________________ 438 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलो [ 20 कारिकाव्याख्यायां प्रत्यक्षप्, तथा चेह भूतले घटो नास्तोति ज्ञानमिति / यथा वा स्मरणमशायमानकरणजं साक्षान्मनोजन्म / कुतस्तहिं न साक्षात्कार्यनुभवरूपम् ? / संस्कारातिरिक्तसन्निकर्षाभावादिति वक्ष्यामः। बोधनी। मिति तत्रैवोदाहरणान्तरमाह यथा वा इति। यदि स्मरणं साक्षान्मनइन्द्रियजं तर्हि सुखादिज्ञानवदस्य साक्षात्कारित्वानुभवत्वे न किमिति स्त इत्याह कुत इति / प्रकाशः। दिति, मनसा व्यवहितव्यापारेण सिद्धसाधननिरासार्थम् , उपनीतभाननिरासार्थ वा। कुत इति। साक्षादिन्द्रियसन्निकर्षजन्यस्य प्रत्यक्षत्वव्याप्तत्वादित्यर्थः / संस्कारेति / संस्कारान्यः सन्निकर्षः प्रकाशिका। (1) तत्पर एतेन प्राङ्नास्तीत्यादिग्रन्थ इत्यर्थः / अरुचिबीजन्तु सन्मुखार्थत्याग एवेति / इन्द्रियजन्यत्वेति / इन्द्रियसन्निकर्षजन्यत्वेत्यर्थः / तेन नोत्तरविरोधः / तथा च ज्ञानाकरणकत्वं साक्षात्त्वप्रयोजकमिति भावः / इन्द्रियसन्निकर्षजेति / चक्षुकृतिर्गतिमत्संयोगजन्या चलघटसंयोगाश्रयत्वादित्यनुमितेर्सायमानकारणतापक्षे इन्द्रियसन्निकर्षजन्यत्वादित्यर्थः / ननूदाहृतानुमितौ साक्षात्कारित्वं कुतः ? इन्द्रियसन्निकर्षात्मककरणजत्वप्रयोज्यत्वात् साक्षात्कारित्वस्य, तथा च कथं साक्षात्कारित्वप्रसङ्ग इत्यत आह असाक्षात्कारित्वस्येति / तथा च साक्षात्कारित्वप्रयोजकाज्ञातकरणकत्वाभावादेव तत्रासाक्षात्कारित्वमिति भावः / ननु असाक्षात्कारित्वं परोक्षत्वम् तच्च जातिरेव कुतो नेत्यत आह अनुभवत्वेनेति / स्मृतेरपि परोक्षत्वादिति भावः / इदञ्च वस्तुगतिमनुरुद्धय, वस्तुतस्तु जातित्वेऽपि ज्ञायमानकरणकत्वप्रयोज्यत्वमेव तदिति नोक्तानुमितौ तदभावो नापि स्मृतिवृत्ति तदिति अनुभवत्वेन संकर इत्यवधेयम् / न चेति / इन्द्रियत्वेनेन्द्रियजन्यत्वं साक्षात्त्वप्रयोजकं, तथाचेन्द्रियाजन्यतया नाभावधीः साक्षात्करिणीति भावः / तत्रासिद्धिमाह प्रकृतेपोति / तत्त्वात् = इन्द्रियजन्यत्वादित्यर्थः / वायोरतीन्द्रियतया त्वद्वदुपनीतत्वमसम्भवीति तदर्थमाह वायोरिति / तथा च धीरिति / यद्यपि रूपाभावधीः साक्षात्कारित्वेनैव नैयायिकाभिमतेति तस्या उक्तसामग्रीव्यभिचार एव, तथापि या धीः स्वरूपसदनुपलब्धिजन्यत्वेनोभयसिद्धेत्यत्र तात्पर्य्यम् / साक्षात्कारित्वेनाभिमताया इति / स्वरूपसदनुपलब्धिजन्यत्वेनोभयसिद्धाया इत्यर्थः / यदि चेति / तथाचानुपलब्धेःप्रतियोगिग्राहकेन्द्रियजन्याधिकरणज्ञानसहकारिकारण विरहादिन्द्रियजन्यैव वायौ रूपाभावधीरिति भावः / प्रत्यक्षश्चेति / एतावता स्वरूपसदनुपलब्धेर्दाहकत्वमात्रसिद्धावपि पूर्वोक्तयुक्त्यवष्टम्भेन प्रत्यक्षत्वसिद्धिरिति ध्येयम् / चक्षुषेति / तथा च नाश्रयग्रहे किन्तु तत्सन्निकर्ष एवेन्द्रियमन्यथासिद्धमिति भावः / सन्निकण यदीन्द्रियमन्यथासिद्धं तदा घटोऽपि नेन्द्रियग्राह्यः स्यादिति न तेन तदन्यथासिद्धिरित्याशयेन मूलं हन्तवमिति / क्वचिदेतदाशयनिवेदिका सन्निकर्षो हीत्यादि फकिका प्रकाश एव पठितेति / अकारणमेवेति / अप्रयोजकमेवेत्यर्थः / परम्पराकारणं कारणकारणमित्यर्थः / महान्धकार इति मूलं स्पर्शनेन्द्रिययोग्यालोकाभावप्रतिपादनाय / ननु प्रतीयत एवेति आकाशं, त्वचापि गृह्यत इति मतमाश्रित्येदमुक्तम् / नालोकसन्निकर्षेति / तत्र यद्यपि महान्धकारे ज्ञानाभावादित्यपि दूषणम् , तथापि तस्मिन्स ?-त्रुटिः ) / इदश्च ज्ञायमानकारणत्वपक्षे न चाप्रयोजकत्वं निर्व्यापारत्वस्य विपक्षवाधकत्वात् , न च तथासत्यकरणत्वप्रसङ्ग एवेत्यस्ति वाधकोऽपि तर्क एवेत्यत आह इन्द्रियेति / तथा (1) इयं व्याख्या सिंहावलोकनन्यावेन 427 पृष्ठतो द्रष्टव्या /