________________ तृतीयस्तवके] अनुपलब्धेर्मानान्तरत्वखण्डनम् / 441 विष्टमेव चेत् उपयुज्यते नातोऽन्यथेति व्याप्तिः। तथैव शक्तरेवधारणात् / न बनुपलब्धिमात्रसहायं तदभावेऽप्यनुभवमाधातुमुत्सहते। शब्दलिङ्गादेरपेक्षादर्शनात् / न च यत्र यदपेक्षं यस्य जनकत्वमुपलब्धं, तदेव तस्यैव तदनपेक्ष जनकमिति न्यायसहम् / आन्धनसंबन्धमन्तरेणापि दहनाद् धूमसम्भावनापत्तेः / तथाच गतं कार्यकारणभावपरिग्रहव्यसनेन // 20 // अपिच प्रतियोगिनि सामर्थ्याव्यापाराव्यवधानतः॥. अक्षाश्रयत्वाद्दोषाणामिन्द्रियाणि विकल्पनात् // 21 // / बोधनी। .. भावानामुपलम्भ एवायं नियमः, अभावानुभवे तु वहिरस्वतन्त्रमनुपलब्धिमात्रसहायं भविष्यतीत्यत्राह नहि इति / अभावानुभवेऽपि शाब्दलैङ्गिकादौ मनसः शाब्दादिभावरूपकारणापेक्षादर्शनाः दिति / अन्यत्र तथादर्शनेऽपोह घटो नास्तीत्यत्रानुपलब्धिमात्रसहायं भविष्यतीत्याह न च इति / यद्वा भावानुभवे भावकारणापेक्षमप्यभावानुभवे तन्निरपेक्षमेव मनो भविष्यतीत्यत्र दोषान्तरमाह न च इति / तथा च इति / अपेक्षणीयत्वेनावधृतस्याभावेऽपि कार्योत्पत्त्यभ्युपगमे न किश्चित्कस्यचित्कार्य कारणमिति वा परिगृह्येताविशेषादिति // 20 // अपरानपि चतुरो हेतूनुपन्यस्यति अपि.च प्रतियोगिनि इति / इन्द्रियाणि पक्षः, अभाव. . प्रकाशः। भावभूताऽसाधारणकरणसहकृतमनोजन्या अम्मदाद्यभावप्रमात्वात् लिङ्गादिजन्याभावप्रमावदिति / अत एव-भावप्रमायां तथात्वेऽप्यभावप्रमायां योग्यानुपलब्धिमात्रापेक्षं मनः करणं स्याद् विपक्षे बाधकाभावा-दित्यपि निरस्तमित्याह न हीति / न च भावत्वमतन्त्रं गौरवात् , अन्यथा लिङ्गाद्यपि तत्र मानं न स्यादिन्द्रियसहकृतस्यैव मनसो बाह्यानुभावकत्वादिति वाच्यम् / वायौ रूपाभावबुद्धेरनुपलब्धिकरणत्वाभावव्यवस्थापनेन गौरवस्यापि न्याय्यत्वादिति भावः // 20 // प्रतियोगिनीति / इन्द्रियाणीति धर्मिनिर्देशः, करणमिति साध्यं, प्रकरणात् / प्रतियोगि प्रकाशिका। . ' असाधारणेति / लिङ्गादीति / अनुमित्यादावंशे सिद्धसाधनवारणाय प्रथम विशेषणम् / घटादिप्रमायां तद्वारणायाभावेति। अभावस्मरणे बाधवारणाय प्रमापदम् / असाधारणकारणपदेन कारणाभिधानादन्यथा प्रतियोगिज्ञानमादाय सिद्धसाधनापत्तेः / न चैवमपि दुःखसुखाभावप्रमायां वाधः अभावपदेन बाह्याभावस्योक्तत्वात् / साध्ये च भावपदमनुपलब्ध्या सिद्धसाधनवारणाय। शरीरादिना सिद्धसाधनबारणाय साधारणेति। प्रतियोगिज्ञानादिना सिद्धसाधनवारणाय कारणपर्द करणपरं बोध्यम् / क्वचित् पाठ एव तथा / हेतावीश्वरज्ञानवारणायास्मदादीति। तच्च लौकिक परमन्यथा मानसे घटाभावज्ञाने व्यभिचारात्। सुखाभावप्रमायां व्यभिचार इत्यभावेति वाह्येत्यर्थः / अत एव नाभावपदवैयर्थ्याशङ्कापि / स्मरणे व्यभिचार इति प्रमापदं तच्चानुभवमात्रपरम् भ्रमेऽपि. साध्यम् // 20 // एतच्चानुमित्याद्यंशे सिद्धसाधनवारणाय / घटादिप्रमाऽशे तद्वारणायाभावेति / स्मृत्यंशे बाधवारणायाह प्रमेति / अनुपलब्धया अर्थान्तरादाह भावेति / शरीरादिनाऽर्थान्तरादाह असाधारणेति / प्रतियोगिज्ञादिनाऽर्थान्तरादाह करणेति / अनुभवकरणेत्यर्थः / अन्यथा पक्ष हेतौ च प्रमात्वपर्य्यन्तस्य वैयर्थ्यापत्तेः / यदि च कारणेति पाठः, तदाऽपि तत्रैव तात्पर्य्यम् / ईश्वरप्रमायां व्यभिचारादाह अस्मदादीति / सुखाद्यभावप्रमायां व्यभिचारादाह अभावेति / बाह्याभावेत्यर्थः / प्रमापदं स्मृतौ व्यभिचारवारणाय अनुभवपरं, भ्रमेऽपि साध्यसत्त्वात् // 20 // 56 न्या० कु० मकरन्दः।