________________ तृतीयस्तवके] अनुपलब्धेर्मानान्तरत्वखण्डनम् / 426 ननु क्व नाम ज्ञातानुपलब्धिरसाक्षात्कारिणीमभावप्रतीति जनयति / तद् यथा निपुणतरमनुसृतो मया मन्दिरे चैत्रो न चोपलब्ध इति श्रुत्वा श्रोताऽनुमिनोति, नूनं नासीदेवेति / एतेन प्राङ्नानास्तिताऽपि व्याख्याता। ननु तथाप्यघान्तरजातिभेदोऽस्तु अज्ञातानुपलब्धिजन्ये साक्षात्कारस्तु कुत इति चेत्। कारणविरोधात् बोधनी। स्यादेवं यदि ज्ञातानुपलब्धिः क्वचिदसाक्षात्कारंजनयेत् , न चैवमस्तीत्याशयेनाह ननु के नाम इति / तत्रोदाहरणेनोतरयति तद्यथा इति / न हि तदा देशान्तरस्थस्य श्रोतुर्योग्यानुपलब्धिरस्ति किं त्वाप्तवाक्यावगतयानुमिनोतीति। एवं प्रातः कारणेऽनुपलब्धस्य मैत्रस्य मध्यन्दिनसमयभाविप्रातस्तनाभावज्ञानमप्यनुमानफलमेव मध्यन्दिनानुसंधीयमानप्रातस्तनानुपलब्धिलभ्यत्वादित्याह एतेन इति / नन्वस्तु ज्ञातानुपलब्धिजन्यादज्ञातानुपलब्धिजन्यस्य जातिभेदः स तु साक्षात्काररूप इति कुत इत्याह ननु इति / न हि विधाद्वयव्यतिरेकेण ज्ञानावान्तरजातिभेद इत्यभिप्रायेणाह कारणविरोधा प्रकाशः। विनाप्यभावधीरिति व्यभिचारादिन्द्रियमकरणमित्यत आह एतेनेति / यथा शब्दावगतानुपलब्ध्या लिङ्गेनाभावानुमानं, तथा प्राङ्नाऽस्तितास्थलेऽप्यभावधीर्लिङ्गजेत्यर्थः / ननु तत्रास्मरणं न लिङ्गं, न हि यावदनुभूतं तावदेव ग्रहणयोग्यमपि स्मयंत एवेति नियम इति, मैत्रस्य तद्वहसत्त्वेऽप्यननुभवात् संस्कारानुत्पादाचदनुरोधाद् वा तदस्मरणस्योपपत्तेः। न / कश्चिद्विषयविशेष एव हि तादृशो यो गेहादिनिष्टतया अनुभूयत एव, तदनुभवेन च संस्कारो जन्यत एव, स च न नश्यति / नाऽपि तदुद्बोधकान्तरापेक्षा / विलक्षण विषयविशेषमाहात्म्यात् / यथा श्रीविश्वनाथायतने भगवन्तं श्रीविश्वनाथमनुभवतः, तथा मैत्रमपि प्रेष्ठम् / प्रयोगश्च-तद्गहं तदा मैत्राभाववत् तत्तुल्यपरिमाणपटादिस्मरणेऽपि तद्वत्तया अस्मर्यमाणत्वात् , यदेवं तदेवं, यथा पटाभाववद् भूतलमिति / स्मरणाभावश्च संयुक्तविशेषणतया मनोवेद्य एवेति भावः / केचित्तु यत्र सामान्याभावेन लिङ्गेन विशेषाभावानुमानं, तत्र ज्ञातानुपलब्धिरनुमानाङ्गमिति तत्परोऽयं ग्रन्थ इत्याहुः / ननु ज्ञातानुपलब्धेरसाक्षात्कारजनकत्वेऽप्यज्ञातानुपलब्धिजन्ये अवश्यं साक्षात्कारित्वमिति न नियमो वैजात्यान्तरेणाप्युपपत्तेरित्याह नन्विति / सर्वत्र असाक्षात्कारित्वस्य ज्ञायमानकरणजन्यत्वव्याप्तेस्तनिवृत्तावसाक्षात्कारित्वव्यावृत्तेरवान्तरजातिः साक्षात्कारित्वमेवेत्याह कारणेति / न च साक्षात्कारित्वमिन्द्रियजन्यत्वप्रयुक्तमेवेति वाच्यम् / ज्ञातेन्द्रियसन्निकर्षजेन्द्रियगतिज्ञानस्य साक्षा प्रकाशिका। ___ केचित्त्विति / उपलम्भसामान्याभावेन यत्रोपालम्भविशेषाभावानुमानं तत्रैव ज्ञातानुपलब्धेः कारणत्वमिति इत्यपि दूषणान्तरमाहेत्यर्थः / मकरन्दः / न्याभावेन विशेषाभावानुमानमित्यर्थः / इन्द्रियजन्यत्वेति / इन्द्रियसन्निकर्षजन्यत्वेत्यर्थः / तेन नोत्तरविरोधः। इन्द्रियविशिष्टसन्निकर्षहेतुत्वे इन्द्रियहेतुत्वमपीति न विरोध इत्यन्ये / ज्ञायमानकरणत्वमाश्रित्याह ज्ञातेन्द्रियेति / चक्षुर्गतिमत् गतिशून्यसंयोगित्वादित्यनुमितेरित्यर्थः / नन्वेवमसाक्षात्कारित्वमपि तत्र न स्यादिन्द्रियसन्निकर्षान्यकरणस्य तत्र प्रयोजकत्वादित्यत आह टिप्पणी। तत्परोऽयं ग्रन्थ इत्याहुरिति। एतेनेत्यादिग्रन्थःप्राङ्नास्तिता च, गृहविशेषे चैत्रोपलब्धेः अहं गृहविशेषे तदा चैत्रोपलव्ध्यभाववान् , चैत्रोपलव्धेरभावात् मा चैत्र एव कदापि नोपलब्धः पहे तदुपलब्धेः का कथा इत्यभिसन्धिः /