________________ तृतीयस्तवके ] अर्थापत्तोधकत्वखण्डनम्। 524 पालालपस्थितिरिष्यर्थापत्तिरेव स्यात् / तद्विशिष्टस्य तेष व्याप्तवमिति चेत् / ग्रयेवमाभागानुपलभ्यमानवह्नित्वेन विशिष्टश्य धूमरय तेनैव व्याप्तः कथमेवं भविष्यतीति तुल्यम् / केवलव्यतिरेक्यनुमानं पराभिमतमपत्तिरन्वयाभावादिति चेत् / एवं तावता विशेषेणानुमानेऽर्थापत्तिव्यवहारं न वारयामः। तत्रानुमानव्यवहारः कुत इति चेत् / अविनाभूतलिङ्गसमुत्पन्नत्वात् / साभ्यधर्मेण विना ह्यभचनमन्वयिन इव व्यतिरेकिणोऽष्यविशिष्टं, तम्निश्चयश्चाऽन्वयव्यतिरेकाभ्यामन्यतरेण बोधनी। तद्विशिष्टस्य इति / तर्हि विशिष्टस्य धूमस्य वह्निना परभागवर्तिना व्याप्तिर्भवन्ती परभागव्यवस्थितिर्वा कथमपत्तिः स्यादित्याह यद्येवम् इति / ननु यत्केवलव्यतिरेक्यनुमानत्वेन नैयायिकानामभिमतं तदेव नोऽस्माकमर्थापत्तिरन्वयव्याप्त्यभावेन तस्यानुमानत्वायोगात् इत्याह केवलव्यतिरेकीति / अस्त्वन्वयो नास्तीत्येतावता विशेषणार्थापत्तिव्यवहारः, न तावताऽनुमानत्वहानिरित्याह एवम् इति / तत्र केवलव्यतिरेकिणि असत्येवान्वये किंनिबन्धनमनुमानत्वमित्याशझ्याह अविनाभूतेति / अविनाभावेन तनिश्चयेन च मामकं ह्यनुमानं केवलव्यतिरेकिणि चाविनाभावस्तन्निश्चयश्चास्तीत्यनुमानमेव, केवलमेतावान् विशेषः अन्वयव्यतिरेकिणि लिङ्गेऽन्वयव्यतिरेकाभ्या प्रकाशः। साध्यसाधनाभावयोाप्तिरन्वयस्य पक्षधर्मत्वमिति न व्याप्तस्य पक्षधर्मतत्यनुमानाभावेऽर्थापत्तिः स्यादित्याह केवलेति / व्यतिरेकव्याप्तावपि पक्षधर्मस्यान्वयस्य गमकत्वम् / न चातिप्रसङ्गः / प्रतियोग्यनुयोगिभावस्य नियामकत्वात् / तथा चानुमितिसामग्त्र्यरत्येव, परिभाषा त्वपर्यनुयोज्येत्याह एयमिति / वस्तुतो व्यतिरेकयोः सहचारादन्वययोरेव व्याप्तिः, प्रतियोग्यनुयोगिभावस्य नियामकत्यादिति व्याप्तस्य पक्षधर्मत्वमस्त्येवेति भावः / अन्यतरेण वेति / केवलान्वयिव्यतिरेकिणोरित्यर्थः / ननु ज्योतिःशास्नाद् देवदत्तस्य शतवर्षजीवित्वे ज्ञाते, अथ शतवर्षजीवी गृह एवेति नियमे प्रत्यक्षेण निश्चिते, पश्चाद् योग्यानुपलब्ध्या निश्चितो गृहाभावो जीवननियमग्राहकमानयोर्बलाबलानिरूपणाद् बहिःसत्त्वकल्पनां विना नियमद्वयविषयं संशयं जनयित्वा, जीवनसंशयमापाद्य, तदपनुत्तये जीवनोपपादकं बहिःसत्त्वं कल्पयति, यथोक्तसामग्त्र्यनन्तरं बहिरस्तीति प्रतीतेः / तत्रान्वयव्यतिरेकाभ्यां जीयनसंशय एव करणम् / जीवित्वलिङ्गविशेषणसन्देहेऽनुमानाभावात् / यथोक्तसामग्रीप्रभवसंशयस्य च कल्पनाङ्गत्वान्न स्थाणुपुरुषसंशयस्य मृतजनिष्यमाणयोगृहाभावनिश्चयस्य च तादशसंशयाजनकस्य नैककोटिनिर्वाहकबहिःसत्त्वकल्पकत्वम् // अथ जीवननियमग्राहकमानयोस्तुल्यबलत्वज्ञाने विशेषादर्शनान्न बहिःसत्त्वकल्पना, एकस्य बलवत्त्वाज्ञाने च तेनान्यस्य बाध एवेति न संशयः / तस्माज्जीवनगृहाभावयोनिश्चय एव बहिःसत्त्वं कल्प्यते, न तु जीवनसंशये इत्यनुमानादेव बहिःसत्त्वसिद्धिः // तन्न / योग्यानुपलब्धिजनितो गृहाभावनिश्चयः सुदृढ इति जीवननियमप्राहकयोरेकं बाभ्यं, विरुद्धयोरमानत्वात् / तदिह मरणं कल्पयित्वा जीवनग्राहकं बाध्यतामुत बहिःसत्त्वं कल्पयित्वा मकरन्दः / तथात्वं स्यादित्याशयेन तदुक्तमिति ध्येयम् / तथा चार्थापत्तिकल्पितमित्यत एवकारो भिषक्रमः / तथा च तस्यां दशायां मानान्तराभावादापत्तिकल्पितं जीवित्वमुपजीव्यैव लिङ्गविशेषणनिश्चयेऽनुमानाद्वहिःसत्त्वज्ञानं त्वयाऽपि वाच्यम् , एवञ्चावश्यकतयार्थापत्त्यैव बहिःसत्त्वनिश्चयोऽस्तु, कृतमन्तरा जीवित्वनिश्चयेनेति तर्कशरीरमेवेदं द्रष्टव्यम् / तेन संशयस्य बहिःसत्त्वकल्पकत्वादिति नोपसंहारविरोधः, न वा जीवित्वस्यार्थापत्तिकल्पनोपवर्णनेऽपसिद्धान्त इति / 54 न्या० कु०