________________ - 434 व्याख्यात्रयोपेतप्रकाशयोधनोयुते न्यायकुसुमाञ्जलौ [ 20 कारिकाव्याख्यायो राभावेनानुमेय इति चेन्न / कायवागन्यापागभावेऽप्युपेक्षाज्ञानाभावा-पुपगमात् , मूकस्वप्नोपपत्तश्च / न च व्यवहाराभावमात्रेणानुमातुमपि शक्यते। अनैकान्तिकत्वादसिद्धेश्च // तद्विषयस्तु व्यवहारस्तद्विषयज्ञानजन्यो वा ? तद्विषयज्ञानजनको वा ? तदाथयधर्पजनको चा? / तदभावश्च तज्ज्ञानतद श्रयधर्माभावान्तभूत एवेत्यशक्यनि बोधनी। भावे ज्ञानाभावे लिङ्ग नेत्याह न इति / इतश्चानकान्तिकतेत्याह मूकस्वप्न इति / मूकतया वाचिकस्य व्यवहारस्याभावः, स्वप्नतया कायिकस्येति / ननु मा नाम हानोपादानलक्षणयोः कायवाग्व्यवहारयोः ज्ञानविशेषकार्यत्वात्तदभावात् ज्ञानमात्राभावः प्राकट्यमात्राभावो वानुमीयता, ज्ञानमात्रस्य प्राकट्यमात्रस्य च व्यवहारमात्रं कार्य, ततस्तदभावात् तयोरन्यतरस्याभावोऽनुमास्यत इत्याशङ्कयाह न च इति / यदि तावद्वयवहाराभावमात्रमित्यत्र यः कश्चिद्वयवहारो विवक्षितस्तदानकान्तिकता यस्य कस्यचिद्वयवहाराभावस्य येन केनापि ज्ञानाभावेन व्याप्तः, तथापि कस्यापि व्यवहारस्य सर्वत्रासत्त्वादसिद्धश्च तन्मात्राभाव इति / अथ यद्विषयस्य ज्ञानस्य प्राकट्यस्य वा भावोऽनुमित्सितः तद्विषयव्यवहाराभाव एव लिङ्गमुच्यते तत्राह तद्विषयस्तु इति / कायिकवाचिकव्यवहारयोरपेक्षाज्ञानव्याप्यत्वाद् व्यापिनश्च व्यवहारान्तरस्यानवगमात् तद्विषयो व्यवहारस्तद्विषयं ज्ञानं तदाश्रितं वा प्राकट्यलक्षणं धर्म पुरस्कृत्य तजन्य इति वा तजनक इति वा निरूपणीयः। ततो व्यवहाराभावश्चात्र तज्ज्ञानतदाश्रितधर्माभावपुरस्कारेणेव निरूप्येत / तच्चाशक्यमात्माश्रयादिदोषप्रसङ्गात् / तथाहि यदा तद्विषयज्ञानव्यवहाराभावः तद्विषयज्ञानाभावे लिङ्गं तदापेक्षज्ञानादिव्यापिनो व्यवहारान्तरस्याभावात्तद्विषयज्ञानमेव तज्जन्यव्यवहारोऽभ्युपगन्तव्यः, तथाचात्माश्रयत्वं-तद्विषयज्ञानाभावादेव तद्विषयज्ञानाभावानुमानमिति / यदा तु तद्विषयज्ञानजनकस्य व्यवहारस्याभावो लिङ्गं तदा चक्षुरादिव्यापारस्य तज्जनकत्वात्तस्य च ज्ञानस्य कार्य कगम्यत्वात्तदभावोऽपि ज्ञानाभावावगम्यः, तथा चेतरेतराश्रयता-तज्ज्ञानाभावज्ञानात्तज्जनकव्यवहाराभावज्ञानं ज्ञानजनकचक्षुरादिव्यापाररूपव्यवहाराभावज्ञानाच्च तदभावंज्ञानमिति / यदा च तदाश्रितधर्मजनकस्य व्यवहारस्याभावो लिङ्गं तदा प्राकट्याख्यधर्मस्य ज्ञानहेतुकल्वादात्माश्रयत्वमेव / अथ तु ज्ञानद्वारा चक्षुरादिव्यापार एव जनकः तदा चक्रकं भवति ज्ञानाभावाच्चक्षुरादिव्यापारलक्षणस्य व्यवहारस्याभावः ज्ञानाभावश्च प्राकट्याभावात् स च तज्जनकव्यापाराभावात् स च प्रकाशः। व्यवहारसामान्याभावो वा ? / नाद्यः अनैकान्तिकत्वादित्याह कायेति / अन्त्येऽपि यदि स्वकीयव्यवहारमात्रामास्तदाऽनेकान्तिकं, सर्वस्य तु तदभावो ग्रहीतुमशक्य इत्याह न.चेति / ननु अनुपेक्षणीयविषयकः स्वकीयरूपवत्ताज्ञानाभावस्तद्विषय कस्वकीयरूपवद्यवहाराभावेनानुमेय इत्यत आहतद्विषयस्त्विति। तदभावश्चेति। प्राययोर्ज्ञानाभावान्तर्भूतः, अन्त्ये तदाश्रयधर्माभावान्तर्भूत प्रकाशिका। अन्त्येऽपीति।प्राद्ययोरिति। यद्यपि व्यवहाराभावो ज्ञानभावादन्यस्तथापि ज्ञानाभावेनैव सोऽनुमेय इत्यन्तर्भावार्थः। तथाचात्माश्रयादिरिति भावः। तदाश्रपधाभावान्तर्भूत इति। ज्ञानाभावानुमानद्वारा प्राकव्याभावात्मकतदाश्रयधाभावोऽनुमेय इत्यर्थः / केचित्तु घटज्ञानप्रतियोगिकतया ज्ञानाभायवद ___मकरन्दः। अन्त्येऽपीति / श्राद्ययोरिति / यद्यपि व्यवहाराभावो न ज्ञानाभावान्तर्भूतस्तस्य ततोऽन्यत्वात् , तथापि ज्ञानाभावेनैव सोऽप्यनुमेयस्तज्ज्ञानश्चात्माश्रयादिनाऽसम्भवीति व्यवहाराभावोऽशक्य