________________ तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् / 427 . ... अनुपलब्धिस्तु न बाधिकेति चिन्तितम् / न च प्रत्यक्षादेरतिरिच्यते / तदुच्यते प्रतिपत्तेरपारोक्ष्यादिन्द्रियस्यानुपक्षयात् / अज्ञातकरणत्वाच भावावेशाच्च चेतसः // 20 // या हि साक्षात्कारिणी प्रतीतिः सेन्द्रियकरणिका, यथा रूपादिप्रतीतिः। तथेह बोधनी। एवमर्थापत्तिर्न बाधिका न भिद्यते चानुमानादित्युक्तम् / अनुपलब्धेस्त्वबाधकत्वस्य चिन्तितपूर्वत्वादन्तर्भाव एव चिन्तनीय इत्याह अनुपलब्धिस्तु इति / तत्तावदिह भूतले घटो नास्तीति प्रतीतेन्द्रियकत्वे चतुरो हेतूनुपन्यस्यति प्रतिपत्तरिति। विप्रतिपन्ना प्रतीतिरिन्द्रियकरणिक अपरोक्षरूपत्वात् रूपादिबुद्धिवदिति। अनन्यत्रोपक्षीणेन्द्रियान्वयव्यतिरेकानुविधायित्वात् अज्ञातकरणत्वाच्च / तथेयं प्रतीतिर्भावात्मप्रमाणसहकृतेन मनसा जायते बाह्यानुभवत्वात् / भावरूपं च प्रमाणमिन्द्रियमेव परिशिष्यत इति भावः / भावावेशो भावप्रमाणसहकार इति / तत्राद्यं हेतुं विवृणोति या हि प्रकाशः। अनुपलब्धिस्तु स्वरूपसती परमात्मनो योग्यत्वाभावान बाधिका, ज्ञाताऽप्यनुमानरूपतया न वाधिका, अनुमानबाधकत्वस्य निरस्तत्वादित्याह अनुपलब्धिस्त्विति / घटोपलम्भे घटाभावाज्ञानादनुपदलब्धिरवश्य हेतुरिति सैव करणमावश्यकत्वात् / न च प्रतियोग्यनुपलब्धिमात्रं न करणं, प्रतियोगिज्ञानस्याभावधीहेतुत्वात् , नाऽपि प्रतियोगिसत्त्वप्रमाविरहः, अत्यन्ताभावग्रहे तदप्रसिद्धेरिति वाच्यम् / यादृश्यास्तथेन्द्रियसहकारित्वम् , तादृश्याः करणत्वात् , न तु इन्द्रियमपि तत्करणं, गौरवादिति प्रसङ्गागतं निरस्यति न चेति / अभावस्य यथायथं प्रत्यक्षादिगम्यत्वादित्यर्थः / __ तत्र प्रत्यक्षगम्यत्वे मानमाह प्रतिपत्तेरिति। जन्यापरोक्षज्ञानस्येन्द्रियजन्यत्वनियमादित्यर्थः / तत्र चान्वयव्यतिरेकितया योग्यानुपलब्धेः सहकारित्वं न निषिद्धयते इति भावः। इन्द्रियस्येत्यादि / इन्द्रियव्यापारस्यानन्यथासिद्धत्वादज्ञातकरणजन्यज्ञानत्वाच्चेत्यर्थः / भावावेशाच्चेति / अस्मदादिबाह्यानुभवस्य भावभूतकरणसचिवमनोजन्यत्वनियमादित्यर्थः / इन्द्रियकरणिकेति / यद्यप्यत्र मनसा सिद्धसाधनम् / न चेन्द्रियत्वेन तज्जन्यत्वं साध्यम् / . प्रकाशिका। नापीति।अधिकरणविशेष्यकप्रतियोगिसत्वप्रमाविरहकरणमित्यर्थः, तेन नानाधिकरणान्तरे तियोगिमत्वप्रमायामप्यभावधीः। प्रमापदश्चाहार्यज्ञाननिवारणाय / अत्यन्तेति / वायौ रूपाभावप्रतीतिस्थले प्रतियोग्यप्रसिद्धरित्यर्थः / न चाधिकरणे ताशप्रमाविशेष्यत्वाभावः करणं समवायाभावस्थले प्रतियोग्यप्रसिद्धः, न चाधिकरण विशेष्यकानाहायंतादृशज्ञानाभावः तथा, तथा च तादृशभ्रममादाय सङ्गतिरिति वाच्यम् / यत्राधिकरणे स्वस्य न तादृशो भ्रमस्तदधिकरणे तदभावग्रहापत्तेः, स्वीयत्वस्याज्ञानविशेषणत्वात् , अन्यथा पुरुषान्तरीयभ्रमदशायामभावग्रहापत्तेरिति दिक् / तादृश्या इति / तथा च स्वीयतत्तत्कालीनाधिकरणज्ञानेऽनाहार्यप्रतियोगिसत्त्वप्रकारकत्वाभावः करणमिति ‘मकरन्दः। नापीति / अधिकरणे इति शेषः / अत एवाह अत्यन्तेति / वायौ रूपात्यन्ताभावप्रहे अधिकरणे प्रतियोगिप्रमाऽसिद्धेत्यर्यः / गौरवादिति / उभयकारणकल्पने. गौरवादित्यर्थः /