________________ चतुर्थस्तवके ] स्मृतेर्मानान्तरत्वखण्डनम् / त्वात् / प्रत्यक्षज्ञानस्य च वर्तमानाभत्वात् / न चातीतमेव वर्तमानाभतयोल्लिखति, भ्रान्तत्वप्रसङ्गात् / न द्वितीयः, विरम्य व्यापारायोगात्। प्रथमतोऽपि तथाभ्यु पगमेऽनागतावेक्षणप्रसङ्गात् / न तृतीयः। ज्ञानत्वहानेरिति महाव्रतीयाः। तदसत् / ज्ञानं गृह्णातीत्यस्यैवार्थस्यानभ्युपगमात् / अपि तु तदेव ग्रहणमित्यभ्युपगमः। तथा च ज्ञानं प्रथमे क्षणे यमर्थमालम्ब्य जातं, द्वितीयेऽपि क्षणे तदा. लम्बनमेव तन्न वेति प्रश्नार्थः। तत्र तदालम्बनमेव तदिति परमार्थः। न चैधं भ्रान्तत्वम् / विपरीतानवगाहनात् / तथापि शेयनिवृत्तौ कथं ज्ञानानुवृत्तिः, तदनुवृत्तौ वा कथं ज्ञेयनिवृत्तिरिति चेत् / किमस्मिन्ननुपपन्नम्। न हि शानमर्थश्चे. त्येकं तत्त्वमेकायुष्कं वेति / सत्यपि वा क्षणिकत्वे कथमप्रत्यक्षम् ? इत्थं यथो. च्यते-न स्वप्रकाशं, वस्तुत्वादितरवस्तुवत् / न च ज्ञानान्तरग्राह्य, ज्ञानयोगपद्यनिषेधेन समानकालस्य तस्याभावात् / ग्राहककाले ग्राहस्यातीतत्वेन वर्तमानाभत्वानुपपत्तेः। ग्राहकाले च ग्राहकस्यानागतत्वात्-इति चेत् / नन्वेवं शातताऽपि न प्रत्यक्षा स्यात् , क्षणिकत्वात् / कथम् ? इत्थम्-न स्वप्रकाशा वस्तुत्वात् / न जनकग्राह्या, अनागतत्वात् , विरम्य व्यापारायोगाच्च / न समसमयज्ञानग्राह्या, ज्ञानजनकेन्द्रियसम्बन्धाननुभवात् / न च तदुत्तरज्ञानग्राह्या, तदानीमतीतत्वादिति / क्षणिकत्वमेव तस्याः कुत इति चेत् / त्वदुक्तयुक्तरेव। तथाहि-यं क्षणमाश्रित्य जाता ततः परमपि तमेवाश्रयतेऽन्यं वा, न वा कमपीति / तत्र न प्रथमः। तस्य तदानीमसत्त्वात् / न द्वितीयः / अप्रतिसंक्र प्रकाशः। मानाभत्वादिति / वर्तमानविषयत्वादित्यर्थः / विरम्येति / ज्ञानं हि यं विषयीकृत्य उत्पन्नं, न तं जहाति, नान्यं वा विषयीकरोतीति ज्ञानस्वभावादित्यर्थः / न च प्रथमत एव तद्विषयीकरणे हेतु. रस्ति, भावित्वेनार्थस्य तदानीमवर्तमानत्वादित्याह प्रथमतोऽपीति / द्वितीयक्षणे पूर्वक्षण विषयी भूतस्यार्थस्य वर्तमानता भासते, तथाच तत्क्षणनाशेऽपि तथाविधमर्थं विषयीकुर्वज्ज्ञानमभ्रान्तमेवोतरक्षणेऽवतिष्ठते इति नोक्तदोष इत्याह तत्रेति। किमस्मिन्निति / ज्ञानार्थयोर्योगपद्ये इत्यर्थः / स्वप्रकाशमिति / स्वप्रकाशत्वाप्रसिद्धावपि इदं घटज्ञानं नेतस्य विषयो ज्ञानत्वादित्यर्थः / ग्राहकेति / ग्राहकज्ञानकाले ग्राह्यं ज्ञानं नास्ति, प्रायज्ञानकाले च तद्ग्राहकं ज्ञानमनागतमित्यर्थः / ज्ञातताजनकं यज्ज्ञानं तदेव न तद्राहकं, तत्काले ज्ञातताया अनागतत्वेन वर्तमानत्वाभावादित्याह नजनकेति। ननु ज्ञातताजनकमेव ज्ञानं ज्ञाततां जनयित्वा तां प्रहीष्यतीत्यत आह ज्ञानजनकेति / ज्ञाततासमकालोत्पन्नज्ञानेन न तद्ग्रहः, ज्ञातताजननोत्तरकाले तदिन्द्रियसम्बन्धस्य प्राप्त्या तत्समकालं तदभावादित्यर्थः / अनुभवेति / भू प्राप्तावित्येतस्य रूपम् / अप्रतिसंक्रमादाश्रयान्तरागम प्रकाशिका। प्रथमक्षणावच्छिन्नतेत्यर्थः / तत्क्षणेति। प्रथमक्षणेत्यर्थः / तथाविधमिति। प्रथमक्षणावच्छिनमित्यर्थः। तथा च पाकरक्ते श्यामप्रतीतिवत् प्रमात्वमिति भावः। स्वप्रकाशत्वाप्रसिद्धाविति। मकरन्द / वर्तमानतेति / प्रथमक्षणावच्छिन्नता भासते इत्यर्थः / / तत्क्षणेति। प्रथमक्षणनाशेऽपीत्यर्थः। तथाविधं प्रथमक्षणावच्छिन्नमित्यर्थः / पाकरक्त श्यामोऽयमितिवदिति भावः। स्वप्रकाशत्वाप्रसिद्धाविति / सिद्धौ वा तत्रैवानेकान्तिकमिति भावः / ५६न्या० कु०