________________ तृतीयस्तबके ] शब्दस्य बाधकत्वबण्डनम् / स्सदाभासा पा सम्भवम्ति, अन्यत्र चिन्तायशेन पदार्थस्मरणेभ्यः। प्रसंसर्गानहोऽसाविति चेत् / मम तावत् संसर्गग्रह एवालौ। तवाऽपि सैव पदावको कचि. दन्वये पर्षवस्यति क्वचिदनग्वयाग्रहे इति कुतो विशेषात् / प्राप्तानातवक्तृकतयेतिचेत् / किं तथाविधेन वक्त्रा तत्र कश्चिद्विशेष अाहितः ? आहो वक्तवावच्छेदकतया बोधनी। प्रतीतिरित्याह कुतस्तर्हि इति / न युत्प्रेक्षिते संसर्गे कर्तुः प्रत्यक्षादीनि तदाभासा वा संभवन्ति / स्मृता एव पदार्थास्तत्र कारणम् / यथा चाहुःपश्यतः श्वेतमारूढं हेषाशब्दं च शृण्वतः / खुरनिष्पेषशब्दं च श्वेतोऽश्वो धावतीति धीः // इति / असंसर्ग इति / तेन न शब्दव्यभिचार इति / मम इति / तेन यतः कुतश्चिदपि स्मृतैरन्वयप्रतीते निष्टप्रसङ्ग इति / न वापि बिशेषहेत्वभावेनायं विभागो युज्यत इत्याह तवापि / इति विशेषहेतुमाह प्राप्त इति / विकल्प्य दूषयति किम् इति / तथाविधेनाप्तेन वक्त्रा तेषु पदेष्वन्वयपर्यवसानानुगुणः कश्चिदतिशय आधोयते किमाप्तवक्तृत्वमेव वा तेषां विशेषः ? प्रथमे यथाभिहितान्वयवादिनां पदार्थप्रतिपादनानुगुणपदगतशक्तिव्यतिरेकेण पदप्रतिपादितानामेव पदार्थानां वाक्यार्थप्रत्यायनदर्शनात्तेष्वपि पदाधेया शक्तिरङ्गीकर्तव्येति गौरवमापद्यते तथा भवतोऽपि पदान्तरसाधारणशक्ति. व्यतिरेकेणाप्तीक्तेषु पदेष्वन्वयप्रतीत्यनुगुणस्याप्तेनाधीयमानस्यातिशयस्याभ्युपगमाद् गौरवम् / द्वितीये तु यथा तव वक्तुरवच्छेद्रकत्वेन पदविशेषत्वं तथा ममापि पदानां पदार्थावच्छेदकत्वेनैव विशेषकस्वमस्तु न चातिशयाधानेनेति / यदि प्रतिपादितत्वविशेषेण पदार्था वाक्या गमयेयुः तर्हि नाभि . प्रकाशः। असं सर्गेति / उत्प्रेक्षादिवशाद्वाक्यार्थासंसर्गाग्रहः काव्यरचनाहेतुरित्यर्थः / ममेति। मया परैरप्रतिपादितानामपि पदार्थानां संसर्गप्रमोत्पादकत्वाभ्युपगमानासंसर्गाग्रहस्तत्र हेतुरित्यऽर्थः / त्ववाप्येतदभ्युपेयं, गत्यन्तराभावादित्याह तवापीति / गुरोरपीत्यर्थः / उच्चारणमात्रकर्तृत्व तत्र विशेष इत्यर्थः / यद्याप्तेन तेषु पदेषु कश्चिद्विशेषो नाहितः, तदा नाप्तोक्तान्यन्वयबोधकानि स्युरित्याप्तेन प्रकाशिका। वेति न तत्रान्वयबोध इत्यर्थः / एतदिति। पदानां पदार्थोपस्थापकत्वमात्रमित्यर्थः। तवापीतीति / संसर्गज्ञानजनताकनियामकत्वं यथा तवाप्तोक्तत्वस्य तथा ममापि पदार्थोपस्थितौ पदजन्यत्वस्येति भवदुक्तातिप्रसाभावात् नान्वये त्वदुक्तयुक्त्या पदशक्तिरिति मूलप्रघट्टकार्थः / नन्वेवं कविकाव्यस्थले शाब्दं ज्ञानं स्यादिति भस्यापसिद्धान्त इत्याशङ्कायामप्रे मूलं तस्मादिति / तुष्यतु दुर्जन इति न्यायेनैव तदुक्तमुद्देश्यपदार्थोपस्थापकत्वमात्रस्य तावतापि सिद्धेः / वस्तुतः साकांक्ष. पदार्थोपस्थितित्वेनैव कारणतेति तत्रापि शाब्दमेव ज्ञानमिति तस्य मूलस्याशयः। केचित्तु सैव पदावली कविदन्वयग्रहपूर्विका क्वचिदनन्वयाग्रहपूर्विकेति परस्परव्यभिचारात् , कथं तयोश्च कारणतेतिसवापीति फक्किकार्थमुक्त्वा तदनुसारेण मूलप्रकाशौ व्याख्यातवन्तः। ते भ्रान्ताः / तथा सत्याप्तानातेत्यादिफक्किका कार्यतावच्छेदकविशेषोक्तिपरत्वेन योज्येति "प्राप्तानामेव सा शक्तिरि"त्यायमुयोगस्य प्राभाकरं प्रत्यसतत्वापातात् , आप्तस्य कारणकोटिनिवेशे हि सा शोमेतेति नचेत्सा परिभावनीया प्रकाशोऽपि बहुषु स्थलेषु तथा सति विरूद्वयत इति संक्षेपः। तत्रान्वयेऽपि / पदार्थोपस्थिता . मकरन्द। त्वयापीति / अन्यथा क्वचिदन्वयधीपूर्वकत्वं कचिदनन्वयाग्रहपूर्वकत्वमिति व्यभिचारापत्तरिति भावः / टिप्पणी। संसर्गप्रमोत्पादकत्वाभ्युपगमाविति / प्रमेति सम्पातायात बोधेति वक्तव्यम् गत्यन्तराभावादित्याह तथापीतीति। तवापीत्यादिसन्दर्भस्य निगूढोऽयमभिप्रायः व्यक्तस्तु पदार्थे पदस्य विशेषणस्वाभ्युवगमात् प्रत्यक्षोपस्थितितान्वयबारोऽन्वितभिधाननिराकरण एव यातः, नन्वमतनिगर्वप्रतिपा