________________ 410 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुल्लुमाजखौ [15 कारिकाव्याख्यानं - बोधनी। नन्माकाङ्क्षादित्रयोपेतपदार्थान्तरान्वित एवार्थे संगतिरिति बमः, तत्रास्त्येव विवाद इत्याह अम्बित इति / विस्मरणमेवात्रापराध्यतीत्याह उक्तम् इति / अथ संभावितसकलदोषपरिहारेण प्राभाकरः प्रत्यवतिष्ठते स्मृतेति चेदिश्यन्तेन / पदान्तरस्मृतेन प्रतियोगिमात्रेण कारकेण क्रियया वाऽन्क्तेि स्वार्थे क्रियायां कारके वा संगतियते न तु विशेषाम्विते, तथा च सर्वेष्वपि वाक्येषु तथात्वाविशेषात् संगतिहोता स्यादिति, ततश्च न तावद्वाक्यार्थस्यापूर्वस्वदोषः पदार्थस्मृत्युत्तरकालभावित्वा तबन्धयप्रतीतेः क्रमभावोऽपि संगच्छत इति तर्हि कारकपदस्य क्रियाप्यर्थः क्रियापदस्यापि कारकमिति तयोः पर्यायता स्यादित्यत्राह नापि इति / श्रोदनमिति कारकपदमोदनत्वं निमित्तीकृत्य स्वेन रूपेणौदनमभिधत्ते, श्रोदनं तु तत्प्रतियोगित्वमात्रेण, ततश्च स्वरूपाभिधानलक्षणस्य प्राधान्यस्य स्वार्थ एव नियतत्वान्न पर्यायतेति / यदि पदार्थस्यैवान्वितोऽर्थः तर्हि पदसंघातात्मनो वाक्यस्यापि म एवेति वाक्यार्थः पुनरुक्तः स्यादित्यत्राह नापि पौनरुक्तयम् इति / पदार्थविशेषविशिष्टेऽन्वये तात्पर्य वाक्यस्य, न त्वेवं पदस्येति / यद्वा क्रियाकारकपदयोः पौनसाथमाशङ्कय स्वार्थविशेषा. न्वयतात्पर्यमेदात्परिहारः। ननु क्रियाभिधाने सति तदन्वितं कारकमभिधेयं कारकंपदेन, तथा कारकामिधाने सति तदन्विता क्रियाभिधेया क्रियापदेनेतीतरेतराश्रयत्वं स्वादित्याह नापि इति / तथा स्यादयं दोषः ययभिहितेनार्थान्तरेणान्वितः स्वार्थोऽभिधीयते, न स्वे स्मारितेनान्वितस्याभिधानादन्वितस्वैव च स्मरणादिति / नन्वोदनं पचतीत्यत्र क्रियापदं कारकापेक्षं सत्समुच्चारितादन्येन मनादिनान्वितं स्वार्थ अभिदथ्यात् , एवमोदनमपि क्रियान्तरेणौदनमानयेत्यादिनान्वितमित्यर्थमेहावाक्यमेदः स्यादित्यत्राह नापि वाक्यमेद इति / संनिधेरप्यन्वयहेतुत्वान संनिहितमतिक्रममा ग्यदपेक्ष्यत इति / यद्वा अन्विताभिषायोनि पदानि प्रत्येकवाक्यानि भवेयुरित्याशङ्कय यदि परस्पर संस्कृती खनिहितानामन्योन्याकाक्षा न भवति तदा वाक्यभेदात् भवेत् ययाऽयमेति पुत्रो राशः पुरुषोऽपसार्यतानित्यत्र राजपुरुषयोर्यत्र तु स्मृतिसंनिहितानामन्योन्याकाक्षाऽस्ति यथा राज्ञः पुरु. बोउपसार्यतामित्येताबन्मात्रोच्चारणे राजपुरुषयोस्तथैकवाक्यतेति परिहारः। अथ सिद्धान्ती यावरसंभवं विकल्प्य दूषयति नान्विते इति / अन्क्तिमित्यत्रेतिशब्दो द्रष्टव्यः प्रकृतस्याम्विताभिधान. स्य यत्र रूपवति तद्वत्ता स्पर्शवत्ता तस्य चक्षुष अन्विते संगतिग्रह इत्यस्य प्रकृतोपयोगिनमर्थमा. शकृय प्रमाणाभावेन दूषयति अथ इति / ___ नन्वस्ति प्रमाणमर्थापत्तिरित्याह अन्वित इति / न इति / आकाक्षादिमत्सदार्थप्रतिसंचानादपथन्वितप्रतीत्युपात्तेरिति / ननु पचतोत्युक्ते किमोदनं तेमनं वेति कारकविशेषजिज्ञासा तावजायते, न चासावज्ञाते सामान्येऽवकल्प्यते तेन क्रियापदादेव कारकसामान्यान्वितां क्रियामयमज्ञासीदेवं कारकपदादेव क्रियासामान्यान्वितं कारकमित्यन्विते व्युत्पत्तिः कल्प्यत इत्याह ाकाला इति / न इति / क्रियाकारकयोरविनाभावेनेतरेतरसामान्याक्षेपादपि विशेषजिज्ञासोपपद्यते, न हि चक्षुषा रूपेडधिगते द्रव्ये रसविशेषजिज्ञासा भवन्ती रससामान्यस्य चाक्षुषस्वं कस्पयतीति / ननु यदि पदार्थमात्रपर्ववसितेषु पदेषु पदार्थेभ्य एवान्वयप्रतीतिः स्यात्तर्हि हेत्वन्तरप्रतीतेभ्योऽपि भवेन चैवमस्ति ततः पदान्येव यावदन्वयं गच्छन्तीत्याह शब्द इति / अस्त्येव हेत्वन्तरप्रतीतेभ्योऽपि पदार्थेभ्योऽन्वय प्रकाश। यबोधापत्तिः। शब्दोपस्थिते पदार्थे शब्दोपस्यापितपदार्थान्तरेणैवान्वयात् , शाब्दी याकारक्षा शब्देनैव पूर्यते इति न्यायात् / अत एव श्रुताथांपत्तिस्थलेऽपि शब्द एव करप्यते इत्यर्थः / प्रकाशिका। प्राभाकरमास्कन्दतीत्यर्थः, अन्विताभिधानवादिनं प्राभाकरं शब्दोपस्थित इति। खाकांक्षपदार्थोपस्थितित्वेन कारणता आकांक्षा च स्वभावात् , शब्दोपस्थितयोरेव प्रकारान्तरोपस्थित्योरेव