________________ 424 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [19 कारिकाव्याख्यायो गमयेत् , न हि तेन विना असावुपपद्यते। विरोधोऽपि, धूमावह्निना भवितव्यम् , अनुपलब्धेश्च न भवितव्यमिति / तथावा उपलब्धेराग्भागव्यवस्थापन, धूमस्य च व्यवधानेनानुपलभ्यवह्निविषयत्वस्थितिरांपत्तिरिति कुतोऽनुमानम् / वह्निमानयमित्यनुमानं व्याप्तः। अन्यथाऽनुमानाभावे विरोधासिद्धः। अग्भिागानुपलब्धिविरोधेन परभागेऽस्य वह्निरित्यर्थापत्तिरेवेति चेन्न / व्याप्तिग्राहकेन प्रमाणेन विरोधस्योक्तत्वात् / नाष्युत्तरार्थापत्तिः / अन्यथा पाण्डरत्वस्यापालालत्वविरोधेन बोधिनी। रनुपपद्यमानतया गृहाभावो वहिर्भावं गमयेत्ततोऽनुमानत्वोच्छेद इति / न केवलमनुपपत्तिः प्रमाणद्वयविरोधोऽपि तत्र वक्तुं शक्यत इत्याह विरोधोऽपि इति / सति धूमे वन्हिना भवितव्यमिति वन्हेः सत्तामेकं प्रमाणं गमयति, अनुपलब्धिश्चासत्तां प्रमाणस्य व्यवहितदेशवन्हिविषयत्वव्यवस्थापनमापत्तिरेव स्यादिति / ननु चैवमनुमानोच्छेदः धूमावन्हिना भवितव्यमित्यस्यानुमानत्वात्तस्य त्वनुपलब्धिविरोधपरिहाराय पर्वतापरभागावस्थापनमापत्तिरिष्टैवेत्याह वन्हिमानयम् इति / न इति / न वयमिदानीं तेन धूमज्ञानजन्मना वन्हिज्ञानेनानुपलब्धिविरोधं ब्रूमः येनानुमानमास्पदं / लभेत, किं तर्हि ? पूर्वकालीनेन यत्र यत्र धूमस्तत्र तत्राग्निरस्तीति व्याप्तिग्राहकप्रमाणेनेदानीमनुसन्धीयमानेन, अतो न प्रमाणद्वयविरोधसिध्यर्थमनुमानाङ्गीकार इति, परभागावस्थापनं च नार्थापत्तिरित्याह नापि इति / यदि तु विरुद्धयोषियव्यवस्थापनमेवार्थापत्तिः स्यात् ततः पाण्डरधूमस्य पालालामिना व्याप्तत्वेनापालालत्वविरोधात् पालालत्वव्यवथापनमापत्तिः स्यादित्याह अन्यथा इति / ननु पाण्डरत्यविशिष्टस्य पालालत्वेन व्याप्तिर्भवन्ती पालालत्वव्यवस्थिति पत्तिरित्याह प्रकाशः। तदेव स्पष्टयति न हीति / धूमाद् वह्निना भाव्यमित्यनेतानुपलब्धेर्विरोधस्तदा, यदि धूमो वह्नयनमापकः स्यान्नान्यथा, तथा च सिद्धमनुमानम् , देशभेदेन तयोरविरोधापादनमर्थापत्तिफलमेवेत्याह वह्निमानयमिति / नात्रानुमानेन सममनुपलब्धेविरोधः, किन्तु वह्निधूमव्याप्तिग्राहकमानेनेत्याह व्याप्तीति / यदि च सामान्यग्राहकमानस्य विशेषतोऽनुपलब्धिरवाधिका, तदा क्वचिदस्तीत्यस्यापि गेहे नास्तीत्यनेन सह न विरोध इत्यर्थः / नापीति / अर्वागभागानुपलब्धिविरोधेनेत्यायुक्तरूपेन्त्यर्थः / यदि च नैवं, तदा पाण्डरधूमस्यापालालवह्निविरोधात् पालालचह्निसिद्धिरप्यर्थापत्तिरेव स्यादित्याह अन्यथेति / तेनैव, परभागवह्निनैवेत्यर्थः / ननु केवलव्यतिरेकिणि प्रकाशिका। कविरोधज्ञानशान्तिः तत्र विषयभेदकल्पनयेवेति व्याप्तिरेवेत्यनुमानादेव विषयभेदकल्पनापीति नार्थापत्तिरित्यर्थः / सामान्येति / पर्चेतसामानाधिकरण्यमात्रेण वहिग्राहकमानस्येत्यर्थः / विशेषत इति / अर्वागभागावच्छेदेनेत्यर्थः / न विरोध इति / तथा च तत्र ज्ञानं न कारणमिति भावः / वह्निमानित्यनुमानं व्याप्तिरित्यस्यैवार्थान्तरमुत्तरपदेनोक्तमत्रेति भ्रमनिरासायाह अर्वाग्भागेति / यदयपि प्रमाणयोरेव विरोधः परेणार्थापत्तितयाभिमतो न च प्रकृते तथा, तथापि व्याप्तिज्ञानसत्वेपि प्रमाणयोश्चेद्विरोधः अर्थापत्तिः स्यादित्यविरोधान्तरमपि तथा स्यादित्याशयेनेदमुक्तमिति ध्येयम् / मकरन्दः। नमानादेव विषयभेदकल्पनाऽपीति नार्थापत्तिरित्यर्थः / सामान्येति / पर्वतो वह्निमा निति सामान्यतो ग्राहकस्येत्यर्थः / विशेषत इति / अर्वाग्भागावच्छेदेनेत्यर्थः / न विरोध इति / तथा व कतस्तज्ज्ञानं करणमिति भावः / ननु वह्निमानयमित्यादि पूर्वपक्षे प्रथमं नार्थापत्त्यन्तरमुक्तं, तथा नाप्यत्तरेत्यसङ्गतमत आह अवाग्भागेति / यदि चेति / यद्यपि प्रमाणयोरेव विरोधस्तथावेन पराभिप्रेतः प्रकृते च न तथा, तथापि यत्रापि व्याप्तिस्तत्र मानान्तरकल्पने विरोधान्तरस्यापि