SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ तृतीयस्तवके ] शब्दस्य बाधकत्वखण्डनम् / 406 - बोधनी। (१)यदाहि इति। अपौरुषेयत्वनिश्चयेन दोषाभावे निश्चितेऽनुमानसामग्री पूर्णेत्यनुमानादेव संसर्गसिद्धेवें दानुवाद एव स्यादिति किमविशेष एव सर्वथा लोकवेदयोरित्यत्राह इयांस्तु इति। वेदे वक्तुरभावात् पादर्थानेव पक्षीकृत्य तत्संसर्गः साध्यः,लोके तु वक्तृज्ञानविशेषणतयेत्येतावान्विशेषः। संसर्गस्यानुमानतः सिद्धिरित्यत्र फले तु न विशेष इति / तथा च इति / वेदेऽपि संसर्गस्यानुमानतः सिद्धावित्यर्थः / किंचैवमनुमानात्संसर्गसिद्धौ न तत्रान्विताभिधाने शब्दस्य प्रमाणमस्ति तत्प्रमाणस्यान्वितत्वेन प्रती. तेरन्यथाप्युपपन्नत्वादित्याह न चैवम् इति / वृथा प्रयासः। अन्विताभिधानकल्पन इति शेषः / तस्मारलोक एव शब्दस्यानुवादकत्वमिच्छतो वेदस्याप्यनुवादकत्वमनिष्टं प्रसज्यत इति श्लोकार्थमुप. संहरति तस्मात् इति / यद्वा लिङ्गेन निर्णीतेऽर्थे शब्दस्यानुवादकत्वं वदतो विलम्बितप्रवृत्तेलिजस्यैवानुवादकत्वं न शब्दस्येति निर्णीतशक्तेर्वाक्याद्धीति, पूर्वश्लोकार्थोपसंहारः इति / . एवमन्विताभिधानमङ्गीकृत्य लोकवेदयोस्तुल्यत्वमावेदितम्, इदानों तदपि निराकुर्वन्नाह कि चेदम् इति / अविवादात् इति / अभिहितान्वयवादिनोऽप्यन्वितप्रतिपादनमात्रं संवदन्ति, तदभिधान एव ते विवदन्त इति / विवादादेव इति / अन्वितप्रतिपादनो द्देशेन पदार्थानभिदधति / पदानीत्यत्रापि नास्माकं विवाद इति / तद्यदि व्युत्पत्तिबलेनान्वितप्रतिपादनं तर्हि अनुभूतो वाक्यार्थो नावगम्येतेत्याह नापि संगति इति / न च पदार्थविषययैव संगत्या वाक्यार्थप्रतिपादनं तस्याः पदार्थप्रतीतिमात्रोपक्षीणत्वादित्याह नापि स्वार्थ इति / अर्थसंगतिरेव तत्रानुपक्षीणा वा. क्यार्थेऽप्युपयुज्यत इत्युच्येत तर्हि पदार्थवाक्यार्थप्रतीत्योः पूर्वापरभावो न स्यादित्याह नापि सैव इति / अस्तु तहिं योगपयमित्यत्राह योगपद्य इति / अवगतपदार्थो हि तेषां योग्यतादिकं प्रतिसंधातुं क्षमत इति / नन्वेकस्या एव संगतेः पदार्थवाक्यार्थप्रतीत्योः क्रमेणैव हेतुत्वं काष्टस्येव ज्वा. लापाक्योरित्यत्राह नापि सैव इति / करणानामेव यवान्तरव्यापारापेतेति भावः। ननु तदनुवादकत्वं वदतो विलम्बितप्रवृत्तेलिङ्गस्यैवानुवादकत्वं संगतिमन्ति पदानि करणं तथापि वाक्यार्थानुगुणसंगतिभाजि तानि तथा न तु केवलानि, ततश्च संगतिरपि करणशरीरानुप्रवेशिन्येवेत्याह तथापि इति। न तावत् इति / पदार्थविषयत्वेन संगतेस्त्वदृष्ट्या सामान्यमात्रविषयत्वात् अस्मदृष्ट्या तद्विशिष्टव्यक्तिमात्रविषयत्वाद्वा न तत्संसर्गात्मकवाक्यार्थप्रतिपादनानुगुणना संभवतीति पदार्थाश्रयस्वेऽपि संगतेर्वाक्यार्थप्रतिपादनानुगुणव्यापारवत्त्वेन तदानुगुण्यमस्तीत्यत्राह नापि तदनुगुण इति / उकं येतस्संगतेरकरणत्वान्नावान्तरव्यापारयोगित्वमिति / नन्वस्तु पदानामेव करणत्वादवान्तरव्यापारः, स तु संगत्यधीन इति वाक्यार्थप्रत्ययानुगुणत्वं तस्या इत्यत्राह तदनुगुण इति / करगानां पदानां पदार्थप्रतिपादनलक्षणोऽवान्तरख्यापारः संगत्यधीन इत्यत्र नास्माकं विवाद इति / प्रकाशः। इति / अन्यथा मानाभावात् संसर्गज्ञानानुदयान्नवकाव्यरचना न स्यादिति पदार्था एव चिन्तावशो. पस्थिता अन्वयबोधकाः। यत्रापि पदात पदार्थोपस्थितिस्तत्रापि पदार्था एवान्वयबोधकाः, न.तु पदान्यपि, पदार्थस्मृत्यैवान्यथासिद्धत्वात् , कथमन्यथा श्वेतरूपदर्शनाद्धेषाशब्दश्रवणात् क्षुरविक्षेपशब्दश्रवणाच्छन्दं विना श्वेतोऽश्वो धावतीति धीः। न चैवं पचतीत्युक्ते प्रत्यक्षोपस्थितकलायेनान्व प्रकाशिका। पस्थितपदार्यानामपि शाब्दोऽन्वयबोधो भवत्येवेति प्राभाकरोक्तान्वितशक्तियुक्तावसहमानो भट्टः मकरन्दू। मन्विताभिधाननादिनमिति प्रभाकरमित्यर्थः। ... (1) इयं बोधिनी 404 पृष्ठं प्रारभ्य 408 पृष्ठपर्यन्तमूलव्याख्याऽऽदर्शपुस्तकाशुद्धया संपादकप्रमादाचात्रागता तत्र पठितव्या। 52 न्या० कु०
SR No.004382
Book TitleNyayakusumanjali
Original Sutra AuthorN/A
AuthorPadmaprasad Upadhyay, Dhundiraj Shastri
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy