________________ - - - - तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् / 433 न्यमेलकं मिथः प्रत्यासत्यादिशब्दवाच्यं तदुपक्षयः, न तर्हि कचिच्चक्षुः कारणं स्यादिति / न हि रूपाद्यपलब्धिमध्यसनिकृष्टमेतदुपजनयति / अथाधिकरणसमवेतकिञ्चिदुपलम्भोऽपि तद्विषयाभावग्रहेनुपलब्धेरपेक्षणीयः, ततस्तत्रेदं चरितार्थम् , वाय्वादिषु तु रूपाद्यभावप्रतातिरानुमानिकी। तथा हि अनुपलब्ध्या ह्यनुमीयते-अयं नोरूपो वायुरिति / न असिद्धेः। न घपलम्भाभावो भवतामभावोपलम्भः, उपलम्भस्यातोन्द्रियत्वाभ्युपगमात् / प्राकठ्याभावेनानुमेय इति चेन्न / वायौ रूपवत्ताप्राकट्याभावस्याप्यसिद्धेः, रूपाभावेन समानत्वात् / व्यवहा बोधनी। तत्साध्यमस्ति यंत्रोपक्षयः तस्य स्यात् किं तु परिपूर्णानां कारणानामेव तथात्वादिति / नन्वस्ति मेलनं नाम तत्त्वान्तरं क्षयविषय इत्याह अथ इति / एवं हि रूपादिज्ञानेष्वर्थसंनिकर्षसंपादनोपक्षीणं चक्षुर्न कारणं स्यादित्याह तदुपक्षय इति / नन्वभावाधिकरणस नवेतस्य कस्यचिद्वस्तुनः प्रतियोगिग्राहकेणेन्द्रियेणोपलम्भोऽभावग्रहणे सहकारित्वेनानुपलब्धेरपेक्षणीयस्तत्रेदमिन्द्रियमुपक्षीयत इत्याह अथाधिकरणसमवेतकिञ्चिदिति / तर्हि वायौ रूपाभावप्रतीतिर्न स्यात् तत्र वस्त्वन्तरस्य चक्षुषानुपलम्भादित्याशङ्कय स एवाह वाय्वादिषु इति / न इति / न तत्राभावप्रमाणगम्योsभावः अनुपलब्धिलिङ्गानुमेयत्वादिति / न इति / असिद्धरनुपत्नब्धेरज्ञातासिद्धत्वादिति। न तावदभावप्रमाणात्सिध्यतीत्याहू नहि इति। ऐन्द्रियकस्याभावो हि भवतामभावगम्य इति / ननु रूपोपलम्भजन्यस्य प्राकट्यस्याभावेन वायौ रूपानुपलम्भोऽनुमीयत इत्याह प्राकघ्याभावेन इति। वायौ रूपाभावस्येव प्राकट्याभावस्यापि नाभावप्रमाणात्सिद्धिरित्याह न वायौ इति। नन्वस्तु वायौ रूपव्यवहाराभावेन प्राकट्याभावोऽनुमेय इत्याह व्यवहाराभावेन इति / व्यवहाराभावस्यानैकान्तिकत्वान्न प्राकट्या प्रकाशः। धित्वमनुपलब्धेर्योग्यत्वं, तत्र न चक्षुरुपक्षय इति भावः / न हीति। विषयप्रत्यासत्ताविन्द्रियान्यथासिद्या क्वचिदपि इन्द्रियं करणं न स्यात् , अप्रत्यासन्नस्याऽजनकत्वादित्यर्थः / तद्विषति / अधिकरणनिष्ठाभावग्रहे इत्यर्थः / वाय्वादिग्विति / चक्षुःसन्निकृष्टे वायौ चक्षुषा तद्धर्माग्रहे वायौ रूपाभावधी ध्यक्षा, किन्त्वनुमितिरिति नेयं तत्र सामग्रीत्यर्थः / असिद्धिमेवोपपादयति न हीति / वायौ रूपाभावधी नुपलब्धिलिङ्गजन्या, अनुपलब्धेरज्ञानात् , आप्तवाक्यस्यापि तद्बोधकस्याभावात् / न चोपलब्धेरनुपलब्बिरज्ञातैव तद्बाधिका / उपलब्धेरतीन्द्रि यत्वेन योग्यानुपलम्भेनानुपलब्ध्यभावस्य ज्ञातुमशक्यत्वात् , अनुपलब्धिमात्रस्य चाभावाग्राहकत्यादित्यर्थः / उपलम्भकार्यज्ञातताया अभावेनोपलम्भाभावोऽनुमीयते इत्याह प्राकट्येति / वायौ रूपाभाववद्रूपप्राकट्याभावस्यापि दुर्घहत्वं, यदि च स योग्यानुपलब्धिगम्यस्तहि रूपाभावोऽपि तथाऽभ्युपेयस्तुल्ययोगक्षेमत्वादित्याह वायाविति / रूपज्ञानाभावे लिङ्गान्तरमाह व्यवहारेति / दृश्यमानो व्यवहाराभावो लिङ्गं, प्रकाशिका। उपलम्भेति। उपलम्भस्य ज्ञातताचरमकारणतया ज्ञातताव्याप्यत्वादिति भावः / प्राकट्याभावलिङ्गत्वभ्रमं निवारयति रूपज्ञानाभाव इति / न चेति / अग्रिमअन्धन कायेत्यादिगतार्थमिति शङ्कया विकल्पयति दृश्यमान इति / व्यवहारसामान्याभावस्य नानेकान्तिकत्वमिति विकल्पयति मकरन्दः। मीयस्यान्यत्रानुपक्षीणस्येन्द्रियस्याभावग्राहकत्वं सिद्धमिति भावः / उपलम्मेति। उपलभ्यस्य ज्ञाततायां चरमकारणत्वात्तदभावेन तदभावोऽनुमीयते इत्यर्थः / प्राकट्याभावलिङ्गत्वभ्रमं वारयति स्पज्ञानाभाव इति / न चेत्यग्रिमग्रन्येन गतार्थत्वात् कायेऽत्यादि व्यर्थमिति विकल्पयति दृश्यमान इति / ननु व्यवहारसामान्याभावस्य वाप्यसिद्धरनैकान्तिकत्वमसिद्धमिति विकल्प्य योजयति 55 न्या० कु०