________________ प्रकार 426 व्याख्यात्रयोपेतप्रकाधबोधनीयुते न्यायकुसुमाखलौ [ 19 कारिकाव्याख्यायां वेति / तस्मादपत्तिरित्यऽनुमानस्य पर्यायाऽयं तद्विशेषवचनं वा पूर्वपदादिवदिति युक्तम् // 16 // बोधनी। मविनाभावो निश्चीयते, नत्वन्वयिन्यन्वयेनैव व्यतिरेकिणि व्यतिरेकेणैवेति अर्थापत्तेरनुमानान्तर्भावमुपसंहरति तस्मात् इति // . प्रकाशः। नियमग्राहकम् ? / तत्र बहिसत्त्वकल्पने गृहनियमग्राहकमात्रबाधा, मरणकल्पने तु शतवर्षजीवी देवदत्तः, शतवर्षजीवी गृहे एवेति नियमद्वयस्य बाधः स्यात् / तथा चार्थापत्तिकल्पितं जीवित्वमुपजीव्यानुमानादेव बहिःसत्त्वज्ञानं भविष्यतीत्येतावत्तर्कसहितस्य यथोक्तसामग्रीप्रभवसंशयस्य बहिःसत्त्वकल्पकत्वात् / न च तस्यां दशायां मानान्तरमस्ति, ततोऽर्थापत्तिसहकारित्वं तर्कस्य / यत्र च मृते गृहस्थिते वा तादृशसंशयावहिःसत्त्वकल्पना, तत्र जीवननियमग्राहकयोरन्यतराभासत्वं, परोक्षज्ञानस्य जनकज्ञानाप्रमात्वेनाप्रमात्वनियमात् // ... अत्राहुः-देवदत्तो जीवनमरणान्यतरप्रतियोगी प्राणित्वादिति सामान्यतोदृष्टमभावरूपमरणापेक्षया जीवनं भावरूपं विषयीकरोति लाघवादिति तत्रैव लाघवं सहकारि / तथाहि-यथोक्तसंशयदशायां जीवनबाधे तन्नियमबाघस्यावश्यकत्वादिति तर्कानन्तरमेव बहिःसत्त्वज्ञानमित्यविवादम् / तत्र क्लुप्तप्रमाणभावे सामान्यतोदृष्ट एव लाघवं सहकारि, न तु कल्पनीयप्रमाणभावे यथोक्तसंशये, गौरवात् / - यच्चोतं-'मरणकल्पने शतवर्षावच्छिन्नजीवी गृह एवेत्यस्यापि बाध' इति / तत्र विशिष्टबाधो विशेष्यवाधात् मरणेऽपि जीवी गृह एवेत्यस्य विशेष्यस्याबाधात् किन्तु विशेषणबाधात् / स च शतवर्षजीवित्वबाध एव / विशेषणाभावायत्तो विशिष्टाभावोऽप्यऽस्तीति चेन्न / विशेष्यवति विशिष्टाभावस्य विशेषणाभावात्मकत्वादिति सक्षेपः। पूर्ववदादिवदिति / त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यतो दृष्टम् ( न्याय० 1. 1. 5) शेष उक्तः // 19 // प्रकाशिका। - ततोऽर्थापत्तिकल्पितमिति / एवकारो भिन्नक्रम उपजीव्येत्यत्रान्वेति, तथा च मानान्तराभावेऽर्थापत्या जीवित्वलिङ्गविशेषणत्वनिश्चयेऽनुमानाद्वहिःसत्वज्ञानं त्वया वाच्यं तद्वरं अर्थापत्यैव वहिःसत्वनिश्चय इत्येव स्वीक्रियतां लाघवाय कृतमर्थान्तराजीवित्त्वज्ञानेनेति तर्कशरीरमेव सर्वमिदं द्रष्टव्यम् , अन्यथा यथाश्रुते संशयस्य बहिःसत्त्वकल्पकत्वादित्युपसंहारविरोधो जीवित्वस्यार्थापत्तिविषयत्वेऽपसिद्धान्तश्चेति दोषापत्तेः / तत्र जीवनेति / अत्र नियमग्राहकपदेन गृहाभावग्राहकमेवोक्तम् / क्वचित् पाठः-जीवनगृहाभावग्राहकयोरिति / स तु सुगम एव // 19 // मकरन्दः। जीवननियमेति / गृहे नास्त्येवेति नियमग्राहकमत्रोक्तम् / अत एव जीवनगृहाभावग्राहकयोरित्येव व चित् पाठः // 19 // . टिप्पणी। तथा चार्थापत्तिकल्पितं जीवित्वमिति / अत्र एवकारो भिन्नक्रमः। तस्यां दशायां मानन्तराभावादपत्तिकल्पितं जीवित्वमुपजीव्यैव लिङ्गविशेषणनिश्चयेऽनुमानाद्वहिःसत्त्वज्ञानं त्वयापि वाच्यम् , एवञ्चावश्यकतयाऽर्थापत्त्यैव बहिस्सत्वनिश्चयोऽस्तु कृतं तथा जीवित्वनिश्चयेनेति तर्कशरीरमेवेदं द्रष्टव्यम् / तेन संशयस्य बहिस्सत्वकल्पकत्वादिति नोपसंहारविरोधः, न वा जीवित्वस्यार्थापत्तिकल्पनोपवर्णनेऽपसिद्धान्त इति / यथोक्तसंशये गौरवादिति / तथाचोक्तानुमानेन जीवित्वनिश्चये तद्विशेषितगृहासत्वेन बहिस्सत्वानुमानसम्भवादापत्तिर्न मानान्तरं कल्प्यमिति भावः // 19 //