________________ - 412 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलौ [15 कारिकाव्याख्यायो विशेषः। प्रथमे अभिहितान्वयवादिनामिव तवापि शक्तिकल्पनागौरबम् / द्वितीये तु वक्तुरिव पदानामध्यवच्छेदकतयैव विशेषकत्वमस्तु / एवं तर्हि पदानामध्यन्वय प्रतीतावस्त्युपयोगः। कः सन्देहः / परं पदार्थाभिधानेन, न त्वन्यथा। यथा तवै. बोधनी। मतान्वथसिद्धान्तसिद्धिरित्याशयेन पृच्छति एवं तर्हि इति / गूढाभिसंधिराह का संदेह इति / तयन्वितामिधानमेवाङ्गीकृतं स्यादित्याशझ्याभिसंधिमुद्घाटयन्नाह परम् इति / अन्वयोद्देशेन पदार्थाभिधानेन पदानामुपथोगो न त्वन्विताभिधानेनेति / यद्याप्तानामन्वयप्रतीतावप्युपयोगः तदा शालिकानाथस्याय प्राथम्यादभिधातृत्वात्तात्पर्योपगमादपि / पदानामेव सा शक्तिवरमभ्युपगम्यताम् // इति श्लोकः पदानामिति पदं प्रतिक्षिप्य तस्य स्थान प्राप्तानामितिपदं प्रक्षिप्य पठितव्यमित्याह प्रकाशः। पदनिष्टातिशयाधानकल्पने यथा पदानां स्वार्थाभिधाने शक्तिस्तत्रान्वयधीहेत्वतिशयाधानशक्तिश्चेत्यऽभिहितान्वयपक्षे गौरवं, तद्वत्तवाप्तानां पदोच्चारणशक्तिः पदनिष्टातिशयाघानशक्तिर्वा. क्यार्थधीशक्तिश्चेति गौरवमापतितमित्याह प्रथम इति / अन्त्ये, ममापि पदैन पदार्थे शक्तिरा: धीयते, किन्तु पदोपस्थापितत्वमेवाप्तोक्तत्वमिव विशेषः स्यादिश्याह द्वितीये विति। नन्वेवं पदानामेव वाक्यार्थवाचकत्वे सिद्धमन्विताभिधानमित्याह एवं तीति / त्वन्मते यथाऽऽप्तानां पदोच्चार• णमात्रे हेतुत्वं नान्वयबोधे, तथा ममापि पदानां पदार्थोपस्थापनमात्रे हेतुत्वं पदार्था एवाकाक्षायुपेता अन्वयबोधका इत्याह का सन्देह इति / तदाहुः... न विमुञ्चन्ति सामर्थ्य वाक्यार्थेऽपि पदानि नः। यज्ज्वलन्ति हि काष्टानि तत् किं पाकं न कुर्वते // इति // न तु वाक्यार्थवाचकत्वेन / तथा सति त्वन्नयेऽप्याप्तानां तद्वाचकत्वापत्तेरित्याह न विति। एवञ्च प्राथमिकत्वाद् यदि पदानामन्वयबोधे करणत्वमापायते, तदाऽऽप्तानामेव तथात्वात् तेषामेव प्रकाशिका। वित्यर्थः / अभिहितान्वयपक्षे भपक्षे गौरवं प्राभाकरेण त्वयोक्तमिति शेषः। प्रयोजकत्वे वृद्धसम्म तिमाह = न विमुञ्चतीति / सामर्थ्य = तादृशंस्य पदार्थोपस्थितिजननेन प्रयोजकत्वम् / ___ मकरन्दः। - यथा पदानामिति। यथा पदानां स्वार्थाभिधानशक्तिस्तत्र पदेष्वन्वयधीहेत्वभिधाऽऽख्यातिश याधानशक्तिर्वाक्यार्थधीशक्तिश्चेत्यभिहि-तान्वयवादिनो मम भट्टस्य पने गौरवं त्वयोच्यते, तथा तवाप्तानां पदोच्चारशक्तिः पदनिष्ठातिशयाधानशक्तिर्वाक्यार्थधीशक्तिश्चेति शक्तित्रयगौरवमिति भावः / तथा ममापीति। तथा च पदानां प्रयोजकत्वमा न तु हेतुत्वमिति भावः। प्रयोजकत्वे प्राचीनसम्मतिमाह नविमुञ्चतीति। व्यभिचारजातीयतयेत्युपलक्षणं, निर्व्यापारत्वादित्यपि द्रष्टव्यम्। ननु पदार्थस्मरणवत् टिप्पणी। दने निरुक्तसन्दर्भण पदस्य विशेषणत्वप्रतीतो कविकाव्यस्थले कवेस्तब्द्धेतुशब्दोपपादनासम्भवात् / तत्रान्वयधीहेत्वतिशयाभिधान इति / उपस्थिते पदादेव वाक्यार्थान्वयघीहेतुः शक्तिर्न कुतः प्रत्यक्षादित इति पद एव तादृशशक्तयनुकूला शक्तिर्न तत्रेत्यपि स्वीकरणीयम् इति शक्तित्रयमावश्यकम् / प्राप्ताना पदोच्चारणशक्तिरिति / वाक्यार्थान्वयधीहेतुंपदं कुतो नानाप्त उद्भावयतीत्युच्चारणानुकूलशक्तिराप्ते स्वीकार्या, आप्तो चरित एव तत्र पदे कुतोऽन्वयबोधानुकूलोऽतिशयो न बना.