________________ 428 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ[ 20 कारिका यारू पायो भूतले घटो नास्तीत्यपि। साक्षात्कारित्वमस्या असिद्धमिति चेन्न / एकजातीयस्खे ज्ञाताशातकरणत्वानुपपत्तेः। न हि तस्मिन्नेव कार्ये तदेव करणमेकदा ज्ञातमज्ञातश्चैकदोपयुज्यते, लिङ्गेन्द्रिययोरपि व्यत्ययप्रसङ्गाज्ज्ञानस्याकारणत्वासनाच / न हि तदतिपत्यापि भवतस्तत्कारणत्वं, व्याघातात् / तस्माज्शातानुपलब्धिजन्यस्यासाक्षात्कारित्वात् तद्विपरीतकारणकमिदं तद्विपरीतजातीयमिति न्याय्यम् // बोधनी। इति / प्रतिवाद्यसिद्धो हेतुरित्याह-साक्षात्कारित्वम् इति / न इति / नास्तीति बुद्धयः काश्चिदज्ञातकरणिकाः, काश्चिद् ज्ञातकरणिकाः, तत्र यद्युभयेऽप्यसाक्षात्कारजातीयाः तत इदं कारणवैचित्र्यं न स्यादिति / विपर्ययेऽनिष्टमाह लिङ्गेति / असाक्षात्कारिज्ञानजनकस्यापि लिङ्गस्य सत्तया हेतुत्वं साक्षात्कारहेतोरपीन्द्रियस्य ज्ञायमानतया हेतुत्वं च प्रसज्येतेति / किं च यद्यज्ञातादपि करणानातीयमेव ज्ञानं जायेत तदा तत्र कारणमेव तज्ज्ञानं भवेत् व्यतिरेकाभावादित्याह ज्ञानस्य इति / यत एवं तस्माज्ज्ञातानुपलब्धिजन्यस्यासाक्षात्कारित्वमभ्युपगच्छतामवश्यमज्ञातानुपलब्धिजन्यस्य साक्षात्कारित्वमवर्जनीयमित्याह तस्मात् इति / प्रकाशः। साक्षात्प्रतीतिकरणस्यैवेन्द्रियतया तेनैव तदनवच्छेदादात्माश्रयात् / तथापि रूपाभावादिप्रतीतेहिरिन्द्रियान्तराजन्यबहिर्विषयकजन्यसाक्षात्कारित्वाच्चाक्षुषादित्वं साध्यमिति भावः / अनुपलब्धेरपि ज्ञातानुपलब्ध्यन्तरगम्यत्वेनानवस्थानात् क्वचिदज्ञातैव करणमुपेयेत्याशयेनाह एकेति / अज्ञातकरणकानुभवत्वं साक्षात्वव्यवस्थापकम् , अतः स्मृतेरज्ञातकरणकत्वेऽपि न तदिति भावः / यदि च नैवं, तदा लिङ्गमपि साक्षात्कारमिन्द्रियमप्यनुमिति जनयेदित्याह लिङ्गेति / ज्ञातकरणकत्वं ज्ञानकरणकत्वं लिमादेरजमकत्वादिति व्यभिचारादभावज्ञाने तत्करणं न स्यादित्याह ज्ञानस्येति / तद्विपरीतेति / अज्ञातयोग्यानुपलब्धिकरणकं साक्षात्कारजातीयमित्यर्थः / ननु प्राङ्नास्तितायामिन्द्रियं प्रकाशिका। भावः / साक्षादिति / तथा चेन्द्रियत्वं न साक्षात्कारकारणतावच्छेदकमात्माश्रयादिति साध्याप्रसिद्धिरिति भावः / स्मृत्यजनकज्ञानकारणमनःसंयोगाश्रयत्वादिना तन्निर्वचने यद्यपि नोक्तदोषः, तथापि समाधिसौलभ्यादाह तथापीति / रासनसाक्षात्कारे व्यभिचार इत्यजन्यान्तम् / अत्रापि अप्रसिद्धिवारणाय बहिःपदम् / सुखादिसाक्षात्कारे व्यभिचार इति बहिर्विषयकेति / ईश्वरज्ञाने ध्यभिचार इति जन्यपदम् / तच्च लौकिकपरमन्यथोपनीतघटादिगोचरमानससाक्षात्कारे व्यभिचारात् / यद्वा वहिर्विषयजन्यसाक्षात्कारत्वं हेतुः, स्वार्थे कन्प्रत्ययः / अस्तु सर्वत्र ज्ञातैवानुपलब्धिः कारणमत प्राह अनुपलब्धेरपीति / मकरन्दः। साक्षादिति / तथा चेन्द्रियत्वं न साक्षात्प्रतीतौ कारणतावच्छेदकमात्माश्रयादिति तत्साधने वाध इति भावः। यद्यपि स्मृत्यजनकज्ञानकारणमनोयोगाश्रयत्वादिना तन्निर्वचने नोक्तदोषः, तथापि समाघिसौकर्यादाह तथापीति / अत्र रासनप्रत्यक्ष व्यभिचारवारणायाजन्यान्तम् / एतच्च रूपाभावबुद्धौ चाक्षुषत्वसाधने रसाभावबुद्धौ रासनत्वसाधने चाक्षुषप्रत्यक्ष एव तद्वारणाय तदित्यवधेयम् / अप्रसिद्धिवारणाय प्रथमबहिःपदम् / मनोमात्रकरण के व्यभिचारादाह बहिर्विषयकेति / ऐशे व्यभिचारादाह जन्येति / अनुमित्यादौ व्यभिचारादाह साक्षात्कारित्वादिति / न चोपनीतविषये मानसप्रत्यक्ष व्यभिचारः, जन्यपदेन लौकिकत्वस्य विवक्षितत्वात् / वस्तुतो बहिर्विषयकजन्येस्थत्र स्वार्थिककन्प्रत्ययादहिर्विषयजन्यत्वं विवक्षितम् , तस्य च विषयाजन्यत्वादिति / नन्वस्तु तर्हि सर्वत्र ज्ञातैवानुपलब्धिः करणमित्यत आह अनुपलब्धेरपीति / सामान्धाभावेन उपलम्भसामा