________________ 42 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाखली [ 21 कारिकाव्याख्यायां ___ यदि प्रमाणं यदावावगाहि, तत् तदभावावगाहि यथा लिङ्ग शब्दो वा। घटाद्यपगाहि चेन्द्रियमिति / अन्यथा हि शब्दादिकमपि नाऽभावमावेदयेद्, भाव एव सामर्थ्यावधारणात् / न चैवमेव न्याय्यम् / देवदत्तो गेहे नास्तीति शब्दाद्, मया तत्र जिशासमानेनापि न दृष्टो मैत्र इत्यवगतानुपलब्ध्यानुमानादण्यवगतेः। प्राहयतु वाश्रयमिन्द्रियं, तथापि न तेनेदं व्यवधीयते व्यापारत्वात् , अन्यथा सर्वसविकल्पकानां प्रत्यक्षत्वाय दत्तो जलाअलिः स्यात् / ___ नम्वेवं सति धूमोपलम्भोऽन्यस्य व्यापारः स्यात् , तथा च गतमनुमानेनापीति बोधनी। ज्ञानकारणमिति साध्यमध्याहार्यमभावप्रतियोगिनि घटादौ समर्थत्वात् शब्दलिङ्गादिन्द्रियस्यावान्तरव्यापारस्वादधिकरणग्रहणेन ब्यवधानाभावात् / इदं चाभावग्रहणेऽधिकरणग्रहणस्योपयोगमङ्गोकृत्योक्तम् , अभावविषयविपर्ययज्ञानहेतूनां दोषाणामिन्द्रियाश्रयत्वात् अघटं भूतलमिति विशिष्टबुद्धे. रिन्द्रियहेतुत्वाच्चेति / तत्राद्यं व्याचष्टे यद्धि इति / भावग्राहिणः प्रमाणस्य तदभावेऽपि सामर्थ्या. नङ्गीकारेऽनिष्टमाह अन्यथा इति / शब्दादेरप्यभावानापादकत्वमस्त्वित्यत्राह न चैवमेव इति / मैत्रो नास्तीत्याप्तवाक्यान दृष्ट इत्याप्तवाक्यावगतानुपलब्धिलिङ्गादपि तदभावावगतेरिति / द्वितीयं विवृणोति ग्राह्यत्विति / श्राश्रयग्रहणब्यापृतमपीन्द्रियमभावबुद्धेः कारणं तस्येन्द्रियावान्तरव्यापार स्वेनतदव्यवधायकस्वादिति / यद्यवान्तरव्यापारोऽपि व्यवदध्यात् ततः सविकल्पकज्ञानानां प्रत्यक्षत्वं न स्यात् निर्विकल्पकज्ञानव्यवहितत्वादिन्द्रियस्येत्याह अन्यथा इति / - यदि व्यवधानेनेन्द्रियमेवाभावज्ञाने कारणं स्यात् तयवान्तरव्यापारीकृतधूमज्ञानमिन्द्रियमेवामि प्राहयेत् , तत्र चाभावप्रमाणवदनुमानमपि दत्तजलाञ्जलि स्यादित्याह ननु इति / तदवान्तरव्या प्रकाशः। ग्राहक मानं तदभावग्राहकमपि, यथा लिङ्गाद्यतीन्द्रियभावग्राहकमभावधीकरणमित्यर्थः / ननु प्रतियोगिग्राहकत्वमतन्त्रम् , अनन्यथासिद्धत्वस्योपाधित्वात् / इन्द्रियं त्वाश्रयग्रहे अन्यथासिद्धमित्यत आह व्यापारेति / अभावभ्रमस्य दुष्टकरणजन्यत्वादनुपलब्धेश्च स्वरूपतो दुष्टत्वाभावात् पित्तादिना दुष्टमिन्द्रियं तत्करणमित्याह प्रक्षेति / किश्चाधिकरणाभावयोविंशिष्टधीनेन्द्रियजन्या अभावबुद्धित्वात् , नानुपलब्धिजन्या भावबुद्धित्वात् , नोभयजन्या जातिसङ्करप्रसङ्गादित्युभयग्राहकमिन्द्रियं मन्तब्यमित्याह विकल्पनादिति // . यद्धीति / ननु न व्यक्तिगर्भोऽयं नियमः / भावप्राहकलिङ्गादिव्यक्तेरेवाभावाग्राहकत्वात् / नाऽपि तज्जातीयं तथा, उपमाने व्यभिचारात् , सुरभि चन्दनमितिवदुपनीताभावभानेन सिद्धसा. धानश्च / मैवम् / चक्षुष्ट्यादिकमभावग्राहकवृत्ति भावप्राहकवृत्तिजातित्वात् शब्दत्ववत् / उपमानस्वञ्च न जातिः, योगजधर्माजन्यजन्यस्वविषयकसविकल्पकाजन्य-सामान्यलक्षणप्रत्यासत्यजन्यजन्याभावप्रमित्यऽसाधारणकारणतावच्छेदकं चात्र साध्यं विवक्षितमिति नोपनीताऽभावभानेन सिद्धसाधनमित्याशयात् / अन्यथेति / इन्द्रियस्य निर्विकल्पकेनान्यथासिद्धरित्यर्थः // . नन्वेवमिति / वह्नयनुमितावपि धूमज्ञानं चक्षुषो व्यापार एवेति नानुमानसम्भव इत्यर्थः / प्रकाशिका। चक्षुष्टवादिकमिति लिङ्गविधया चक्षुषोऽप्यभावकारणतया सिद्धसाधनं माभूदिति कारणतावच्छेदकत्वपर्यन्तं साध्यम् / न च गत्वे व्यभिचारः, गकारस्यापि क्वापि गत्कत्वादिति वाच्यम् / न षदसाहित्येन तस्यापि भावग्राहकतया साध्यसत्वात् / योगजेति / हेतावपि जातिपदं कारणतावच्छेदक मकरन्दः / चक्षुष्ट्वादिकमित्यनुमानमन्यच्च सर्व प्रत्यक्षप्रकाशे विपश्चितम् // 21 //