________________ 413 तृतीयस्तवके] . शब्दस्य बाधकत्वखण्डनम् / वाप्तस्य संसर्गपरतया पदसमभिव्याहारमात्रेण, न स्वन्यथा। अन्यथा तु गुरुमतविदामेव श्लोक प्राप्तपदप्रक्षेपेण पठनीय: प्राथम्यादभिधातृत्वात् तात्पर्योपगमादपि / आप्तानामेव सा शक्तिवरमभ्युपगम्यताम् // इति // तस्मात् प्रकारान्तरेण संसर्गप्रत्ययो भवतु मा वा, पदार्थानामाकाङ्क्षादिमत्त्वे सति अभिहितानामवश्यमन्वय इति कुतोऽतिप्रसङ्गः। __ न चैवं सति पदार्था एव करणं, तेषामनागतादिरूपतया कारकत्वाऽनुपपत्तौ त द्विशेषस्य करणत्वस्यायोगात्। तत्संसर्गप्रमाणान्तरासंकीर्णोदाहरणाभावाच्च / बोधनी। अन्यथा तु इति / तथा पठति प्राथम्यादित्येतदुक्तं भवति / पदार्थेभ्यः पदानां प्राथम्यात्तेषामभिधातृत्वस्य च संप्रतिपन्नस्वादभिहितान्वयवादिभिरपि तेषां वाक्यार्थे तात्पर्यस्य चाभ्युपगमादन्वयं प्रति पदानामेव शक्तिरभ्युपगम्यतां न पदार्थानामिति हि श्लोकेन प्रतिपायते / तत्र ययाप्तानां समभिव्याहारयोग्यपदोच्चारणव्यतिरेकेण पदेषु शक्तयाघानमप्यङ्गीक्रियते तदा पदेभ्य प्राप्तानामेव प्राथम्यादित्यादिहेतुभिः अन्वयप्रतिपादने शक्तिरङ्गीक्रियतां न पदानामिति / / तदेवं यतः कुतश्चिदपि प्रतीतेरन्वयप्रतीतिरस्त्येवेत्युक्तं, संप्रति नास्माकमत्र निर्बन्धः पदाभिहितानामन्वयप्रतीतिरित्येतावतवास्मसिद्धान्तसिद्धेस्तत्र चातिप्रसङ्गाभावादित्युपसंहारव्याजेनाह तस्मात् इति / नन्वेवं वाक्यार्थबुद्धौ,पदार्थानामेव कारणत्वापत्तेः अशान्दो वाक्यार्थः स्यादित्यत्राह न चैवम् इति / पूर्वभावनियमो हि कारणत्वं, तत्कथं संसर्गप्रत्ययपतितानामनागतानां पदा नां भवेत् , दरे च कारणत्वविशेषः करणत्वमिति। न च शब्दादिप्रमाणव्यतिरेकेण पदार्थेभ्य एवान्वयप्रतीतिः क्वचिदपि दृश्यते येन पदार्थानामेव हेतुत्वं भवेदित्याह प्रमाणान्तरेति / प्रकाशः। तत् किं न स्यादित्याह अन्यथेति / पदानामेवेति गुरुमतश्लोके बिशेषः / सा शक्तिरन्विताभिधाने शक्तिरित्यर्थः। . ..तस्मादिति / कविकाव्यस्थले मनसोत्प्रेक्षासहितेषु चिन्तावशोपस्थितेषु पदार्थेषु क्वचिद्दोषव. शात् क्वचिदनुमानात् संसर्गज्ञानमसंसर्गाग्रहो वा भवतु, यत्र तु शब्दादाकाङ्क्षायुपेतपदार्थोपस्थितिस्तत्र पदार्था एव करणम् / शाब्दी माकाक्षा शब्देनैव पूर्यते इति न्यायाच्च न शब्दं विना प्रकारान्तरोपस्थितपदार्थानां शब्दोपस्थापितपदार्थैरन्वयबोध इत्यर्थः / तदेवं भमुखेन प्रभाकर निराकृत्य पदार्थकरणत्वसिद्धान्तं निराकरोति न चैवमिति / तत्संसर्ग इति / पदं विना यत्र पदार्थज्ञानात् संसर्गज्ञानं, तत्र यथायथं मानान्तरसत्वान्न पदार्थानां प्रकाशिका। दोषवशादिति / मानसं ज्ञानमिति शेषः / इदं च सर्वमभ्युपगमवादेन मूलकृतोक्तमिति वर्द्धमानोऽपि यथाश्रुतमेव व्याख्यातवान् / तात्पर्यन्तु मूलव्याख्यायामेवोक्तम् / तदेवमिति / प्राभाकरोक्तातिप्र. सानिराकरणश्च नैयायिकेन तात्पर्यगत्यैव कृतम् , यच्च तात्पर्य मया प्रागेवोक्तं व्यभिचारिजातीयत. येत्युपलक्षणम् निर्व्यापारत्वाच्चेत्यपि द्रष्टव्यम् / ननु पदज्ञानमपि न कारणमुत्प्रेक्षास्थले व्यभिचारात् , न चतत्र मानसमेव ज्ञानं, प्रकृतेऽपि तथासम्भवेन कल्पनीयप्रमाणभावस्य पदज्ञानस्य कारणत्वाकल्प मकरन्द। पदज्ञानमपि न करणं,ौत्प्रेक्षिकान्वयानुभवे व्यभिचारात्। किञ्च क्लुप्तप्रमाणभावेन मनसा पदार्थस्मरण टिप्पणी। तोक्त इत्यविशयानुकूला शक्तिराप्त एव स्वीकार्या वाक्यार्थधीश क्तिश्च पदे इति शक्तित्रयम् / नचै