________________ 418 व्याख्यात्रयोपेतप्रकासबोधनीयुते न्यायकुसुमाजलौ [ 18 कारिकाव्याख्यायां - बुद्धिपूर्ण हि प्रवृत्तिर्न बुद्धिमनुत्पाद्य शक्यसम्पादना, न च प्रकृते बुद्धिरप्युपदेशमन्तरेण शक्यसिद्धिः, तस्यैव तत्कारणत्वात् / भूतावेशन्यायेन प्रवर्तयेदिति चेत् / प्रवर्त्तयेदेव यदि तथा फलसिद्धिः स्यात् / न त्वेवम् / कुत एतदसितम् ? / उपदेशान्यथानुपपत्यैव / यस्यापि मते अदृष्टवशादेव भूतानां प्रवृत्तिस्तस्यापि तुल्यमेतत् / यद्यस्ति प्रवृत्तिनिमित्तमदृष्टं, किमुपदेशेन / तत एव प्रवृत्तिसिद्धः। न चेत् , तथापि किमुपदेशेन / तदभावे तस्मिन् सत्यष्यप्रवृत्तेः। नित्यः स्वतन्त्र उपदेशो न पर्यनुयोज्य इति चेत् / यूयं पर्यनुयोज्याः? ये तमवधानतो धारयन्ति विचारयन्ति चेति // 18 // बोधनी। ज्योतिष्टोमादेः स्वर्गादिसाधनत्वविषया प्रमा भवति, तदभावे च तत्रास्मदादीनां प्रवृत्तिः सिध्येदुपदेशश्च नोपदेष्टारं विनेति / ततस्तत्सिद्धिरितरथाऽयमनुयोगप्रकारकर्मवशाद् भूतानां प्रवृत्तिरिति पक्षे सुलभः कर्मण एव प्रवृत्तिसिद्धेः किमुपदेशेनेति // बुद्धिपूर्वा इति / न हीश्वरोऽपि वस्तुस्वभावातिक्रमेण प्रवर्त्तयतीति प्रकृतज्योतिष्टोमादेः स्वर्गादिसाधनत्व इति / ननु यथा पिशाचादयः प्राणिन आविश्याबुद्धिपूर्वकमेव प्रवर्त्तयन्ति तथैवायं किमिति न प्रवर्तयेदित्याह भूतावेशेति / अबुद्धिपूर्वकत्वमनुतिष्ठतां फलाभावान तथा प्रवर्त्तयतीत्याह प्रवर्तयेदेव इति / अबुद्धिपूर्वानुष्टाने फलाभाव प्राप्तोपदेशान्यथानुपपत्तेरेवावसेय इति तुरीयं पादं व्याचष्टे यस्यापि इति / तुल्यतामेवाह यद्यस्ति इति / न हि सत्यपि कारके ज्ञापकाभावेन कार्य निवर्त्तत इति / तदभावे इति / न हि कारकाभावे ज्ञापकसंभवेन कार्य भवतीति नित्य इति पर्यनुयोज्यस्तु कर्ता नास्तीति भावः / तथापि निरर्थकमिममुपदेशं धारयन्तः तदर्थं च विचारयन्तो यूयं मीमांसकाः पर्यनुयोज्या इत्याह यूयम् इति // 18 // .. प्रकाशः। प्रवर्तयेदेवेति / विधिवाक्येन स्वर्गकामप्रवृत्तिर्हि स्वर्गसाधनमिति बोधनाद् भूतावेशन्यायेन जनिताऽपि प्रवृत्तिर्न स्वर्गसाधनमित्यर्थः / उपदेशान्यथानुपपत्त्या गत्यन्तरेणापि प्रवर्त्तनमशक्यमित्यवधार्यते इत्याह उपदेशेति / वेदादात्मश्रवणस्यापि मोक्षहेतुत्वाद्वेदरूप उपदेश आवश्यकः, प्रतिपुरुषं भूतावेशादुपदेश एव लघीयानिति भावः / यग्रस्तीति / न चादृष्टमप्युपदेशात् प्रवृत्तौ स्यादिति वाच्यम् / उपदेशं विनाऽपि पूर्वादृष्टवशादेव यागादौ प्रवर्तेत, तददृष्टमप्युपदेशमन्तरेण पूर्वप्रवृत्येवेत्याशयात् / यूयमिति / न च वेदधारणविचारणयोरदृष्टजनकत्वश्रुतेरदृष्टार्थतया तयोरुपपत्तिः स्यादिति वाच्यम् / प्रवृत्यर्थमपि तदुभयकरणादिति भावः॥१८॥ प्रकाशिका। मोसादनार्थमित्यर्थः / नन्वेवं प्राप्तोपदेशकवेदादन्य उपदेशो वेदरूपः किमर्थमत आह प्रतिपुरुषमिति // 18 // मकरन्दः। उपदेशः कथमित्यत आह प्रतिपुरुषमिति // 18 // टिप्पणी। प्रवृत्त्यर्थमपि तदुभयकरणादितीति / स्वर्गकामो यजेतेत्यादौ कामनाया अपि स्वर्ग साधनत्वश्रुतेः कामना च नेष्टसाधनत्वज्ञानं विना तच्च नोक्तोपदेशं विना तदर्थस्थालौकिकत्वादिति प्रवृत्तावायातमुपदेशापेक्षणमिति भावः // 18 //