________________ 426 व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाअलौ [ 19 कारिकाव्याख्यायां / अनियामको भवन्नप्यनियम्यमुपपादयति, अतिप्रसङ्गादेव / स्वभावोऽस्य यदनेन बहिःसत्त्वेन गेहासत्त्वं क्रोडीकृत्य स्थातव्यमिति चेत् / सेयं व्याप्तिरेवान्वयमुखनिरूप्या तथा व्यपदिश्यते इति / न वयमविनाभावमर्थापत्तावपजानीमहे, किन्तु तज्ज्ञानम् , न चाऽसौ सत्तामात्रेण तदनुमानत्वमापादयतोति चेत् / न / अनुपपत्तिप्रतिसन्धानस्यावश्याभ्युपगन्तव्यत्वात् / अन्यथा त्वतिप्रसङ्गात् , अर्थापत्त्याभासाऽनवकाशाच्च / यदा ह्यन्यथैवोपपन्नमन्यथाऽनुपपन्नमिति मन्यते तदाऽस्य विपर्ययो, न त्वन्यथेति / तथापि कथमत्र व्याप्तिोतेति चेत् / यदाऽ. हमिह तदा नान्यत्र, यदान्यत्र तदा नेहेति सर्वप्रत्यक्षसिद्धमेतत् , का तत्रापि बोधनी। गेहासत्त्वमिति यावत् , तदेतदाह एवम् इति(१)। तीयं साध्येन सहैव साधनेन भवितव्यमित्यन्वयव्याप्तिरेवोक्ता भवेदित्याह सेयम् इति / न वयम् इति / ज्ञातस्यैवाविनाभावस्यानुमानसामग्रीत्वादिति भावः / न इति / अनुपपत्तिश्चाविनाभाव एवेत्युक्तमिति भावः / अर्थापत्त्याभासेति / ज्ञानस्य हि हेतुत्वे तदोषाद्विपर्ययः संभवतीति / गृहाभावबहि वयो=धिकरणत्वादुम्रहा व्याप्तिरित्याशयेन पृच्छति तथापि इति / क्वचित्सत्त्वस्य ततोऽन्यत्रासत्त्वेन क्वचिच्चासत्त्वस्य ततोऽन्यत्र सत्त्वेन व्याप्तेः सर्वेषां स्वात्मन्येवैकस्मिश्च धर्मिणि सुग्रहत्वेन न काचिदत्र कथन्तेत्याह यदाहम् इति / ननु कथमेकत्र स्थितेन ततोऽन्यत्र स्वात्मनोऽभावः शक्यावगमः तेषां देशानामेवाप्र प्रकाशः। व्यतिरेकव्याप्तिरेवेत्यर्थः / सेयमिति / वहिनेव धूमं बहिःसत्त्वेन गेहासत्त्वं क्रोडीकृत्य स्थातव्यमतो धूमे सति वह्निर्भवत्येवेतिवत् सति गृहासत्त्वे जीवप्तो बहिःसत्त्वं भवत्येवेति अन्वयव्याप्तिरेवेत्यर्थः / अर्थापत्तौ कल्प्यकल्पकयोाप्तिः सत्यपि न ज्ञाता कल्पनाङ्गमिति नेयमनुमानमित्याह न वयमिति। एवं सत्यनुपपत्तिज्ञानं विनापि कल्पना स्यादिति तज्ज्ञानमावश्यकमित्याह अनुपपत्तोति / व्याप्तिज्ञानं विनानुपपत्तेरज्ञानादित्यर्थः / सत्तावस्थितव्याप्त्यैव कल्पनेऽन्यथोपपन्नेऽप्यनुपपत्तिधिया उपपादककल्पना न स्यादित्याह-अर्थापत्त्याभासेति। विपर्यय इति / उपपादककल्पनरूपो भ्रम इत्यर्थः / न च दोषादेव भ्रमः प्रमाप्रतिबन्धश्च, स्यादिति वाच्यम् / यत्र भ्रमस्तत्र वस्तुतो व्याप्तिरेव नेति व दोषः सहकारी स्यादित्याशयात् / यदाऽहमिहेति / यद्यध्यन्वये जीविगृहासत्त्वं व्याप्यं व्यापकं च बहिःसत्त्वं, विपर्यये तु बहिरसत्त्वं व्याप्यं गृहसत्त्वं च प्रकाशिका। नन्वेवमपि व्याप्तिज्ञानं नायातमित्यत आह व्याप्तिज्ञानं विनेति / उपपादकेति / उपपादकत्वामिमतेत्यर्थः / क दोष इति / त्वया स्वरूपसत्या एव व्याप्तेः कल्पनाङ्गत्वाभ्युपगमाद् दोषस्य च कल्पकनिरपेक्षस्य कल्पनाङ्गत्वाभावादिति भावः / यद्यपोति / प्रकृते विवक्षितमिति मकरन्दः। नन्वेवमपि व्याप्तिज्ञानं नायातमत आह व्याप्तिज्ञानं विनेति / उपपादकेति / उपपादकस्वाभिमतकल्पनेत्यर्थः / क्वेति त्वया स्वरूपसद्याप्तरेव कल्पनाऽङ्गत्वेनाभ्युपगमादिति भावः / यद्यपोति / अत्र, प्रकृते विवक्षितमिति शेषः / वेपरीत्येऽपि व्याप्यव्यापकभावसम्भवादिति ध्येयम् / (1) एतदनुसारेण मूले 'अतिप्रसंगात् एवं स्वभाव' इति पाठो द्रष्टव्यः। .