________________ तृतीयस्तवके] अनुपलब्धेर्मानान्तरत्वखण्डनम् / निकर्षमपेक्षते, लिङ्गदशायान्तु तदनपेक्ष एव ब्राह्मण्यज्ञाने, तथैतत् स्यादिति चेन्न / कार्यजातिभेदात्तदुपपत्तेः। प्रकृते च तदनभ्युपगमात् / पारोक्ष्यापारोन्ये विहायान्यथाऽष्यसो भविष्यतीति चेन्न। अनुपलम्भात् / सम्भाव्यते तावदिति चेत् , सम्भाव्यतां, न त्वेतावताऽपि तमाश्रित्य करणनियमनिश्चयः। अज्ञातकरणत्वाच्च / यदज्ञायमानकरणजं ज्ञानं तत्साक्षादिन्द्रियजं, यथा रूप बोधनी। इति / तत्र हि ज्ञानात्मनः कार्यस्य पारोक्ष्यापारोक्ष्यलक्षगजातिभेदात् योनिसंबन्धस्येन्द्रियापेक्षानपेक्षयोरुपपत्तिरिह चोभयोरिति / वस्त्वन्तरग्रहापेक्षतदनपेक्षानुपलब्धिकार्ययोरभावज्ञानयोः पारोक्ष्याभ्युपगमेन जातिभेदाभावात्. सहकारिवेचिच्यानुपपत्तिरिति / ननु परोक्षत्वेऽपि वस्त्वन्तरग्रहणापेक्षानुपलब्धिजन्यस्य प्रकारान्तरेणासौ जातिभेदो भविष्यतीत्याह पारोक्ष्य इति / न इति / परोक्षापरोक्षव्यतिरेकिशो ज्ञानावान्तरजातिभेदस्याप्रामाणिकत्वादिति / संभाव्यते इति / यद्यपि न प्रमाणोपलम्भ इति शेषः। संभाव्यताम् इति / न हि संभावनामात्रसिद्धं जातिभेदमाश्रित्यास्मिन् जातिभेदे बस्त्वन्तरग्रहापेक्षानुपलब्धिः कारणमस्मिंस्तु तन्निरपेक्षेति कारणनियमः शक्यनिश्चय इति / तृतीयं हेतुममूद्य व्याचष्टे अज्ञातकरणत्वात् इति / साक्षादनन्यत्रचरितार्थेनेन्द्रियेण जन्य प्रकाशः। लब्धिरपि स्यादित्यर्थः / कार्येति / दृष्टान्तस्य तत्सापेक्षस्याऽपरोक्षज्ञानजनकत्वं तन्निरपेक्षस्य च परोक्षज्ञानजनकत्वम् / अत्र तु लिङ्गानुपलब्धिजन्याभावज्ञाने जातिभेदाभावाल्लिङ्गजानुमितौ व्यभिजारात्सा कारणं न स्यात् / तद्वदपरोक्षजात्यङ्गीकारे च तत्रेन्द्रियजन्यत्वमावश्यकमित्यर्थः / न च जाति विनाऽपि व्याप्त्यादिज्ञानविनाकृतानुपलब्धिजन्याभावज्ञाने सा कारणमिति वाच्यम् / अनुपलब्धिजन्यज्ञानत्वेनैव तल्लिङ्गकानुमितिवद्विवादपदेऽपि तदकारणत्वानुमानात् / इन्द्रियान्यथासिद्धनिरासादिति भावः / सम्भाव्यतामिति / कार्यजातिसम्भावनया तज्जातीयनियतस्य कारणत्वसम्भावनायामपि तत्रानिश्चयादित्यर्थः / .. यदज्ञायमानेति / नन्विदमनुमित्यादावनैकान्तिकं तस्याशयमानमनःकरणकत्वात् / न च ज्ञायमानकरणजन्यत्वं लिङ्गं, लिङ्गादेरजनकतया तज्ज्ञानस्याज्ञायमानस्यैव करणत्वात् / नापि ज्ञानासाधारणकारणकत्वाभावो लिङ्गम् , अभावज्ञाने प्रतियोग्यादिज्ञानजन्यतया तदसिद्धेः / सविकल्पकमात्रस्यैव विशेषणज्ञानजन्यत्वाच्च / मैवम् / लिङ्गादिज्ञानाजन्यानुभवत्वस्य लिङ्गत्वात् / साक्षा प्रकाशिका। * प्रतीतिः / अनुलब्धिजन्यज्ञानत्वेनैवेति / मकरन्दः। लिङ्गादीति / अत्रानुभवपदं व्यर्थं स्मरणस्यापि दृष्टान्तत्वेन साध्यवत्त्वाभ्युपगमात् अत एव परिमले ज्ञानत्यस्येति पाठ इति वदन्ति / वस्तुतो यथाश्रुतसाध्ये मनसैव सिद्धसाधनप्रसङ्गान्मनोभिन्नेन्द्रियजत्वमिन्द्रियत्वेनेन्द्रियजत्वं वा तदर्थः / तथा च स्मरणे व्यभिचारादनुभवपदमिति / द्वितीयदृष्टान्तेऽनुशयप्रकाश एवायंप्रकाशकृत इति प्रतिभाति। अत एवाह साक्षादिति।यद्यप्यात्ममनोयोगलक्षणतयापारस्य न व्यवधानमन्यथा चक्षुरादावपि तथात्वेन बारापत्तेः, तथापि निरुक्त एव तात्पय॑म् / यथाश्रुतमभिप्रेत्याह साक्षादिति / विपक्ष इति / तथा चाप्रयोजकत्वपरोऽयं ग्रन्थ इत्यर्थः / भावविषयत्वोपाधिपरस्तु नेत्याह /