________________ 446 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [ 22 कारिकाव्याख्यायो त्वात् तस्य / अवश्या युपगन्तव्यत्वाच्चानुपलब्धः, न हि तदुपलब्धौ तस्याभावोपलम्भ इति चेत् / उच्यते अवच्छेदग्रहध्रौव्यादधौव्ये सिद्धसाधनात् // प्राप्त्यन्तरेऽनवस्थानान्न चेदन्योऽपि दुर्घटः // 22 // - सह्यर्थविशेषणीभविष्यन् केवलोऽपि विस्फुरेद् यस्यावच्छेदकज्ञानं न व्या बोधनी। समाधत्ते उच्यते इति / अवच्छिद्यतेऽनेनेति अवच्छेदः प्रतियोगी, तद्ग्रहणस्याभावनिरूपणेऽवश्यंभावः / प्रतियोगिनिरूपणाधीननिरूपणोऽभाव इति यावत् / तस्माद्विशेषणत्वेऽपि न केवलस्याभावस्य पूर्वग्रहणं, नापि विकल्पवेद्यत्वेऽपि पूर्वमालोचनमास्थेयम् / एतदुक्तं भवति-न हि पूर्वप्रहणे विशेषणत्वं प्रयोजकं, नाप्यालोचनीयत्वेन विकल्पवेद्यत्वं किन्तु प्रतियोगिनिरपेक्षनिरूपणीयत्वं ज्ञानसमवायादौ तथावसायात् / अथाभावज्ञानस्यावच्छेदप्रहो ध्रुवो नाङ्गीक्रियेत तर्हि केवलस्याभावस्य पूर्वग्रहणमालोचनं च को नाम नाङ्गीकुर्यात् / विशेषणविशेष्यरूपस्य संबन्धस्य संबन्धान्तरपूर्वकत्वनियमाभ्युपगमे च संबन्धान्तरस्यापि सम्बन्धपूर्वकत्वप्रसङ्गेऽनवस्थाप्रसङ्गः / न चेदयमस्मदुक्तप्रकारोऽङ्गीक्रियेत ततः प्रमाणान्तरपक्षोऽपि दुर्घटः स्यादिति / तत्राद्यचोयोत्तरतयाद्यं पदं व्याचष्टे स हि इति / एषां हि दण्डकुण्डलादीनामर्थानाम् अर्थान्तरज्ञाननिरपेक्षैः स्वविषयैरेव ज्ञानैरितरेतरव्यवच्छेदः सिद्ध्यति, त एव विशेषणीभवन्तः केवला अपि स्फुरेयुः / येषां तु ज्ञानसमवायाभावादीनां स्वस्वगोचरं ज्ञानव्यजकमात्रं न तु व्यवच्छेदकं, न हि ते प्रतियोगिज्ञाननिरपेक्षैरेव स्वविषयज्ञानैः स्वेतरव्यवच्छिन्नाः प्रतीयन्ते तेषां केवलस्फुरणमन्तरेणैव प्रकाशः। . नुपलब्धेः करणत्वमनन्यगतिकतयोपपादयति अवश्येति / शुक्तौ रजतानुलब्धेरभावादिन्द्रियसंबद्वस्यापि रजताभावस्याप्रहेणावश्यकत्वादित्यर्थः // विशिष्टज्ञानमात्रस्य न विशेषणशानजन्यत्वनियमः, अवच्छेदग्रहानियतज्ञानविषयत्वस्योपाधिस्वादित्याह अवच्छेदेति / ध्रौव्यं नियमः। अभावत्वेन अभावज्ञानस्य प्रतियोग्यादिज्ञानजन्यतया विशिष्टज्ञानसामग्यस्त्येवेति न केवलमभावो भासते, अतो न निर्विकल्पकविषय इत्यर्थः / अथाभावज्ञानं प्रतियोग्यादिज्ञानानपेक्षं, तर्षभावोऽपि निर्विकल्पकविषय एवेति सिद्धसाध. नमित्याह अध्रौव्ये इति / अभावश्च सम्बन्धान्तरं विनाऽपि स्वरूपेणैव विशेषणं, सम्बन्धान्तरसत्वे तत्रापि तत्कल्पनादनवस्थापत्तेः / यदि च नैवं, तदा त्वन्मतेऽपि वक्ष्यमाणो दोष इत्याह प्राप्त्यन्तरे इति // स हीति / अवच्छेदकस्य प्रतियोग्यादेविशेषणस्य जन्यज्ञानं विना यत्र विशिष्टज्ञानसामग्री प्रथमतो न भवति, स एवार्थोऽग्रे विशिष्टज्ञानविषयः पूर्वं निर्विकल्पकविषय इति विषयमुखी व्याप्ति प्रकाशिका। क्षत्वस्य वानभ्युपगमेनेत्ययः / विशिष्टज्ञानमात्रस्येति / विशिष्टप्रत्यक्षमात्रस्य न विशेषणनिर्विकल्पजन्यत्वनियम इत्यर्थः / अवच्छेदग्रहेति / अवच्छेदप्रहनियतं ज्ञानं यस्य तन्मात्रविषयकत्वस्येत्यर्थः / अभावत्वेनेति / सामान्याप्रकारकाभावज्ञानस्येत्यर्थः / तेन प्रकृतसंगतत्वम् / अवच्छेदकस्येति / विशेषणज्ञानाभावेन विशिष्टज्ञानसामप्रीविरहेऽपि यत्र ज्ञानसामान्यसामग्री तत्रैव निर्विकल्पकमित्यर्थः / पौनरुक्त्यं परिहरति विषयमुखीति। विशेषेणेति / यथोक्त मकरन्दः। विशिष्टशानमात्रस्येति / विशिष्टप्रत्यक्षमात्रस्य न विशेषणनिर्विकल्पकजन्यस्वनियम इत्यर्थः /