________________ तृतीयस्तवके] अनुपलब्धेर्मानान्तरत्वखण्डनम् / 443 चेन्न। यया क्रियया विना यस्य यत्कारणत्वं न निर्वहति, तं प्रति तस्या एव व्यापारत्वात् / न च धूमाद्युपलब्धिमन्तरेण चक्षुषो वह्निशानकारणत्वं न निर्वहति, संयोगवदिति। अस्ति च भावाभावविपर्ययः। सोऽयं यस्य दोषमनुविधत्ते, तदेवात्र करणमिति न्याय्यम् / न चानुपलब्धिः स्वभावतो दुष्टा, नाध्यधिकग्रहणं प्रतियोगिस्मरणं घा स्वभावतो दुष्टम् / अनुत्पत्तिदशायामनुत्पत्तरुत्पत्तिदशायाश्च स्वार्थप्रकाशनस्वभावताया अपरावृत्तः / असंसृष्टयोरधिकरणप्रतियोगिनोः संसृष्टतया प्रतिभाने दुष्टम् , संसृष्टयोश्चासंसृष्टतयेति चेत् / नन्वयमेव विपर्ययः। तथा च श्रात्माश्रयो दोषः / तस्माद् दुष्टेन्द्रियस्य तद्विपर्ययसामर्थ्य अदुष्टस्य तत्समीचीनज्ञानसामर्थ्यमपि। तथा चप्रयोगः-इन्द्रियमभावप्रमाकरणं, तद्विपर्ययकरणत्वात् , यदु यद्विपर्ययकरणं तत् तत्प्रमाकरणं यथा रूपप्रमाकरणं चक्षुरिति / बोधनी। पारलक्षणमपि दृष्टोपवल्गितमित्याह न इति / न हि ययेन जन्यतै तत्सर्वं तस्य व्यापारः, किन्तु येन विना यस्य यदुत्पादनं न संभवति स एच तस्य कारणस्य तस्मिन् कार्ये जनयितव्येऽवान्तरव्यापारः / न च वन्हिसंयोगमन्तरेणेव धूमोपलम्भमन्तरेण चक्षुर्न वन्हिज्ञानमुत्पादयति पुरोवर्तिनि वह्नौ तमन्तरेणैव तदुत्पादनदर्शनादिति। तृतीयं विवृणोति अस्ति च इति.। अस्ति तावद्विद्यमान एव वस्तुनि नास्तीति विपर्ययात्मकोऽभावप्रत्ययः यस्मिन् दुष्टे सति भवति तदेवादुष्टं समीचीनाभावज्ञानकारणं भवितुं युक्तमिति / ततः किमायातमिन्द्रियकरणत्वस्येत्यत्राह न च इति / न तावदनुपलब्धेरभावात्मिकाया दोषाश्रयत्वं संभवति / न चाधिकरणग्रहणस्य प्रतियोगिस्मरणस्य वा स्वगतो दोषः संभवति / कार्यप्रतिबन्धको हि दोषः, तयोस्तावदुत्पन्नयोरर्थप्रकाशात्मनः कार्यस्य केनापि प्रतिबन्धायोगात् अनुत्पन्नयोश्व कार्याभावस्य स्वभावनिबन्धनत्वेन दोषानधीनत्वात्तस्मादिन्द्रियदोषादेवाभावविपर्यय इति शिष्यत इति भावः / दुष्टं हेत्वन्तरमाशङ्कते असंसृष्टयोरिति / अभावे भावविपर्ययो दृष्टान्तार्थ इति / नन्वयम् इति / तथा प्रतिभानमेव विपर्ययो न त्वन्यस्तावत्साध्यः, तथा च ततो विपर्ययोत्पत्तौ विपर्ययादेव विपर्यय इति स्यादिति परिशेषसिद्धमुपसंहरति तस्मात् इति / उक्तमर्थ प्रयोगमा: रोपयति तथा च इति / प्रकाशः। क्रियया व्यापारेणेत्यर्थः / संयोगवदिति, व्यतिरेकदृष्टान्तः / यथा संयोग व्यापारं विना चक्षुषो वह्निसाक्षात्कारकरणत्वं न निर्वहति, न तथा धूमपरामर्श विनेत्यर्थः। न च वहिज्ञानमात्रे तस्य ध्यापारत्वाभावेऽपि वह्नयनुमितौ व्यापारत्वं स्यादिति वाच्यम् / शाब्दलिङ्गपरामर्शादपि वह्नयनुमानादिति भावः / म चेति / न चानुपलब्धेर्लिङ्गाभासादिवद् दोषस्वभावत्वाभावेऽपि पित्तादिदोषसाहित्यमेवेन्द्रियस्येव दुष्टत्वं स्यादिति वाच्यम् / लिङ्गाभासाद्यजन्यभ्रमत्वेन इन्द्रियकरणकत्वाभुमानादित्यर्थात् / अनुत्पत्तीति / अधिकरणादिज्ञानाभावकाले स्वाभावादेव . दुष्टत्वाभावात् , तदुत्पत्तिकाले तु स्वार्थविषयत्वमबाधितमेवेत्यर्थः / श्रात्माश्रय इति / दोषाद् भ्रमो भ्रमस्यैव दोषत्वमिति तस्मादेव स स्यादित्यात्माश्रय इत्यर्थः // तद्विपर्ययेति / न च यद् यद्विपर्ययजनक तत्तत्प्रमाजनकमिति पित्तादिदोषेऽनैकान्तिकम् / इन्द्रियस्वेन दोषान्यत्वेन वा हेतुविशेषणात् / किं प्रकाशिका। आतिपरमित्यवधेयम् / इन्द्रियत्वेनेति / अत्र प्रमास्वरूपयोग्यत्वं साध्यमतो न फलानुपहितव्यक्ती