________________ 422 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [19 कारिकाव्याख्यायां / मोऽर्थापत्तिरिति युक्तम् / पक्षधर्मताया अनिमित्तत्वप्रसङ्गात् / अविशेषात् , व्यधिकरणेनाविनाभावनिश्चयायोगाच-यद् यत्र यदेति प्रकारानुपपत्तेः।। प्रमाणयोर्विरोधे अर्थापत्तिरविरोधोपपादिका, न त्वेवमनुमानमित्यपि नास्ति / विरोधे हि रज्जुसोदिवदेकस्य बाध एव स्यान्न तूभयोः प्रामाण्यम् / प्रामाण्ये वा न विरोधः। स्थूलमिदमेकमितिवत् सह संभवात् / चैत्रोऽयमयं तुमैत्र इति वद्वा बोधनी। भावस्य निरूपणीयत्वादित्याह व्यधिकरणेनेति / अत्रापि हि देवदत्तं पक्षीकृत्य तस्य बहिःसत्त्वं गृहासत्त्वेन साध्यत इति पक्षधर्मत्वोपपत्तिरिति भावः / तृतीयं पादं व्याचष्टे प्रमाणयोरिति / ननु प्रकृतोदाहरणे जीवनग्राहकस्य गणितानुमानस्य क्वाप्यस्तीति सामान्यतः प्रवृत्तत्वेन सामान्यानुप्रवेशिनो गेहस्यापि क्रोडीकरणादभावप्रमाणेन सहे प्रकाशः। मानादित्याह-व्यधिकरणेनेति। " ___ननु गृहनिष्ठाभावाप्रतियोगित्वमपि न लिङ्गम् / प्रतियोगित्वस्य देवदत्तधर्मतया तदसन्निकर्षे प्रत्यक्षेण ज्ञातुमशक्यत्वात् / कथं वा प्रत्यक्षेण तृतीयलिङ्गपरामर्शः / विशेष्यस्य देवदत्तस्यासन्निकर्षात् / व्यतिरेकव्याप्तिगृहनिष्ठाभावयोर्ज्ञानं सहकार्यासाद्य मनसैव लिङ्गपरामर्श इति चेन्न / अक्षादिवत्तयोर्मानान्तरत्वापातात् / अतीतानागतधूमादग्न्यनुमितिः कथम् ? तत्रापि लिङ्गपरामर्शाभावादिति चेन्न / तत्रापि धूमज्ञानसहकृतादग्निं विना धूमोऽनुपपन्न इति ज्ञानत एवाग्निज्ञानात् , उक्तरीत्याऽनुमितिसामग्त्र्यभावात् / यत्र चानुपपत्तिज्ञानं विना तृतीयलिङ्गपरामर्शः तत्रैवानुमानात् / तस्माद्यतिरेकव्याप्तिमुपजीव्य व्यधिकरण एव जीविदेवदत्तगृहाभावो बहिःसत्त्वं कल्पयतीति // ___मैवम् / देवदत्तासन्निकर्षेऽपि तस्य गृहनिष्ठाभावप्रतियोगित्वज्ञानात् / तथाहि-गृहे देवदतस्याभाव इति प्रत्यक्षण जायमानमभावज्ञानं, स्मृतदेवदत्तस्य प्रतियोगित्वमपि विषयीकरोति / प्रतियोगिना सममभावस्य सम्बन्धान्तराभावात् / गृहनिष्ठाभावप्रतियोगित्वे च प्रत्यक्षोपस्थिते स्मृतव्याप्तिवैशिष्ट्यमपि प्रत्यक्षेण सुग्रहम् / न च देवदत्तविशेष्यकं बहिःसत्त्वव्याप्यगृहनिष्ठाभावप्रतियोगित्वज्ञानं नास्तीति कथं तद्विशेष्यिकाऽनुमितिरिति वाच्यम् / पक्षवृत्तिलिङ्गपरामर्शमात्रस्यानुमितिहेतुत्वात् , पक्षविशेष्यकत्वस्य चातन्त्रत्यात् / सम्प्रदायविदस्तु-अनंतिप्रसक्तव्याप्त्यादिस्मृतिसहकृतान्मनस एव तत्र स्मृतदेवदत्तविशेष्यकस्तृतीयलिङ्गपरामर्शः / न च सहकारिणो मानान्तरताऽऽपत्तिः, निर्व्यापारत्वादित्याहुः / जीवी क्वचिदस्तीति क्वचित्त्वेन गेहस्यापि विषयत्वात् पश्चाद् गेहे नास्तीत्यनयोर्गेहेऽस्ति नास्तीत्यत्रेव विरोधज्ञानं करणम् / क्वचिदित्यस्य गेहातिरिक्तविषयत्वकल्पनमविरोधापादकं फलम् / न चानुमानमत्र प्रभवतीति ततोऽर्थापत्तेर्भेद इति मतमुत्थाप्य निराकरोति प्रमाणयोरिति / प्रमाणयोर्विरोधो वास्तवो वा, वस्तुतोऽविरोधेऽपि ज्ञायमानो वा ? / तत्र नाद्य इत्याह विरोधे हीति / प्रामाण्ये वा उभयोर्वस्तुनोविरुद्धद्वैरूप्यापत्तिरिति भावः / स्थूलमिति। यथा घटे स्थौल्यैकत्वग्राहकमानयोर्न विरोधस्तथाऽत्रापीत्यर्थः। अन्त्यं शङ्कते प्रकाशिका। यस्य प्रतिय गिनोऽभावान्न विरोध इत्यत आह यथेति। ननु विरोधज्ञानस्यैव कारणत्वात् किमनुपपदय मकरन्द। यथेति / ननु प्रमाणद्वयविर धज्ञानस्य करणत्वात् किमनुपपद्यमानमित्यसङ्गतमित्यत * पाह टिप्पणी। गेहे अस्ति नास्तीत्यत्रेवेति / आपाततोगृहीतस्य विरोधस्योपशमनीयताग्रहः कारणम् , प्रमाणयोरकज्ञानयोविभिन्न विषयत्वं चिनाऽविरोधोऽनुपपन्न इति ज्ञानाव्यापारः। .