध्ये उत्पत्तीति / व्यासङ्गाधारक्षणे व्यभिचारवारणाय अव्यासक्तेति / यद्यपि तदा ज्ञानमुत्पद्यत एव, तथापि तदिन्द्रियार्थसन्निकर्षजज्ञानाभावाद् व्यभिचारः। यद्यप्येवं व्यासङ्गाभावस्यापि हेतुत्वाद् यावत्सहकारीत्यादिविशेषणाभावादेव न व्यभिचार इति तद्वैयर्थ्यम् , अन्यथा तदा ज्ञानोत्पत्त्यवश्यम्भावापत्तेः। तथापि तदतिरिक्तयावत्सहकारिविवक्षापक्षे तद् द्रष्टव्यम् , प्रतिबन्धकाभावकारणतावच्छेदकत्ववादिमतेनेदमित्यन्ये / आलोकादि कश्चित्सहकारिविरहदशायां व्यभिचारादाह यावदिति / साकल्यसमवधान इत्यर्थः / सन्निकर्षोत्पत्त्याधारक्षणे व्यभिचारादाह अनायेति क्षणविशेषणम् / इन्द्रियपदं तदिन्द्रियपरम् , अतो नेन्द्रियान्तरसन्निकर्षमादाय व्यभिचारः / ज्ञानोत्पत्त्यनाधारेन्द्रिये व्यभिचारादाह क्षणेति। टिप्पणी। झीकारादतो नासङ्गतिः। अनाद्येन्द्रियसन्निकर्षेति / इन्द्रियसन्निकर्षोत्पत्तिक्षणे . व्यभिचार