________________ 443 तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् / प्रत्यक्षादिभिरेभिरेवमधरो दूरे विरोधोदयः प्रायो यन्मुखवीक्षणेकविधुरैरात्मापि नासाद्यते // तं सर्वानुविधेयमेकमसमस्वच्छन्दलीलोत्सवं देवानामपि देवमुद्भवदतिश्रद्धाः प्रपद्यामहे // 23 // इति तृतीयः स्तबकः॥३॥ - बोधनी। अथ परमेश्वरप्रतिपत्तिव्याजेन परिच्छेदार्थमुपसंहरति प्रत्यक्षेति / बाधकत्वेन शङ्कितानामपि सर्वेषां प्रमाणानां कार्यत्वेनेश्वरायत्तात्मलाभत्वादनुमानस्याश्रयासिद्धरपि तदधीनत्वादागमस्य च प्रामाण्येऽपि तत्परतन्त्रत्वादुक्तं यन्मुखवीक्षणेति / प्रत्यक्षस्योत्पत्तौ तदपेक्षायामपि प्रामाण्ये तदनपेक्षत्वादुक्तं प्राय इति / तदयमर्थः–एवमीश्वरस्याधरैरप्रिवर्त्तमानस्तमपि विषयीकर्तुमशक्नुवद्भिरिति यावत् / यन्मुखवीक्षणेकविधुरैरात्मापि नासाद्यते तैः प्रत्यक्षादिभिस्तस्य विरोधी बाधश्च दूरे, तमेवंभूतं सर्वेषां परमपुरुषार्थप्राप्तिहेतुत्वादनुविधेयमेकं समेनाधिकेन वा द्वितीयेन रहितं असमायां स्वच्छन्दतः प्रवणलक्षणायां लीलायामबद्धरतिं परमेश्वरमुद्भवदतिश्रद्धावन्तो वयं प्रपद्यामह इति // 23 // इति श्रीमद्रामदेव मिश्रसूनोर्वरदराजस्य कृतौ कुसुमाञ्जलिटीकायां तृतीयः परिच्छेदः // प्रकाशः। भावोपलम्भः प्रतिबन्धकः स्यादित्यर्थः / एतच्च भावोपलब्धावभावानुपलब्धिः पृष्ठलग्नैवेति व्याचक्षाणैरस्माभिः परिशिष्टप्रकाशे विपश्चितमिति तत्रैवानुसन्धेयम् // 22 // ___ स्तबकार्थमुपसंहरन्नेवेश्वरनति निबध्नाति प्रत्यक्षादिभिरिति / यस्येश्वरस्य मुखवीक्षणैकविधुरैर्धर्मिग्राहकमानवाधितैः प्रत्यक्षादिभिर्विरोधोदयोऽधरः / अत एव, दूरे / सर्वमनु विधेयं वश्यं यस्य / असमा चासौ स्वच्छन्दा चेतनान्तराप्रयोज्या या लीला, सेवोत्सवो यस्य, स तथा। दुःखाभावैकनिदानत्वात् / अत एवोद्धचदतिश्रद्धा वयं, तं देवानामपि देवं स्तुत्यं प्रपद्यामहे इत्यर्थः // 23 // इति श्रीमहामहोपाध्यायश्रीवर्धमानविरचिते न्यायकुसुमाञ्जलिप्रकाशे तृतीयः स्तवकः // 3 // प्रकाशिका। चीनेत्यत्र प्रतिपादितं मयेत्याह एतच्चेति / तदधिकरणीयाभावोपलम्भाभावस्य तदधिकरणीयभावग्राहकत्वं वाच्यमन्यथातिप्रसङ्गात् एवं तत्सम्बन्धावच्छिन्नत्वाभावोपलम्भाभावस्य तत्सम्बन्धा. वच्छिन्नभावग्राहकत्वमन्यथातिप्रसङ्गादेव / तथा च निरधिकरणाभावग्रहे निर्विकल्परूपभावग्रहेऽचेन्द्रिमेव करणं वाच्यमित्यावश्यकत्वादन्यत्रापि तथा, अभावधीस्तु निरधिकरणा निर्विकल्पकरूपा च न सम्भवतीति वैषम्यमिति तस्य तात्पर्यम् // 22-23 // इति महामहोपाध्याय परनामकमेघ ठक्कुरश्रीभगीरथाविरचितायां कुसुमांजलिप्रकाशिकायां तृतीयस्तवकः॥ मकरन्द। तथा च भावज्ञानेऽप्यभावानुपलब्धिरेव प्रमाणं स्यादिति भावः // 22-23 // इति महामहोपाध्यायश्रीरुचिदत्तविरचिते कुसुमाञ्जलिमकरन्दे तृतीयः स्तवकः // -- 000000000c ---- ५७.न्या० कु०