________________ 444 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [ 21 कारिकाव्याख्यायां .... विकल्पनात् खल्वपि / अघटं भूतलमिति हि विशिष्टधीरवश्यमिन्द्रियकरणिका स्वीकर्तव्या प्रमाणान्तरं वा सप्तममास्थेयम् / यथा हि विशेष्यमात्रोपक्षीणमिन्द्रियमकरणमत्र, तथा विशेषणमात्रोपक्षीणा अनुपलब्धिरपि न करणं स्यात् / स्वस्वविषयमात्रप्रवृत्तयोः प्रमाणयोः समाहारः कारणमिति चेन्न। विषयमेदे फलवैजात्ये च तदनुपपत्तेः / न हि मृत्सु तन्तुषु च व्याप्रियमाणयोः कुलालकुविन्दयोः समाहारः स्यात् / नापि घटपटादिकारिणां चक्रवेमादीनां समाहारः क्वचिदुपयुज्यते / तत्र कर्बुरका भावान्न तथा, प्रकृते तु विशिष्ठप्रत्ययस्य परोक्षापरोक्षरूपस्य दर्शनात्तथेति चेन्न / विरुद्धजातिसमावेशाभावात् / भावे वा करम्बित एव काय दयोरपि शक्तिरभ्युपगन्तव्या दर्शनबलात् , न हि नियतविषयेण सामर्थ्यन कर्बुरकार्यसिद्धिः / अन्यत्रापि तथा प्रसङ्गात् / ननूभयोरप्युभयत्र सामर्थ्य कोऽथ मिथासनिधानेनेति चेन्न / तत्सहितस्यैव तस्य तत्र सामथ्यादिति / एतेन सुरभि बोधनी। चतुर्थ हेतुं व्याचष्टे विकल्पनात् इति / नन्विन्द्रियस्य विशेष्यभूतभूतलोपक्षेप्यभावप्रमाणेन विशिष्टधीः सेत्स्यति किं समेनेत्यत्राह यथा हि इति / अत्र इति / अघटं भूतलमिति विशिष्टबुद्धावित्यर्थः / ननु प्रत्येकसामर्थ्य तयोः समाहारः कारणमस्तु न तु सप्तमस्यावकाश इत्याह स्वस्वविषय इति / न इति / भावाभावरूपविषयभेदे परोक्षापरोक्षलक्षणफलवेजात्ये च सति येनेन्द्रियानुपलब्थ्योः समाहारः संभवतीति विषयभेदे फलवैजात्ये च समाहाराभावमेवोदाहरणेन दर्शयति न हि इति / ननु तत्रोदाहरणे कर्बुरस्य घटपटात्मकस्य कार्यस्याभावात्समाहाराभावः न तु विषयभेदात्फलवैजात्याद्वा, इह त्वभावविशिष्टभावविषयस्यानुपलब्धीन्द्रिययोरनुगुणपरोक्षापरोक्षात्ममः प्रत्ययस्य दर्शनायुक्तः समाहार इत्याह तत्र इति / न इति / न हि मिथोविरुद्ध परीक्षापरोक्षत्वे एकत्र ज्ञाने समाविशत इति दर्शनबलात्समावेशाङ्गीकारे तत्र विशिष्टकार्येऽनुपलब्धेरिन्द्रियत्वद्वयोरपि शक्तिरङ्गीकार्या, तदा च प्रत्यभिज्ञानवत् प्रत्यक्षफलमेव ज्ञानं भवेदिति भावः / ननु स्वस्वविषयमात्रपर्यवसितयोरेव समाहारः कारणमस्तु किं शक्त्यन्तरकल्पनयेत्यत्राह न हि इति / प्रत्यभिज्ञादावपि नियतविषययोरेव संस्कारेन्द्रिययोः समाहारादेव सिद्धेरिन्द्रियशक्तिकल्पनं न स्यादिति / नन्वनुपलब्धीन्द्रिययोः प्रत्येकं भावाभावविषयशक्त्यभ्युपगमेऽन्यतरेणैव विशिष्टधीसिद्धः किं परस्परसाहित्येनेत्याह ननु इति / न इति / अनुपलब्धिसहितस्यैवेन्द्रियस्य तत्र शक्तिर्न केवलस्य, न चान्यसाहित्येनेन्द्रियकत्वविरोधः प्रत्यभिज्ञानादिवदिति / सुरभि चन्दनमित्यादिप्रत्ययेष्विवात्रापि समाहारः कारणं स्यादित्याशङ्कयाह एतेन इति / अन्यसहितस्येन्द्रियस्य विशिष्टधीहेतुत्वप्रतिपा प्रकाशः। प्रमाणयोः समाहारः, समाहृतयोर्वा प्रामाण्यम् ? तत्र नाद्य इत्याह विषयमेदे इति / भिन्नभिन्नप्रमाजनकत्वेन तयोः पर्यवसितयोः प्रमान्तरजनकत्वानुपपत्तेरित्यर्थः / विषयभेदफलभेदयोः क्रमेण समाहाराभावमुदाहरति न हीति / तत्रेति / इन्द्रियजन्यत्वेन साक्षात्कारित्वे सत्यनुपलब्धिकरणकत्वेन परोक्षत्वे कबुरत्वमित्यर्थः / अन्त्ये त्वभावज्ञानेऽपीन्द्रियस्य सामर्थ्य सिद्धमि त्याह भावे वेति / अन्यत्रापीति / घटपटसामग्रीतोऽपि करम्बितकार्य स्यादित्यर्थः // - एतेनेति / घ्राणजसौरभज्ञानसहकृतेन चक्षुषा सुरभि चन्दनमिति ज्ञानं सौरभविशेषणकं प्रकाशिका। व्यभिचार। भिन्नभिन्नेति। अन्यथा जातिसङ्करापत्तेरिति भावः / घ्राणजेति / तथा च न