________________ अनुपला तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वलण्डनम् / 447 कम् / स च विकल्पयितव्य पालोच्यते, यो विशेषणशाननिरपेक्षेणेन्द्रियेण विक्षाप्यते / यस्तु तत्पुरःसर एव प्रकाशते, तत्र तस्य विकल्पसामग्रीसमवधानवत एव सामोन्नायं विधिः / स्वभावप्राप्तौ सत्यामत्यधिका प्राप्तिः प्रतिपत्तिबलेन रूपा. दावभ्युपगता, इह त्वनवस्थादुस्थतया न तदभ्युपगमो, न तु स्वभावप्रत्यासत्तिरेतावतैव विफलायते। न चेदेचं, प्रमाणान्तरेऽपि सर्वमेतद् दुर्घटं स्यात्। तथाहि बोधनी। विशिष्टज्ञानगोचरत्वमिति द्वितीयस्यापि चोद्यस्य तमेवोत्तरतया व्याचष्टे स च विकल्पयितव्य इति / तैरेव विकल्पवेद्यैः भवद्भिः पूर्वमालोचनविषयैर्भवितव्यं ये प्रतियोगिनिरपेक्षैरेवेन्द्रियैः ज्ञाप्यन्ते यथा घटादयः, ये तु प्रतियोगिज्ञानपुरःसरमेव जायन्ते यथा ज्ञानादयः तेषां निर्विकल्पकवेद्यत्वासंभवात् न तत्पूर्वकत्वमिति / / अथ पाठक्रममनादृत्यार्थक्रमेण द्वितीयं पादमवसरे व्याख्यास्यंस्तृतीयचोद्योत्तरतया तृतीयं व्याचष्टे स्वभावेति // स्वाभाविके हि विशेषणविशेष्ये सम्बन्धे सत्यपि रूपादिष्वधिकः समवायादिसम्बन्धो दृष्टत्वादेव स्वीक्रियते, तद्धेतुकत्वेनाभावे तु स्वभावतः प्राप्तिरस्ति न च सम्बन्धान्तरं दृश्यत इति भावः / तथापि तदभ्युपगमोऽनवस्थादुस्थ इत्याह इह तु इति // एतावता संबन्धान्तराभावमात्रेणेति तुरीयं पादं व्याचष्टे न चेदेवम् इति / दौर्घट्यमेवाह तथाहि इति / प्रत्यक्षं साक्षादनुमानादीनि तु परम्परया निर्विकल्पकपूर्वकाणि . प्रकाशः। रित्यर्थः / स चेति / जन्यविशेषणज्ञानासहकृतेन्द्रियजन्यज्ञानगोचरस्वं निर्विकल्पकप्रयोजकमिति प्रमाणमुखी व्याप्तिरित्यर्थः / अभावस्तु प्रतियोग्यादिविशेषणज्ञाननियतज्ञानविषयस्वेन विशिष्टज्ञानकविषयत्वान्न तथेत्याह यस्त्विति / प्राप्त्यन्तरे इति व्याचष्टे स्वभावेति / यद्यपि घटे रूपसमवाय इति नानुभवः, तथापि रूपादेः प्रत्यक्षत्वेनेन्द्रियसन्निकर्षाश्रयत्वात् संयोगबाधेनेन्द्रियसम्बन्धघटकतया संयुक्तसमवायादिकल्पनादित्यर्थः। ननु ज्ञानघटयोरिव द्रव्येण रूपादिभिः स्वरूपसम्बन्धे नार्थान्तरम् , इन्द्रियसंयुक्तविशेषणतयैव रूपादिभानोपपत्तेः / मैवम् / सम्बन्धानुमितौ हि न स्वरूपसम्बन्धो विषयः, तत्स्वरूपाणामनन्तत्वेन गौरवात् , किन्तु पक्षधर्मताबलादेक एव सम्बन्धस्तद्विषयो लाघवादिति भावः / इह त्विति / यद्यपि सम्बन्धद्वयसिद्धौ नानवस्था, तथात्वे वा समवायोऽपि न स्यादनवस्थाऽऽपादकत्वात् , तथाप्यभावो यद्यतिरिक्तसम्बन्धवान् स्यात् सत्तावान् स्यादित्यव्यवस्थैवानवस्थेत्यर्थः / इन्द्रियश्च नाप्राप्तग्राहकमिति संयोगादिबाधेनेहैव तत्प्राप्तिर्विशेषणता कल्प्येति भावः // प्रमाणान्तरेऽपीति / अनुपलब्ध्याख्यमानान्तरस्वीकारेऽपीत्यर्थः / निर्वि प्रकाशिका। ज्ञानगोचरमात्रगोचरस्वनिर्विकल्पकजन्यत्वं प्रयोजकमित्यर्थः। घटे रूपसमवाय इति / सर्वसिद्ध इति शेषः / सम्बन्धघटकतयेति / सम्बन्धरूपतयेत्यर्थः / तथात्व इति। अनवस्थामूलत्वेन द्वितीयसमवायत्याग इत्यर्थः / सत्तावानिति भावः स्यादित्यर्थः / तेन न सामान्यविशेषाभ्यां व्यभिचारः, तदुभयभिन्नत्वेनापादकविशेषणाद्वा संयोगादिवाधेनेति / अद्रव्यत्वेन संयोगवाधात् ध्वंसस्य समवायिकारणनाशान्नाशप्रसङ्गेन च समवायबाधादित्यर्थः / निर्विकल्पकविश्रान्तत्वं यदि साक्षात्कारप. मकरन्दः। सम्बन्धघटकतयेति / सम्बन्धरूपतयेत्यर्थः / सत्तावानिति / न च सामान्यविशेषाभ्यां व्यभिचारः, तद्भिन्नत्वे सतीत्यापादकविशेषणात् / वस्तुतो भावः स्यादित्यर्थः, तेन नोक्तदोषः / ननु साक्षात्परम्परासाधारणमाले चनपूर्वक:वमनुमानादिवदभावज्ञानेऽप्यस्त्येव, तद्धेतुप्रतियोग्यादिज्ञानस्य