________________ - 448 व्याख्ययात्रोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलौ [ 22 कारिकाव्याख्यायां सर्वमेव मानं साक्षात्परम्परया वा निर्विकल्पकविश्रान्तम् / न हनुमानादिकमध्यनालोचनपूर्वकम् / ततोऽनालोचितोऽभावः कथमनुपलब्ध्याऽपि विकल्प्येत / न च तया तदालोचनमेव जन्यते, प्रतियोग्यनवच्छिन्नस्य तस्य निरूपयितुमशक्यत्वात् , शक्यत्वे वा किमपराद्धमिन्द्रियेण / तथा सम्बन्धान्तरगर्भवनियमेन विशेषणत्वस्य, मानान्तरेऽपि का प्रतीकारः ? तदभावस्य तदानीमपि समानत्वात् / परस्य तादात्म्यमस्तीति चेत् / ननु यद्यसावस्ति,अस्त्येव, न चेन्नव / न ह्यभ्युपगमेनार्थाः क्रियन्ते, अनभ्युपगमेन वा निवर्तन्ते इति / अवश्याभ्युपगन्तव्यत्वे कारणत्वं सिद्धयेद्, न तु मानान्तरत्वम् / अन्यथा भावोपलम्भेऽप्यभावानुपलब्धिरेव प्रमाणं स्याद्, नेन्द्रियम् / अभावोपलम्मे भावानुपलम्भवद् भाषोपलम्भे अभावानुपलम्भस्यापि वज्रलेपायमानत्वादिति // 22 // बोधनी। तेषां प्रत्यक्षपूर्वकत्वात् तस्य च निर्विकल्पकपूर्वकत्वादिति // यतः सर्वस्यापि प्रमाणस्यायं स्वभावः तस्मादनुपलब्ध्या प्रमाणान्तरभूतयाप्यालोचितपूर्व एवाभावो विकल्पनीय इत्याह तत इति / अस्तु तर्खनुपलब्ध्यैवालोचनमित्यत्राह न च इति / आलोचनविषयत्वसंभवे चभावस्यास्माकमपीन्द्रियेण तदालोचनं भविष्यतीत्याह शक्यत्वे वा इति / एतेन द्वितीयः पादो व्याख्यातः / षष्टेनापि प्रमाणेनाभावः कस्यचिद्विशेषणत्वेन वा ग्राह्यः, ततश्च सम्बन्धान्तरपूर्वकत्वनियमे विशेषणविशेष्यमावस्यानवस्थाप्रसङ्गस्तवापि तुल्य इत्याह तदभावस्य इति / ननु संयोगाद्यभावेऽपि तादात्म्यात्मकसम्बन्धान्तरमभ्युपगम्यते भाटैस्ततो न तुल्यत्वमित्याह परस्य इति / यदि हि तादात्म्यं प्रमाणतोऽस्ति ततोऽस्तीति स्यात् न चैवं प्रमाणाभावादित्याशयेनाह ननु इति / नन्वस्माभिस्तावदेतदभ्युपगम्यत इत्यत्राह न हि इति / न ह्यभ्युपगमतदभावमात्राभ्यां वस्तुनः सदसत्त्वसिद्धिरिति / यत्त्ववश्याभ्युपगन्तव्यत्वादनुपलब्धेः सैव प्रमाणमस्त्विति तत्राह अवश्येति / यदावश्याभ्युपगम्यत्वमात्रेणानुपलब्धेः प्रमाणान्तरत्वमपि सिद्ध्येत् तर्हि भावोपलम्भेऽपि तदभावानुपलब्धिरेव प्रमाणं भवेत् भावोपलम्भसमयेऽभावानुपलब्धेरवर्जनीयत्वादित्याह अन्यथा इति // 22 // प्रकाशः। कल्पकेति / प्रमाणविषयत्वं निकल्पकविषयत्वव्याप्यमित्यर्थः। तदभावस्य सम्बन्धान्तराभावस्य / तदानीमपि मानान्तरस्वीकारेऽपि / परस्येति / भट्टानामधिकरणे विशेषणत्वं नाभावस्य, किन्तु तादात्म्यमित्यर्थः / भावाभावयोर्विरोधान्न तादात्म्यं, तथात्वे वा संयोगादिनैवाभावग्रहः स्यादित्याशयेनाह नन्विति / यद्यभावोऽस्ति तदा विशेषणत्वमस्त्येवेत्यर्थः / अवश्याभ्युपगन्तव्यत्वादित्यत्राह अवश्येति / अन्यथेति / अभावज्ञाने यथा भावोपलम्भः प्रतिबन्धकस्तथा भावज्ञानेऽप्य. प्रकाशिका। रम्परासाधारणनिर्विकल्पकप्रयोज्यत्वमुच्यते तदाभावज्ञाने(१)ऽस्स्येवेति प्रत्यक्षविषय इत्यपीति भावः / लिङ्गासङ्गतेराह यद्यभावोस्तीति। अभावत्वे च संयोगादिनैव प्रहापत्तेरुक्तत्वादिति भावः / प्रभावोपलम्भः प्रतिबन्धक इत्यनन्तरमिति तदभाव एव प्रमाणमिति शेषः / इयञ्च युक्तिरसमी. मकरन्दः। तत्यूर्वकत्वनियमादिति परस्य नानिष्टमित्यत आह प्रमाणविषयत्वमिति। तथा चाप्रयोजकत्वादिना यथा नेयं व्याप्तिस्तथा प्रत्यक्षविशिष्टज्ञानस्य निर्विकल्पकजन्यत्वव्याप्तिरपीति भावः / लिङ्गासनतेराह यद्यभावोऽस्तीति / भावरूपत्वे च तस्य संयोगादिनैव ग्रहापत्तेरित्युक्तत्वादिति भावः / तथेति / (1) प्रतियोग्यादिनिर्विकल्पाप्रयोज्यत्वादिति प्रकृतेऽनिष्टमत अाह प्रमाणविषयत्वमिति / तथाचेयं ब्याप्तिरप्रयोजिका तथा निर्विकल्पकविषय एव /