________________ - - - तृतीयस्तव अर्थापत्तधिकत्वखण्डनम् / न हासत्त्वपक्ष एवागमो नियतः। ईश्वरसद्भावस्यैव भूयःसु प्रदेशेषु प्रतिपादनात् / तथा चाग्रे दर्शयिष्यामः / तथा च सति क्वचिदसत्वप्रतिपादनमनेकान्तं न बाधकम् / सत्वप्रतिपादनमपि तर्हि न साधनमिति चेदापाततस्तावदेवमेतत् / यदा तु निःशेषविशेषगुणशून्यात्मस्वरूपप्रतिपादनार्थत्वमकर्तृकत्वागमानामवधारयिष्यते, तदा न तनिषेधे तात्पर्यममीषामिति सत्वप्रतिपादकानामेवागमानां प्रामाण्यं भविप्यतीति / न च तेषामण्यन्यत्र तात्पर्यमिति वक्ष्यामः॥ 17 // . अस्वथ पत्तिस्तहिं बाधिका, तथाहि-यद्यऽभविष्यन्नोपादेक्ष्यद्, न ह्यसावनुपदिश्य प्रवर्त्तयितुं न जानाति, अत उपदेश एवान्यथानुपपद्यमानस्तथाविधस्याभावमौदासीन्यं वाऽऽवेदयति / न / अन्यथैवोपपत्तेः-- हेत्वभावे फलाभावात् प्रमाणेऽसति न प्रमा / / तदभावात् प्रवृत्तिों कर्मवादेऽप्ययं विधिः // 18 // बोधनी। उक्तं न चासौ इति / सत्त्वावेदकस्य नान्यत्र तात्पर्यमिति पञ्चमे वक्ष्याम इति / न हीत्यादिविवर णग्रन्थो गतार्थः // 17 // __ अथार्थापत्तेर्बाधकत्वं निराचिकीर्षुः शङ्कते अर्थापत्तिस्तर्हि इति / असौ सर्वज्ञः सर्वकर्ता वेदाननुपदिश्यैव ज्योतिष्टोमादौ पुरुषान् प्रवर्त्तयितुं कलञ्जभक्षणादिभ्यश्च निवर्तयितुं शक्नोत्येवेति तदर्थस्तस्योपदेशो व्यर्थ इति / नान्यथेति / जगत्कर्तुः सत्व एवोपदेशस्योपपत्तेः नासत्व इति / तदेवोपपादयन्नाह हेत्वभावे इति / न तावदसति हेतौ फलस्यासंभवादसत्युपदेशात्म के प्रमाणे प्रकाशः। उत्तरार्द्व व्याचष्टे यदा त्विति // 17 // अर्थापत्तिवाधकत्वमुपन्यस्य निराकरोति अरित्वति / न घसाविति / असार्वज्ञ्यापत्तेरिति भावः / हेत्वभावे इति / कारणाभावे कार्याभाव इति सामान्यव्याप्तौ कारणविशेषप्रसाणाभावे कार्यविशेषप्रमा न स्यादित्यर्थः / तदभावेऽनिष्टमाह तदभावादिति / इच्छाद्वारा प्रमाजन्या प्रवृत्तिरस्मदादीनां नेश्वरेण कारयितुं शक्या, ततः प्रवर्त्तनीयप्रमोत्पादनाऽर्थमव श्यमुपदेश. इत्यर्थः / प्रमाया अभावेऽप्यदृष्टादेव प्रवृत्तिः स्यात् किं वेदेनेति मतेऽप्युपदेशानर्थंक्यमेवादृष्टादेव प्रवृत्तेरित्याह कर्मवादेऽपीति / / प्रकाशिका। असार्वइयत्वापत्तरिति / उपदेशं विनापि यः प्रवर्तनोपायः, तस्याज्ञानादित्यर्थः / प्रथमपदवैयाशङ्कायामाह सामान्यव्याप्ताविति। तथा च विशेषव्याप्तिसाधकत्वेनैव सामान्यव्याप्तिरुपन्यस्तैत्याशयः / शक्या इति / उपदेशं विनेति शेषः / उपदेशपदं विनापि सामान्यलक्षणादिजन्यप्रमाद्वारा प्रवृत्तिं कारयितुं शक्यते एवेतीच्छाद्वारेति पूरणविशेषणं स्वीकृतम् , इच्छा चेष्टसाधनस्वादिप्रकारव ज्ञानसाध्येति नोक्तदोषः / प्रमोत्पादनार्थमिति / इष्टसाधनत्वादिप्रकारकप्र मकरन्दः। असाळ्यापत्तरिति / उपदेशं विना प्रवर्तकत्वस्याज्ञानादित्यर्थः / प्रमाणपदवैयर्थ्यमाशशङ्कयाह कारणाभाव इति / तथा च प्रमाणाभावेनेत्यपि मूलं सामान्यव्याप्तिविषयमित्यर्थः / इच्छाद्वारेति / उपदेशं विनेति शेषः / इच्छाद्वारेति पूरणं यद्यप्यफलं, तथापि प्रमामात्रं सामान्यलक्षणादिभिरप्युपपद्यते इतीच्छाजनकं यागादेरिष्टसाधनत्वज्ञानमुपदेशं विना नेत्याशयेन तदुक्तम् / प्रवर्तनीयेति / इष्टसाघनत्वादिप्रकारकयागादिप्रमोत्पादनार्थमित्यर्थः / नन्वेवमपि वेदान्तररूप 53 न्या० कु० प्रकाश