________________ 440 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [ 20 कारिकाव्याख्यायां चेत् / नन्विदमेव तावत् / अन्यदप्युच्यमानमाकर्णय / तद् यथा अकारणककार्यप्रसङ्गो, रूपाद्युपलब्धीनामपि वाऽनिन्द्रियकरणत्वप्रसङ्गः। न ह्यनुमित्यादिभिरुपलभ्यमानकरणिकाभिश्चतुरादिव्यवस्थापनम् , अपि त्वनुपलभ्यमानकरणिकाभी रूपाद्युपलब्धिभिरेव / यद्यपि साक्षात्कारिताऽपि तत्रैव पर्यवस्यति, तथापि प्रथमतोऽनुपलभ्यमानकरणत्वमेव प्रयोजकं चक्षुरादिकल्पने। न छुपलभ्यमाने करणान्तरे साक्षात्कारिणीष्वपि तासु चक्षुराद्यनुपलभ्यमानं कश्चिदकल्पयिष्यत् / अत एव साक्षात्कारित्वेऽपि स्मृतेर्मन एव करणमुपागमन् धीराः। संस्कारस्त्वर्थविशेषप्रत्यासत्तावुपयुज्यते, इन्द्रियाणां प्राप्यकारित्वव्यवस्थापनात् / ___ भावावेशाच्च चेतसः। सर्वत्र हि बाह्यार्थानुभवे जनयितव्ये भावभूतप्रमाणा बोधनी। देव तावद् बाधकं किमन्यन्मृग्यत इत्याह नन्विदम् इति / नन्वन्यतः सिद्धायांठ याप्तावेव तद्वक्तुं युक्त तत्सिद्धिश्च विपक्षे वाधकादित्याशङ्कयाह अन्यदपि इति / इह घटो नास्तीति बुद्धिरतीन्द्रियजा निर्हेतुकैव स्यात् हेत्वन्तरासंभवादिति वाधकान्तरमाह रूपादोति / तासामपीन्द्रियजत्वमज्ञातकरणत्वाधीनसिद्धीति भावः / तमेव स्फोरयति न हि इति / उपलभ्यमानकरणिकास्वनुमित्यादिषु इन्द्रियस्य कारगत्वेनाव्यवस्थापनादनुपलभ्यमानकरणिकासु रूपादिबुद्धिषु तद्व्यवस्थापनादज्ञात करणत्वमेवेन्द्रयत्ने प्रयोज कमिति निश्चीयत इति / ननु रूपादिबुद्धीनां चक्षुरादिकारणत्वकल्पने तासां साक्षात्कारित्वमेव प्रयोजकं न त्वज्ञातकरणत्वमित्यत्राह यद्यपिइ ति / रूपादिबुद्धीनां सत्यपि साक्षात्कारित्वे प्रथमतः कार्यदर्शनसमय एव कारणमपेक्षमाणः कारणान्तराज्ञानेनैव चक्षरादि कल्पयति, नतु तासां साक्षात्कारित्वमप्यनुसंधाय, ततश्च प्रथमभाविनो ज्ञातकारणत्वस्यैव प्रयोजकत्वमिति तदेव व्यतिरेकमुखेन स्फोरयति नहि इति / 'अत एव इति / यत एवाज्ञातकारणत्वमेव प्रयोजकमेन्द्रियकत्वे न तु साक्षात्कारित्वमत एवेति / संस्कारकरण एव स्मृतेः नतु मन इति चेत् तत्राह संस्कारस्तु इति / करणस्य मनइन्द्रियस्य विषयप्राप्तिरूपतया संस्कार उपयुज्यते, न तु कारणत्वेनेति। तरीयं हेतमन्य व्याचष्टे भावावेशाच इति / बहिः स्मरणादन्त.सुखाद्यनुभवाचान्यत्र सर्वनेन्द्रियलिङ्गादिभावात्मककरणसहायमेव मनः प्रवर्तमानं दृष्टमतो व्याप्तिबलादभावानुभवेऽपि किमपि भावरूपं कारणमाविश्य मनः प्रवर्तत इत्यनुमीयते, तच्च कारणमिन्द्रियमेवावशिष्यत इत्यर्थः। ननु प्रकाशः। व्याप्त्युच्छेद इत्याह / नन्विदमिति / उत्सर्गस्य बाधकं विनेत्याद्यवेत्यर्थः / अकारणकेति / अज्ञातकरणकत्वावच्छिन्नज्ञानं प्रतं न्द्रियस्य करणत्वादिन्द्रियं विना तन्न स्यादित्यर्थः / न हीति / ज्ञात करणकज्ञानेन करणतया नेन्द्रियं करन्यते, किन्तज्ञातकरणकज्ञानेनेत्यर्थः / ननु नाज्ञायमानकरण कज्ञानत्वेन चक्षुरादिकल्पनम् , अपि तु साक्षात्कारिज्ञानत्वेनेत्यत आह यद्यपीति / तत्रैव इन्द्रियकरणकत्व एवेत्यर्थः / यदि च साक्षात्कारिज्ञानमेवेन्द्रियसिद्धौ मानं स्यात् / तदा स्मृतेस्तदभावान्मनःकरणत्वं नानुमीयतेत्याह अत एवेति / न चैवं स्मृतेः साक्षात्कारित्वापत्तिः / संस्कारातिरिक्तसन्निकर्षाभावादित्युत्तत्वात् / ननु स्मृतौ संस्कार एव कुतो न करणमित्यत आह संस्कारस्त्विति / इन्द्रियाणामप्राप्तानां ज्ञानाजनकत्वात् , संस्कारस्य च निर्व्यापारत्वेनाकरणत्वा. दित्यर्थः / भावावेशादिति / भावरूपासाधारणकारणसाहित्यनियमादित्यर्थः / तथा चाभावप्रमायां मनो भावभूतासाधारणकारणसहकृतमेव करणमिति भावः / प्रयोगश्च लिङ्गाद्यजन्या अभावप्रमा