________________ 432 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाखलौ [ 20 कारिकाव्याख्यायां कारणत्वात् , कारणत्वे वा महान्धकारे करपरामर्शन स्पर्शवदव्याभावं न प्रतीयात्। प्रतीयाच्च पुरोविस्फारितातः पृष्ठलग्नस्याऽश्यामत्वम् / श्रार्जवावस्थानमप्यधिकरणस्योपयुज्यते इति चेत् , तर्हि नयनसन्निकर्षोऽप्युपयोक्ष्यते, तदेकसहकारिप्रभासन्निकर्षापेक्षणात् / अन्यथा वातायनविवरचिसारिकरपरामृष्टेऽप्यधिकरणे तदुपलम्भप्रसङ्गाच॥ ___ तथापि योग्यताऽऽपादनोपक्षीणञ्चतुः। यदितरसामग्रीसाकल्ये हनुपलभ्यमानस्याभावो निश्चीयते। तच्च चक्षुष्यधिकरणसन्निकृष्टे सति स्यादिति चेत् / ननु परिपूर्णानि कारणान्येव साकल्यम् / तथा च किं कुत्रोपक्षीणम् / अथान्यो बोधनी। यहेतुकत्वमन्यत्र तदुपक्षयादुच्यते, स चाभावषुद्धिहेतौ कस्मिंश्चिद्वक्तव्यः, अन्यथा तदनुविधानानुपपत्तेः, न चात्र तस्य वस्त्वन्तरग्रहणस्य तदभावानुभवं प्रति कारणत्वमस्तीति, यदि स्यात्तत्राह कारणत्वे वा इति / अन्धकारे वस्त्वन्तरग्रहणाभावात्स्पर्शवद्विशेषाभाषप्रतीतिर्न स्यात् इति प्रतियाच्चेति / प्रतिय गिग्राहकेण तदा तदालोके विस्फारिताक्षस्य वस्त्वन्तरग्रहणसंभवाच्चेति / उत्तरत्र शङ्कते आर्जवेति / अार्जवावस्थानादधिकरणस्य नयनसंनिकर्षोऽपि तद्गताभावग्रहणएवोपयुज्यते न तु तद्ग्रहण इत्यङ्गीकर्तव्यमित्याह नयनेति / कुत इत्यत्राह तदेक इति / पालोकसंनिकर्षस्तावदपेक्षणीयो रूपाभावज्ञानेन तमन्तरेण तदनुपपत्तेः, स च तस्य नयनसंनिकर्षस्यैव सहकारी नानुपलब्ध्यादेः, तस्मान्नयनसंनिकर्षोऽप्यपेक्षणीय एव, न हि संभवति यस्य यत्सहकारितयैव कार्योपयोगस्तस्य तदनपेक्षायामप्यपेक्षेति। चक्षुःसंनिकर्षानुपयोगेऽनिष्टमप्याह वातायनेति / तत्र हि सत्येवाधिकरणस्यार्जयावस्थाने तद्ग्रणे चक्षुःसंनिकर्षाभावादेव तस्य श्यामत्वाभावस्यानुपलम्भो भवति / नन्वस्त्वपेक्षणीयश्चक्षुः संनिकर्षस्तथाप्यन्यत्रोपक्षयस्तस्येत्याह अथापि इति / योग्यानुपलब्धियभावज्ञानहेतुः, योग्यता च प्रतियोगिव्यतिरिक्ताभावज्ञानकारणसाकल्यं, तच्च साकल्यं चक्षः संनिकर्षे सति भवति तस्यापि तत्कारणत्वात् / ततश्च सामग्रीसाकल्यापादनोपक्षीणं चक्षुर्नाभाववाज्ञानं यावत् गच्छतीति / न तु परिपूर्णानि इति / न खलु साकल्यं नाम कारणेभ्यस्तत्त्वान्तरं प्रकाशः। ग्रहणस्य, तं प्रत्यभावानुभवं प्रतीत्यर्थः / न प्रतीयादिति / त्वगिन्द्रियेण वस्त्वन्तराऽग्रहादित्यर्थः / ननु प्रतीयत एवाकाशमत्रापि, तस्य तन्मते प्रत्यक्षत्वादित्यत आह प्रतीयाच्चेति / आर्जवावस्थितेऽप्यन्धकारे ज्ञानाभावादालोकसन्निकर्षोऽपि हेतुरेष्टव्यः, स च चक्षुषः सहकारी नान्यस्येति सिद्धं चक्षुः करणमित्यभिप्रेत्याह नयनेति / अथार्जवावस्थानेऽपि नालोकसन्निकर्षापेक्षा, तबाह वातायनेति / तदुपलम्भप्रसङ्गाद्रूपाभावोपलम्भप्रसङ्गादित्यर्थः / चक्षुषा यत्किश्चिदुपलम्भस्य तत्रापि सम्भवादिति भावः / नन्विति / तथात्वे वा सहकार्युच्छेदापत्तिः। वस्तुतः प्रतियोगिसत्त्वविरो प्रकाशिका। तथात्वे वेति / कारणचक्रसाकल्योपक्षयाय दण्डादेरपि तत्रोपक्षये घटायहेतुतापत्तिरित्यर्थः / तथा च योग्यताघटकतया अवश्यापेक्षणीयस्यात्रानुपक्षीणस्येन्द्रियस्य सिद्धमभावधीहेतुत्वमिति भावः / मकरन्दः। धिकरणसन्निकरणसन्निकर्ष एवानुपलब्धिसहकारी स च तत्रास्त्येवेति भावः / अकारणमेव अप्रयोजकमेवेत्यर्थः / परम्पराकारणं कारणकारणम् / तथात्वे वेति / कारणचक्रस्य साकल्योपक्षयाभ्युपगमे दण्डचक्रादेरपि तथात्वे घटाद्यहेतुत्वपात्तिरित्यर्थः / तथा च योग्यताघटकतयाऽवश्यापेक्ष