________________ तृतीयस्तवके] अर्थापत्तेर्बाधकत्वखण्डनम् / न चार्थापत्तिरनुमानतो भिद्यते, लोके तदसंकीर्णोदाहरणाभावात् , प्रकारान्तराभावाच। तथाहि अनियम्यस्य नायुक्ति नियन्तोपपादकः॥ न मानयोर्विरोधोऽस्ति प्रसिद्ध वाऽप्यसौ समः // 19 // जोवंश्चैत्रो गृहे नास्तीत्यनुपपद्यमानमसति बहिःसद्भावे तमापादयतीत्युदाहरन्ति / तत्र चिन्त्यते-किमनुपपन्नं जीवतो गृहाभावस्येति, न ह्यनियम्यस्यानियामकं विना किञ्चिदनुपपन्नम्। अतिप्रसङ्गात् / ननु स्वरूपमेव तद् न तावदहिःसत्त्वेन कर्त्तव्यं, तदऽकार्यत्वात् तस्य, स्थितिरेवास्य तेन विना न स्यादित्यस्य स्वभाव इति चेत् / एवं तर्हि तन्नियतस्वभाव एवासौ व्याप्तरेव व्यतिरेकसुखनिरूप्यायास्तथा व्यपदेशात् / कथं वा बहिःसत्वमस्योपपादकम् ? / न हि बोधनी। तदेवमर्थापत्तेः पृथक्प्रमाणत्वमङ्गीकृत्य बाधकत्वं निरस्तम् , इदानीमनुमानान्तर्भावात्तन्निरासेनैव निरस्तमित्याह न च इति / अनुमानागोचरस्य प्रमेयस्याभावात् सामग्रीभेदाभावाच्च ततो न भिद्यत इति / ननु व्याप्याद्वयाफ्कज्ञानमनुमानम् , अापत्तिस्त्वनुपपद्यमानादुपपादककल्पनं, ततः सामग्रीतो विषयतश्च भेद इत्याशङ्कयाह तथा हि इति / यद्धि येन नियम्यते तस्य तेन विनानुपपत्तिर्नान्यस्य, तथा येन यन्नियम्यते तदैव तस्योपपादकं नान्यत् , नियमश्च व्याप्तिरेव / ततश्चानुपपद्यमानोपपादकत्वाभ्यां व्याप्यव्यापकभाव एवाभिहितः स्यात् / अथ प्रमाणद्वयविरोधे सत्यविरोधापादनमापत्तिरिति चेत् , मैवं व्याहतं भाषिष्ठाः / न हि विरोधिनोईयोरपि प्रामाण्यं संभवति रज्जुसर्पज्ञानयोरिवान्यतरस्य मिथ्यात्वावश्यंभावात् ,प्रमाणयोश्च सतोर्विरोध एव नास्ति स्थूलः शुक्ल इति वद् द्वयोः समावेशसंभवात् / तस्माजीवतो गृहाभावात् बहिर्भावकल्पनमनुमानमेव व्याप्तिबलेन जायमानत्वात् , अन्यथानुमानतया प्रसिद्धे धूमादावपि असौ अनुपपत्तिः प्रमाणद्वयविरोधश्च, सम इति तदपि प्रमाणान्तरमापद्यतेति / व्याचटे जीवंश्चैत्रः इति / किमनुपपन्नं न किश्चिदिति / तदेवाह न हि इति / ननु इति / गृहाभावस्वरूपमेव बहिर्भावेन विनानुफ्पन्नमिति / तन्न तावत् इति / तत्स्वरूपमुत्पत्तौ तावन्न तेन विनानुपपन्नमिति / नन्वस्य गृहाभावस्य स्थितिस्तेन बहिर्भावेन विना नोपपद्यत इत्याह स्थितिरेव इति / हन्तैवं गृहाभावस्तेन बहिर्भावेन नियतस्वभाव इत्युक्तं स्यादित्याह एवं तर्हि इति / कुत इत्यत्राह व्याप्तरेव इनि / साध्येन विना नैव भवितव्यं साधनेनेति हि व्यतिरेकव्याप्तेर्व्यपदेश इति / द्वितीयं पादं व्याचष्टे कथं वा इति / नन्वयं स्वभावोऽस्य बहिःसत्त्वस्य यदनेन गेहासत्त्वं क्रोडीकृत्य स्थातव्यमिति, सत्येव बहिःसत्त्वे प्रकाशः। प्रकारान्तरेति // अनुमानप्रकारापेक्षया फलवैजात्याभावाद् व्यापारभेदाभावाच्च भिन्नप्रकाराभावादित्यर्थः // __अनियम्यस्येति // अनियम्यस्याव्याप्यस्य न अयुक्तिरयोगोऽनुपपत्तिापकमुपपादकं विना, अपि तु व्याप्यस्य व्यापकं विनाऽनुपपत्तिः / अनियन्ता चाव्यापको नोपपादकोऽपि तु व्यापकस्तथेत्यनुपपत्तौ व्याप्तिरस्त्येवेति तज्ज्ञानात् कल्पनमनुमानमेवेत्यर्थः / प्रमाणयोविरोधे चादि रोधायार्थापत्तिरिति मतान्तरं निरस्यति-न मानयोरिति // एवमनङ्गीकारे धूमादग्न्यनुमानमप्यर्थापत्तिरेव स्यादित्याह प्रसिद्ध वापीति / एवं तहीति / जीवतो गृहाभावस्थितिरेव बहिःसत्त्वेन विना नेति