________________ 416 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमावलौ [15 कारिकाव्याख्यायां यदि हि सर्वज्ञकर्तीभावावेदकः शब्दो नातोक्तः, न तर्हि प्रमाणम् / अथातोऽस्य वक्ता, कथं न तदर्थदर्शी। अतीन्द्रियार्थदर्शीति चेत् / कथमसर्वक्षः कथं वान कर्ता / आगमस्यैव प्रणयनात् / न च नित्यागमसम्भवो विच्छेदादित्यावेदितम् 16 अपि च-- न चासौ कचिदेकान्तः सत्वस्यापि प्रवेदनात् / / निरञ्जनावबोधार्थो न च सन्नपि तत्परः॥१७॥ बोधनी। बाघकस्तस्याप्रमाणत्वात् / अथातोक्तस्तहि तदर्थदर्शिना तेन भवितव्यं, यदि चातीन्द्रियमागमार्थ दृष्ट्वा तं प्रणयेत्स तर्हि सर्वज्ञः कर्ता च स्यात् , न च नित्य एवागमो बाधकः सर्गप्रलयसंभवेन तस्यापास्तत्वादिति निगदव्याख्यातं व्याख्यानमिति // 16 // - बाधकं शब्दमभ्युपगम्याप्याह अपि च इति / न चासावागमो जगत्कर्तुरसत्व एव नियतः सत्वस्यापि तेन प्रतिपादनोपलम्भात् , ततश्च नानियतत्वात्तेनासत्त्वसिद्धिः, तहिं तत एव सत्वमपि न सिव्येदित्यत उक्तं निरञ्जननेति / चेतनस्याकर्तृत्वप्रतिपादक आगमो विशेषगुणलक्षणाजनरहितात्मस्वरूपप्रतिपादनार्थत्वेनान्यपरत्वानासत्वमावेदयति / तर्हि सत्वप्रतिपादकोऽप्यन्यपरः स्यादत प्रकाशः। सर्गप्रलययोः साधितत्वादित्याह / न चेति // 16 // न केवलं तत्र बाधकाभावा, अपि तु द्यावाभूमी जनयन् देव एक इत्यादिश्रुतयः साधिका अपि सन्तीत्याह न चासाविति / शब्दयोमिथः प्रतिबन्धादपि न बाध इत्याह निरञ्जनेति / बाधकत्वाभिमत आगमः, आत्मनो यन्निरञ्जनत्वं विशेषगुणशून्यत्वं तद्ध्येयमित्येवम्परो, न त्वकर्तृत्वबोधनपर इत्यर्थः। प्रकाशिका। सर्गप्रलययोरिति / सर्गेति सम्पातायातम् नित्यत्वं हि वेदस्य न व्योमादिवद् वाच्यम् , वर्णनित्यत्वेऽप्यनित्यानुपूर्वीघटितत्वात् , किन्तु प्रवाहनित्यत्वं तत्र चेदं दूषणमित्यवधेयम् // 16 // शब्दयोरिति / यद्यपि मिथः प्रतिबन्धेन बाधो न भवत्येव / तथापि बाधपदेनात्र प्रतिबन्ध एवोक्तः, विशेषगुणशून्यस्वमिति / अनित्यविशेषगुणशून्यत्वमीश्वरस्येत्यर्थः // मकरन्दः। सर्वविषयत्वमिति / तथा च तस्य जगकर्तृत्वं न्यायप्राप्तमित्यागमोऽन्यपरइत्यर्थः / सर्गप्रलययोरिति / अत्र सर्गेति सम्पातायातम् / प्रलयेऽपि व्योमादिवन्नित्यागमसत्त्वे न विरोधः, तथापि वर्णनित्यत्वेऽप्यानुपूर्वीघटितस्यानित्यत्वात् प्रवाहनित्यत्वात् प्रवाहनित्यत्वं वाच्यं, तत्रेदमुतरमिति भावः // 16 // शब्दयोरिति / यद्यपि मिथः प्रतिबन्धाद् बाघो न भवत्येव, तथापि बाधो न दोष इत्यर्थः / साधकागमस्येति शेषः / बाधकःवाभिमतागमस्यान्यार्थपरतया विरोधाभावेनाप्रतिरोधकत्वा. दिति भावः॥ टिप्पणी। सामार्थ्याभावात् चेतनस्य कर्तृत्वाभावे लिहस्य व्यभिचारादितोऽभावादुक्तवाक्यार्थज्ञाननित्यमुपेयमित्यर्थः / सर्वविषयत्वमर्थसिद्धमिति। सर्वज्ञसिद्धौ तदभावपर उक्तागमः, प्रमाणत्वाय प्रथि: तव्य इत्यर्थः // 17 //