________________ me तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् / चन्दनमित्यादयो व्याख्याताः। तथाचाभावविषयेऽपीन्द्रियसामर्थ्यस्य दुरपह्नवत्वादलमसत्ग्रहेणेति // 21 // स्यादेतत् , नागृहीते विशेषणे विशिष्टबुद्धिरुदेति, तत्कार्यत्वात् / न च विशिष्टसामर्थ्य केवलविशेषणेऽपि सामर्थ्य, केवलसौरभेऽपि चक्षुषो वृत्तिप्रसङ्गात् / अतोऽभावविशेषणग्रहणाय मानान्तरसम्भवः। अपि च कथमनालोचितोऽर्थ इन्द्रियेण विकल्प्येत ? / न च मानान्तरस्याज्येषा रीतिः। अनुमानादिभिरनालोचितस्याष्यर्थस्य विकल्पनात् / अप्राप्तेश्च / न ह्यभावेनेन्द्रियस्य संयोगादिः सम्भवति / न च विशेषणत्वं, सम्बन्धान्तरपूर्वक बोधिनी। दनेन तेऽपि प्रत्यया गन्धज्ञानसहकृतया त्वचा चा चक्षुषा वा जायन्ते न त्विन्द्रियसमाहारेणेति व्याख्यात इति / एवमुक्तप्रकारेण विशिष्टज्ञान इवेन्द्रियस्याभावेऽपि सामर्थ्यमवर्जनीयमित्युपसंहरति तथा च इति // 21 // __ अथानुपपत्तिचतुष्टयेनाभावप्रत्यक्षत्वं पूर्वपक्षी प्रतिक्षिपति स्यादेतत् इति / अघटं भूतलमिति विशिष्टयुद्धेः पूर्वमेव विशेषणस्याभावस्य प्रहणं वक्तव्यं विशेषणग्रहणकार्यत्वात् विशिष्टबुद्धेर्न च विशिष्टे सामर्थ्यमस्तीति विशेषणेऽपीन्द्रियस्य सामर्थ्यमतिप्रसङ्गात् , तस्मादभावात्मनो विशेषणस्य ग्रहणाय षष्ठं प्रमाणमास्थेयम् / यदि वा भाव ऐन्द्रियकः सविकल्पको ग्रायः, ततो निर्विकल्पकेनासौ पूर्व ग्रहीतव्यः निर्विकल्पपूर्वत्वात् विकल्पस्य / न चाभावे निर्विकल्पकसंभवः प्रतियोग्यवच्छेदेनैव तस्य स्फुरणात् / न च षष्ठप्रमाणवादिनोऽप्ययं प्रसङ्गः ऐन्द्रियरुविकल्पस्यैव तत्पूर्वकत्वनियमात् / ने चाभावस्येन्द्रियेण प्राप्तिः संभवति संयोगादीनां भावधर्मत्वात् , विशेषणविशेष्यभावलक्षणस्य च संबन्धस्य संयोगसमवायादिसम्बन्धान्तरपूर्वकत्वेनैव दण्डिनीलोत्पलादिषु दृष्टत्वात् / किंच प्रभावप्रत्यक्षत्ववादिनापि प्रतियोगिनोऽनुपलब्धिरवश्यमिन्द्रियसहकारित्वेनाप्यङ्गीकर्तव्या, तथा चोभयसिद्धा सैवाभावज्ञानहेतुरस्त्विति / प्रकाशः। चन्दनविशेष्यकं जन्यते, चन्दनसौरभमिति ज्ञानं चक्षुरुपनीतचन्दनविशेषणकं सौरभविशेष्यक घ्राणेन जन्यते, यदिन्द्रियजन्यं यज्ज्ञानं तत्तदिन्द्रिययोग्यविशेष्यकमिति व्याप्तेरित्यर्थः // 21 // ननु घटाभाववद्भूतलमित्यपि धीरनुपलब्ध्युपनीताभावविशिष्टबुद्धिरिन्द्रियेण जन्यते, तथाच विशिष्टज्ञानस्यन्द्रियकत्वेऽपि विशेषणज्ञानायानुपलब्धिर्मानान्तरं सौरभज्ञानाय घ्राणमिवेत्याह नागृहीतेति / प्रत्यक्षविशिष्टज्ञानस्य निर्विकल्पकजन्यत्वेन व्याप्ते भावे सविकल्पकैकवेधे तदस्तीति नाभावज्ञानं प्रत्यक्षमित्याह अपि चेति / अनुपलब्धिजन्याभावज्ञाने तु न तज्जन्यत्वमसाक्षात्कारित्वाच्छब्दादाविवेत्याह न चेति / अप्राप्तेश्चेति / इन्द्रियाणां प्राप्तार्थप्राहकत्वादित्यर्थः। न च तत एव संयोगादिबाधेनेहैव विशेषणताप्राप्तिः कल्प्येत्याह न चेति / विशेषणतायाः समवायादिसम्बन्धान्तरव्याप्तत्वात्तद्वाधे विशेषणत्वस्यापि बाधादित्यर्थः / सम्बन्धस्य सम्बन्धिभिन्नत्वनियमेयं ग्राह्यस्वरूपस्यासम्बन्धत्वनिश्चयात् समवायानभ्युपगमेनान्यत्र तदकल्पनाच्च / न चाभावस्येन्द्रियग्राह्यत्वसिद्धाविहैव तत्कल्पनम् / विशेषणताकल्पने सत्यभावः प्रत्यक्षः, तत्सिद्धौ च तत्कल्पनमित्यन्योन्याश्रयादिति भावः। एवमभावबुद्धौ इन्द्रियाणां करणत्वं निरस्या प्रकाशिका। तत्रापि प्रमाणसमाहार इति भावः / यदिन्द्रियेति / बहिरिन्द्रियजन्ये चायं नियम इत्यवधेयम् // ननु समवायस्थल एव विशेषणता क्लुप्तेत्यत आह समवायेति / समवायस्म तत्प्रत्य