________________ तृतीयस्तवके] अनुपलब्धेर्मानान्तरत्वखण्डनम्। 436 तथापि भावविषये इयं व्यवस्था, अभावज्ञानं त्वज्ञातकरणत्वेऽपि न साक्षादिन्द्रियजं भविष्यतीति चेन्न / उत्सगस्य बाधकाभावेन सङ्कोचानुपपत्तेः। अन्यथा सर्वव्याप्तीनां भावमात्रविषयत्वप्रसङ्गोऽविशेषात् / तथापि विपक्षे कि बाधकमिति बोधनी। संस्कार इति / न तावदनुभ वत्वं संस्कारातिरिक्तासाधारणकारणाभावात् , नापि साक्षात्कारित्वमिन्द्रियार्थसंनिकर्षासमुत्थत्वादिति वक्ष्यामश्चतुर्थे परिच्छेद इति / __अज्ञायमानकरणकेन ज्ञानेनेन्द्रियजेन भवितव्यमिति व्याप्तिर्भावज्ञानेषु नाभावज्ञानेष्वपीत्याह तथापि इति / न इति / सामान्यतः प्रवृत्ताया व्याप्तेर्बाधकमन्तरेणाभावविषयत्वेन संकोचानुपपत्तेस्तथापि वा संकोचेऽतिप्रसङ्ग इति / मा भूत्संकोचः तथाप्यज्ञ.यमानकरणकस्यैव कस्यचिद् ज्ञानस्यानिन्द्रियजत्वे किं बाधकमित्याह तथापि इति। बाधकंवि + (ना?) + त्सर्गापवादेऽतिप्रसङ्ग इत्येत प्रकाशः। प्रत्यक्षत्वप्रयोजकः, स्मरणे तु स एव सन्निकर्षः / प्रत्यभिज्ञाने तु तत्ता स्मृत्युपनीता भासते, न तु संस्कारस्तत्सन्निकर्षः / तज्जन्यत्वे स्मृतित्वापत्तरित्यर्थः / ___ तथापीति / विपक्ष बाधकाभावादित्यर्थः। न च भावविषयत्वमुपाधिः, अभावज्ञानेऽपि प्रतियोग्यादिभावविषयतया साधनव्यापकत्वात् / नाप्यभावाविषयत्वं, अभावस्मरणे साध्याव्यापकत्वात् / उत्सर्गस्येति / सामान्यत एव व्याप्तिर्भावविषयत्वस्य गुरुत्वादित्यर्थः / तथाप्युत्सर्गस्य बाध्यत्वशङ्कानिवारक किमित्याह, तथापीति। निर्बीजतादृशशङ्कायां सर्वत्र सामान्य . प्रकाशिका। चेन्द्रियमेव करणमिति भावः / नन्विदमिति / न च तत्रापि मनोजन्यतया साध्यमस्त्येवेति वाच्यम् / यथाश्रुते सिद्धिसाधनापत्या विषयप्रत्यासन्नेन्द्रियजन्यत्वस्य साध्यत्वात् / लिङ्गादोति / सिद्धान्तेऽप्यनुभवपदं ज्ञागपरम् / अत एव मूलोक्तद्वितीयदृष्टान्तासङ्गतिः साध्यस्यापि निरुक्तस्य संस्कारलक्षणां प्रत्यासत्तिमादाय स्मरणे सत्वात् / केचित्तु सिद्धिसाधनापनुत्तये मनोभिन्नेन्द्रियजन्यत्वमिन्द्रियत्वेनेन्द्रियजन्यत्वं वा साध्यमित्याशयेन व्यभिचारदेशनेयं द्वितीयदृष्टान्ते चारुचिरेव प्रकाशकृतः अत एव सिद्धान्तेऽनुभवपदोपादानं करिष्यति स्मरणे निरुक्तसाध्याभावादिति वदन्ति / मास्तु प्रतियोगिज्ञानत्वेनाभावज्ञानं प्रति जनकत्वं तथाप्यसिद्धिरेवेत्याह सविकल्पकेति / मननेतिव्यवहितव्यापारत्वञ्च विषयाप्रत्यासन्नत्वादिकमेव बोध्यम् / उपनीतेति / तथा चोपनीताभावज्ञानेंऽशतः सिद्धसाधनवारणाय साक्षात्पदं ज्ञानादिप्रत्यासत्तिरहितपरमिति भावः / साक्षादिति / यदपि चेन्द्रियत्वेनेन्द्रियजन्यत्वस्य साक्षात् प्रयोजकत्वेनेयं शङ्का तथापीन्द्रियसन्निकर्षासाधारणकारणत्वमेव साक्षात्त्वप्रयोजकमित्यभिप्रायेण शङ्केयमिति भावः / स्मृतित्वापत्तरिति। इदमुपलक्षणम् / वस्तुतो विशिष्टानुभवं प्रत्यब्यवहितविशेषणानं कारणमन्यथा स्मरणसमयेऽनुभव एव स्यादिति तत्राऽपि स्मृतिरेव प्रत्यभिज्ञाकारणमित्यपि द्रष्टव्यम् / विपक्ष इति / तथा चाप्रयोजकत्वपरोऽयं प्रन्थ इति भावः / ननूपाधिपरत्वेनैव किमिति न व्याख्यात इत्यत आह नचेति / नत्वित्यर्थः। उपाधिरित्यनन्तरमित्यर्थ इति शेषः / भावाभावविषयतेति क्वाचित्कः पाठः / तत्राभावपदं दृष्टान्तार्थम् अभावस्मरण इति। एतच्च यथाश्रुतसाध्यं विषयप्रत्यासन्नेन्द्रियजन्यत्वं वा विवक्षितम्। साध्यमभिप्रेत्य पौनरुक्तमाशंक्याह तथापीति / आत्मादिना सिद्धसाधनवारणायाह / नचेति। न त्वित्यर्थः। इत्यर्थ इति शेषः, भावाभावविषयतयेति यदि पाठः क्व चित्तदाऽभावपदं सम्पातायातम्। अभावस्मरणइति / एतच्च यथाश्रुते।वस्तुत उपनीताभावप्रत्यक्ष तथात्वम् / अदृष्टादिना अर्थान्तरादाह लिङ्गादिति /