________________ चतुर्थस्तवके] स्मृतेर्मानान्तरत्वखण्डनम् / स्मृतेमानान्त 451 न ह्यधिगतेऽर्थे अधिगतिरेव नोत्पद्यते, कारणानामप्रतिबन्धात् / न चोत्पद्यमानाऽपि प्रमातुरनपेक्षितेति न प्रमा, प्रामाण्यस्यातदधीनत्वात् / नापि पूर्वाविविशिष्टतामात्रेणाप्रामाण्यम् / उत्तराविशिष्टतया पूर्वस्याष्यप्रामाण्यप्रसङ्गात् / तदनपेक्षत्वेन तु तस्य प्रामाण्ये तदुत्तरस्यापि तथैव स्यादविशेषात् / छिन्ने कुठारादीनामिव परिच्छिन्ने नयनादीनां साधकतमत्वमेव नास्तीत्यपि नास्ति, फलोत्पा. दानुत्पादाभ्यां विशेषात् / तत्फलं प्रमैव न भवति, गृहीतमात्रगोचरत्वात् स्मृतिवदिति चेत् / न / यथार्थानुभवत्वनिषेधे साध्ये बाधितत्वात् / अनधिगतार्थत्वे प्रकाशः। थार्थेऽपि स्वकारणीभूतान्यूनानतिरिक्तविषयकानुभवयाथार्थ्यापेक्षा, न त्वनुभवस्येत्यर्थः / अतधीनत्वात्-प्रमात्रपेक्षानधीनत्वादित्यर्थः / पूर्वाविशिष्टता पूर्वज्ञानान्यूनानतिरिक्तविषयतेत्यर्थः / यदि चोत्तरज्ञानानपेक्षं पूर्वज्ञानमिति स्वविषये तत् प्रमाणं, तदा पूर्वज्ञानानपेक्षमुत्तरमपि तथेत्याह तदनपेक्षत्वेनेति / यद्यप्युत्तरज्ञानं विशिष्टज्ञानत्वेन विशेषणज्ञानाऽऽत्मकपूर्वज्ञानापेक्षम् , अन्यथा सामप्रीतौल्ये धारावाहिधियां क्रमो न स्यात् / तथापि विशेषणमात्रविषयतया तथा, न विशिष्टविषयतयेति भावः / फलोत्पादेति। छिन्ने छिदा न सम्भवति, ज्ञाते तु ज्ञानान्तरं सम्भवत्येवेत्यर्थः / प्रकाशिका। अाहान्यूनेति / धारावहिकबुद्धेरनपेक्षत्वाभावो मा भूदिति स्वकारणीभूतेति / अन्यूनविषयकत्वेन च कारणत्वं विवक्षितमिति नोक्तदोषः, अनतिरिक्तपदं यद्यस्ति तदप्यविवक्षितार्थम् / न च पूर्वज्ञानप्रामाण्यापेक्षा धारावहनस्थले नोत्तरज्ञान इत्येवानातिप्रसङ्गे किमिति तथा कारणता विवक्षितेति वाच्यम् / तदपेक्षितत्वं हि तन्नियतत्वम् , तच तत्राप्यस्त्येव स्मृतावपि तदेव तत् , अनुमितौ लिङ्गपरामर्शप्रामाण्याधीनप्रामाण्यापातादतिव्याप्तिरित्यतोऽप्यनूनपदं समानाधिकरणपदमधिकं प्रवेशनीयम् / अन्यथा वक्तृयथार्थवाक्यार्थज्ञानाधीनप्रामाण्याधीनप्रामाण्ये शाब्दे ज्ञानेऽतिव्याप्तेरिति / तदा पूर्वज्ञानानपेक्षमिति / अन्यूनविषयकत्वेन पूर्वज्ञानस्याकारणतया निरुक्तायेक्षा नास्तीत्यर्थः। इदमेवाग्रे व्यक्तीकरिष्यति / न विशिष्टविषयतथेति / क्रमो न स्यादिति / यद्यपि विशेषण मकरन्दः। 'नन्वेवमनुभवोऽपि प्रमा न स्यात् , तस्यापि विशेषणज्ञानादिसापेक्षत्वादित्यत आह स्वकारणीभूतेति / एतच्च धारावाहिके तादृशपूर्वज्ञानयाथार्थ्यापेक्षयाथार्थ्यतया उत्तरकालेऽतिव्याप्तिवारणायान्यूनानतिरिक्तविषयकत्वेन कारणत्वं विवक्षितम् / तस्य च विशेषणमात्रविषयतया तथात्वमिति नोक्तदोषः / न च तत्सापेक्षमेव याथार्थ्यं तस्येति वाच्यम् / तत्सापेक्षत्वं हि तन्नियतत्वम् , तच्च तत्रापि। स्मृतावपि तदेव तत् / लिङ्गज्ञानयाथार्थ्यापेक्षित्वमादायातिव्यादिवारणायान्यूनेति / वस्तुतः पूर्वोक्तातिव्याप्तिवारणार्थमपि तत् / अनतिरिक्तपदं चिन्त्यम् , अतएव परिमले नास्तीति / किश्च स्मृतावपि पूर्वानुभवस्यान्यूनविषतयैव जनकत्वम् / अतिरिक्तविषयानुभवादपि तदंशे संस्कारानुद्वोधे स्मृतिदर्शनात् / एवञ्च वक्तृवाक्यार्थज्ञानयाथार्थ्यापेक्षित्वमादाय शाब्दानुभवेऽतिव्याप्तिरित्यपि चिन्त्यम् / अन्यथेति। यद्यपि विशेषणज्ञानत्वेनैव हेतुत्वम् तथापि क्रमासम्भवः, तथापि फलबलेन तत्त. द्विशेषणज्ञानत्वेन विशेषसामग्रीत्वमिति क्रम इति भावः / न च स्वरूपसत्क्रमिकक्षणोत्पत्तिकत्वेन क्रमः, सामग्रीतौल्ये तदेव नेत्याशयात् // टिप्पणी। तथापि विशेषणमात्रविषयतयेति। अनधिगतार्थविषकत्वप्रामाण्यवादिनां विशेषणविषयत्वेनापि प्रामाण्याङ्गीकारात् तद्वति तत्प्रकारकत्वप्रामाण्यवादिनामेव विशिष्टविषयकत्वे प्रामाण्या