________________ 436 व्याख्ययात्रोपेतप्रकाशयोधनोयुते न्यायकुसुमाञ्जलो [ 20 कारिकायाख्यायो शब्दध्वं सादिनोक्तोत्तरत्वात्। अपिच प्रतियोगिग्राहकेन्द्रियेणाधिकरणधर्मप्रतीतिरसुपलब्धेरङ्गमिति, तद्रहितायास्तस्याःकार्यव्यभिचारायवस्थाप्येत,व्याप्तिबलाढा?। न तावदुक्तरूपानुपलब्धिस्तां विना अभावप्रत्ययमजनयन्तो दृश्यते। नापि व्याप्तः / तथासति वायौ रूपाभावप्रत्ययस्तामाक्षिपेत् , एवम्भूतत्वात् / अनाक्षेपे घा, न तत्कारणको भवेद् न वा भवेत्। ततो न भवत्येव, लिङ्गात्तदुत्पत्तिरिति चेत् / ननु लिङ्गमपि सैव, न तत्त्वान्तरम् / यथा योनिसंबन्धोऽलिङ्गदशायामिन्द्रियस बोधनी। प्रमाणं वायो रूपाभावश्चाक्षुष इत्यभ्युपगच्छ / न च कथं नामाचाक्षुषो वायो रूपाभावश्चाक्षुषः स्यादिति शङ्कावकाशः शब्दप्रध्वंसप्रत्यक्षतसाधनेनाधिकरणप्रत्यक्षत्वस्यानङ्गत्वप्रतिपादनेन दत्तोत्तरत्वादित्याह न शब्देति / तदेवं यदि प्रतियोगिग्राहिणेन्द्रियेणाधिकरणसमवेतधर्मोपलम्भः तद्विषयाभावग्रहे हेतुः ततो वायौ रूपाभावप्रतीतिर्न स्यात् अनुमानतस्तदसिद्धेरित्युक्तम् , इदानीं तत्रैव दूषणान्तरमाह अपि च इति / तद्रहिताया वस्त्वन्तरप्रतीतिरहितायास्तस्या अनुपलब्धेः कार्यव्यभिचारात्सत्यामप्यनुपलब्धौ कदाचित्कार्यस्याभावग्रहणस्यानुत्पत्तेः तत्प्रतीतिरप्यामिति व्यवस्थाप्येत व्यतिरेकाभावेऽप्यन्वयव्याप्तिबलाद्वेति / तत्र प्रथमे दूषणं न तावत् इति / +प्रति + + प्रतियोगिग्राहकेन्द्रियसंनिकषैः सहितानां प्रतीतिद्वये दूषणं-नापि व्याप्तः इति / सत्यां हि व्याप्ती भवन् रूपाभावप्रत्ययः तां वस्त्वन्तरप्रतीतिमाक्षिपेदेवंभूतत्वादभावप्रत्ययस्य वस्त्वन्तरप्रतीतिव्याप्तत्वात् / यदि नाक्षिपेत् तयभावप्रत्ययो वस्त्वन्तरप्रतीतिहेतुको न स्यात्स्वयं वा न भवेत् तत्कारणकस्य वस्त्वन्तरग्रहणस्याभावात् / अस्ति चायं वायाविति प्रतिक्षिप्तमपि पक्षं दूषणान्तरविवक्षयोपक्षिपति तत इति / ततः प्रमाणान्तरभूताया अनुपत्नब्धेर्वायौ रूपाभावप्रतीतिर्न भवतीस्येव किंतु लिङ्गभूताया तदा च वस्त्वन्तरप्रतीतिर्नापेक्षणीयेति / लिङ्गमपि इति / न हि तस्या एव कदाचिद्वस्त्वन्तरप्रतीतिरपेक्षणीयाऽन्यदापि युक्तमिति / ननु यथा ह्यलिङ्गदशायां मातापितृसंयन्धश्चक्षुःसंनिकर्षमपेक्षते ब्राह्मण्यज्ञानेन तु लिङ्गावस्थायां तयेहापि स्यादित्याह यथा इति / न प्रकाशः। योगिमत्तयाऽनुपलम्भाद्वायौ रूपाभावः प्रत्यक्षत्वान्नानुमेयः, शब्दाभावप्रत्यक्षत्वव्यवस्थापन या आश्रययोग्यतायास्तद्धर्मग्रहस्य चाभावप्रत्यक्षताऽङ्गत्वनिरासादिति परिहरति शब्देति।व्याप्तिबलादेति। कार्यकारणभावस्य व्याप्तिविशेषत्वेन गोवृषन्यायात् ता विना या व्याप्तिस्तद्बलादित्यर्थः / तां विनेति। अधिकरणवृत्तिवर्मप्रतीति विनेत्यर्थः। एवम्भूतत्वाद् व्याप्यत्वादित्यर्थः। अनाक्षेपेवेति। अधिकरणवृत्तिधर्मप्रतीत्यनाक्षेपे वा नाभावधीस्तहेतुका तद्याप्या वा। तथात्वे वा हेतुं विना व्यापक बिना वा न भवेदित्यर्थः / ततः-अधिकरणधर्मप्रतीतित इत्यर्थः / सैव-अनुपलब्धिरेवेत्यर्थः / यथेति / यथा विशुद्धमातापितृयोनिजत्वं लिङ्गालिङ्गदशायामिन्द्रियसम्बन्धनिरपेक्षसापेक्षं, तथानुप प्रकाशिका। न अनुपलब्धिलिङ्गानुमेयो वायौ रूपाभाव इति समुदायार्थः / न च ज्ञानप्रत्यक्षत्वमङ्गीकृत्य ममैकदेशिनः प्रत्यवस्थानमुचितमिति वाच्यम् / अनुपलब्धेः कारणत्वेऽपि निर्व्यापारत्वेनाकरणत्वादिति भावः / तद्विहिताया इत्यादेः कार्यकारणभावपरत्वादाह कार्यकारणेति / सैवेति / तच्च दूषितमिति भावः / तथेति / अधिकरणधर्मप्रतीतिनिरपेक्षा तत्सापेक्षा चेत्यर्थः / सा अधिकरणधर्म मकरन्दः। . सैवेति / तच्च दूषितमिति भावः / तथेति / अनुपलब्धिरप्यधिकरणधर्मज्ञाननिरपेक्षसापेक्षा स्यादित्यर्थः /