________________ श्रीगणेशान नमः॥ न्यायकुसुमाञ्जलौ चतुर्थः स्तबकः। ननु सदपीश्वरज्ञानं न प्रमाणं, तल्लक्षणायोगात् , अनधिगतार्थगन्तुस्तथाभा. वात् , अन्यथा स्मृतेरपि प्रामाण्यप्रसङ्गात् / न च नित्यस्य सर्वविषयस्य चानधिगतार्थता, व्याघातात् / अत्रोच्यते अव्याप्तेरधिकव्याप्तरलक्षणमपूर्वहक् / / यथार्थानुभवो मानमनपेक्षतयेष्यते // 1 // प्रकाशः। सत्त्वेपि तस्याप्रमाणत्वादिति चतुर्थी विप्रतिपत्तिमुत्थापयति नन्विति / गन्तुर्बोधकस्य / अनधिगतार्थगन्तृत्वञ्च फलप्राक्कालिकसमानाधिकरणज्ञानाविषयविषयकत्वम् / वेदो न प्रमाणमप्रमाऽनुभवमूलकत्वादिति भावः / तदेतल्लक्षणं यथार्थत्वेन विशेषितं, न वा ? आये प्रमाभूतधारावहनबुद्धावव्यापकम्, अन्त्ये च भ्रमेऽतिव्याप्तिरित्याह अव्याप्तेरिति / दृग् दर्शनं, भावपरतया / अनधिगतार्थविषयकत्वं न लक्षणमित्यर्थः / स्वमते प्रमाणलक्षणमाह यथाथ ति / अत्रोक्तदोषाभावादित्यर्थः / ननु यथार्थानुभववद् यथार्थस्मृतिरपि प्रमा किं न स्यात् ? यथार्थत्वस्यैव तन्त्रत्वादनुभवत्वस्य व्यर्थत्वादित्यत आह अनपेक्षतयेति / स्मृतेर्या प्रकाशिकाः। कर्तृभ्रमनिरासाय भावपरतामाह गन्तुरिति। ननु पराधिगतेऽपि परस्य ज्ञानमेव प्रमा स्यादत आह फलेति / उत्तरकालीनं तु ज्ञानमादायाव्याप्तिरिति प्राक्कालिकान्तम् / अन्यदीयज्ञानमादायाव्याप्तिरिति समानाधिकरणेति / ईश्वरज्ञानाप्रमात्वे का क्षतिरत आह वेद इति / यद्यपि भट्टस्येश्वरानङ्गीकारेण हेतोरसिद्धिस्तथापीश्वराङ्गीकारे वेदोऽप्रमानुभवमूलकः स्यात्तथाचाप्रमाणं स्यादिति तर्करीत्यैतद् द्रष्टव्यम् / भ्रमेऽतिव्याप्तिरिति / अतिव्याप्तिरपीत्यर्थः / भावपरत्वेन धम्मिलाभेऽपि न लक्षणलाभ इति दृग्पदस्य ज्ञानत्वपरतामाह अनधिगतार्थविषयकत्वमिति / न लक्षणं प्रमाणलक्षणम्। प्रमाणेति। प्रमाणलक्षण मित्यर्थः। जन्यानुभवमात्रस्यैव सापेक्षत्वादप्रमात्वापत्तिरत मकरन्दः। ननु पराधिगतेऽर्थे परस्य प्रमोत्पत्तेरनधिगतार्थगन्तृत्वं तत्राव्याप्तमत आह फलेति / उत्तरकालीनस्वज्ञानमादायाव्याप्तेराह कालिकान्तम् / एतावता किमित्यत आह वेद इति / यद्यप्येवं भट्टस्य स्वतोऽसिद्धिः, तथाप्पेवमप्रमाऽनुभवमूलको वेदः स्यात् तथा चाप्रमाणं त्यादिति तर्कविधयैतद् द्रष्टव्यम् / प्रमाणेति / प्रमालक्षणमित्यर्थः // टिप्पणी। गन्तुर्बोधकस्येति / अर्थविषयकत्वेन बोधजनकस्येत्यर्थः / अनुव्यवसायं प्रति व्यवसायस्य हेतुत्वात् / अनधिगतार्थगन्तृत्वञ्चेति / अनधिगतार्थे या गतिः प्राप्तिः विषयतात्मकसम्बन्धस्तत्कर्तृत्वं निरूपकत्वम् / फलप्राकालिकेति / अव्यवहितेत्यादिः /