________________ तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् / 435 श्चय एव। श्रात्माश्रयेतरेतराश्रयचक्रकप्रवृत्तिप्रसङ्गात् / न चाज्ञातस्योपलम्भाद्यभावस्य लिङ्गता / न च प्राक न्याभावः सत्तामात्रेणोपलम्भाभावमावेदयतोति युक्तम् / लिङ्गाभावस्य तथात्वेऽतिप्रसङ्गात् / अविनाभावबलेन तु नियमे तत्प्रतिसन्धानापत्तेः। न ह्यविनाभावः सत्तामात्रेण ज्ञानहेतुं नियमयति, धूमादाधपि तथाभावप्रसङ्गादिति / ज्ञानप्रत्यक्षत्वेन त्वदिशा भविष्यतीति चेन्न / बोधनी। ज्ञानाभावादिति / न च व्यवहाराभावमात्रेणेत्यादेरपरा व्याख्या-न केवलमनैकान्तिकः असिद्धश्च व्यवहाराभाव इत्याह न च इति / उक्तस्यैवानकान्तिकत्वस्यानुभाषणं दृष्टान्तार्थमिति व्यवहारस्वरूपनिरूपणपुरःसरं व्यवहाराभावं निरूपयंस्तस्यासिद्धिमेवाह तद्विषयस्तु इति / ननु विज्ञायमान एवानुपलम्भो यदि रूपाभावं गमयेत् अविनाभावेन तत एते दोषाः प्रादुष्युः, न त्वेवमित्याशङ्कयाह न चाज्ञातस्य इति / तथा सति लिङ्गतैव न स्यादिति भावः / ननूपलम्भलिङ्गस्य प्राकट्यस्याभावो लिङ्गिन उपम्भस्याभावं गमयिष्यतीत्यत्राह न च इति / स हि लिङ्गाभाव इत्येव लिगिनोऽभावं गमयेदविनाभावेन वा ! प्रथमे धूमाभावोऽप्यग्न्यभावं गमयेत् , द्वितीये त्वविनाभावः स्वस्य हेतुस्वरूपस्य च प्रतिसंधानमपेक्ष्येत, अन्यथाऽतिप्रसङ्गादिति / ननु नैयायिकमतावलम्बेन प्रत्यक्षत्वमभ्युपगच्छामः, ततो भावप्रमाणावगतेनैव ज्ञानाभावेन वायौ रूपाभावमनुमोमह इत्याह ज्ञानप्रत्यक्षत्वेन इति / तर्हि प्रामाणिक पन्थानमागतो यथा - प्रकाशः। : एवेत्यर्थः। प्रात्माश्रयेति। यदि तद्विषयकज्ञानाभावेनैव तद्विषयकज्ञानाभावोऽनुमेयस्तदाऽऽत्माश्रयः / अथ तद्विषयकज्ञानाभावात् तद्विषयकव्यवहाराभावज्ञानं, तद्विषयकव्यवहाराभावेन च तद्विषयकज्ञानाभावज्ञानं, तदाऽन्योन्याश्रयः / अथ तद्विषयकज्ञानाभावात् तद्विषयकव्यवहाराभावज्ञानं, तद्विषयकज्ञानाभावश्च तद्विषयकप्राकट्याभावात् , स च तद्विषयकज्ञानाभावात् , तर्हि चक्रकमित्यर्थः / नन्वन्येषामज्ञातानामलिङ्गत्वेऽपि प्राकट्य भावः सत्तयैव ज्ञानाभावं गमयिष्यति / न चायोग्यप्रतियोगिकत्वेनायोग्योऽस्याभाव इति वाच्यम् / अनुपलब्धेरेव तद्विशेषणवत्त्वादित्यत आह न चेति / स हि व्यातिबलेन वा प्रतिपादयेल्लिङ्गाभावत्वमात्रेण वा, कार्याभावमात्रतया वा ? तत्र न मध्यमान्तिमावित्याह लिङ्ग भावस्प्रेति / धूमाभावस्यापि सत्तया गमकत्वापातादित्यर्थः। श्राद्यमाशङ्कय निराकरोति अविनाभावेति / न ह्यपलम्भाभावो भवतामभावोपलम्भ इत्यत्र शङ्कते भानेति / प्रत्यक्षेण ज्ञानाभावं ज्ञात्वा तस्माल्लिङ्गाद्वायौ रूपाभावानुमानं स्यादित्यर्थः / मन्मते प्रति प्रकाशिका। शक्यनिश्चय इति आद्ययोरिति फक्किकार्थः / तदाश्रयधर्मघटितप्रतियोगिकतया प्राकट्याभावादनिश्चय इति तदाश्रयेत्यायुत्तरफकिकार्थ इत्याहुः / न चायोग्यप्रतियोगिकत्वेनेति स्वरूपसदभावो योग्यप्रतियोगिकमेवाभावं गमयतीत्यर्थः / अनुपलब्धेरेवेति / अनुपलम्भस्य ग्राहकत्वे स नियम इत्यर्थः / न हपलम्भाभाव इति / नैयायिकोक्ते शंकत इत्यर्थः / प्रत्यक्षेण स्वरूपसदनुपलब्ध्या / मन्मत इति / मन्मताश्रयणे रूपाभावो वायौ प्रत्यक्ष एव तदनाश्रयणे तु ज्ञानाभावोऽयोग्य एवेति मकरन्दः। निश्चयः / एवञ्च तदाश्रयधर्माभावस्तद्विषयप्राकव्याभावः, तस्यापि तदनुमापकत्वे चक्रकादिना सोऽशक्यनिश्चय इत्यत्र तात्पर्यम् / ज्ञानाभावान्तर्भूतो ज्ञानघटितप्रतियोगिकतया ज्ञानाभाववदतीन्द्रिय इत्यर्थः / ज्ञानाभावश्चति / तज्ज्ञानमित्यर्थः। यद्वा अनुमेय इति पूर्वोक्तमनुषजनीयम् / अनुपलब्धेरेवेति / प्राकव्याभावस्त्वयोग्यमपि गमयिष्यतीत्यर्थः /