________________ 408 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [ 15 कारिकाव्याख्यायां . अन्वितार्थप्रतिपत्यन्यथानुपपत्तिरिति चेन्न। अनन्विताभिधानेनाप्युपपत्तेः / श्राकाङ्क्षाऽनुपपत्तिरस्तु, न हि सामान्यतोऽन्वितानघगमेऽन्वयविशेषे जिज्ञासा स्यात् / न / दृष्टे फलविशेषे रसविशेष जिज्ञासावदानेपतोऽप्युपपत्तेः। शब्दमहिमा नमन्तरेण यतः कुतश्चिदपि स्मृतेषु पदार्थेषु अन्वयप्रतीतिः स्यात् / न चैवम् / ततः शब्दशक्तिरवश्यं कल्पनीयेति चेत् / कुतस्तर्हि कविकाव्यानि विलसन्ति / न हि संसर्गविशेषमप्रतीत्य वाक्यरचना नाम / न च स्वोत्प्रेक्षायां प्रत्यक्षमनुमानं शब्द प्रकाशः। पदार्थवदिति / मैवम् / वृत्ति विनाऽप्युक्तरीत्या पदानामन्वयबोधकत्वसम्भवेनाप्रयोजकत्वात् / अन्यथा शक्तया तात्पर्यनिर्वाहदर्शनाद् वृत्त्यन्त रोच्छेदात् / अत एव धूमोऽस्तीत्यत्र शक्तथा धूमोपस्थितावनुमानद्वारा वह्नौ तात्पर्यनिर्वाहान्न लक्षणेत्यस्माकं पैतृका पन्था इति सक्षेपः // उक्तान्यलभ्यत्वमविद्वानाह अन्वितार्थेति / उक्तमभिप्रेत्याह अनन्वितेति // पदार्थज्ञानशक्तत्वेन ज्ञानादेव पदादावश्यकाकाक्षादिसहकारिवशादेवान्वयज्ञानसम्भवानान्वये शक्तिः करप्यते इत्यर्थः / श्राकाङ्क्षति। प्रमाणमिति विपरिणतेन सम्बन्धः। श्रोदनमित्युक्तेऽन्वयविशेषे जिज्ञासाऽस्ति, सा च सामान्यतो झाते विशेषतवाशाते भवतीति तदन्यथानुपपत्त्याऽन्वयसामान्ये शक्तिः कस्प्यते इत्यर्थः / दृष्ट इति / मथा दृष्टे रूपविशेषे रससामान्यमनुमाय तद्विशेषे जिज्ञासा, तथा पदार्थमात्रस्य कोष्टगत्यान्वयमात्रव्यातेरन्वयसामान्यज्ञानोपपत्तेरित्यर्थः / शब्देति / पचतीत्युक्ते प्रत्यक्षायुपस्थितकलायादेरन्वयबोधो न भवति, किन्तु पदोपस्थापितस्यैवेत्यन्वयविशेषे शब्दोपयोगादन्वयसामान्ये शक्तिः कल्प्येत्यर्थः // तदेतदिष्टापादनमित्यन्तरा पदार्थकरणवादी भष्टोऽन्विताभिधानवादिनमास्कन्दति कुतस्तर्हि प्रकाशिका। पिएतच्चाने स्फुटम् / आकाक्षादीनामावश्यकत्वंय दुक्तं तत्र हेतुमाह अन्पयसामान्यस्येति / अत एव न चेति पूर्वमियं फक्किका युज्यत इत्याहुः / एवश्वान्वय इति / घटानयनयोरन्वय इत्यर्थः / तेनान्वयपदशक्यतया न सिद्धसाधनमिति द्रष्टव्यम् / विपरिणतेनेति / प्रमाणाभावादिति मूले षष्ट्यर्थावरुद्धस्य श्रवणादिति भावः / कोष्ठगत्येति। वस्तुगत्येत्यर्थः / अन्वयविशेष शब्दोपयोगादिति / पदस्य पदार्थमात्रोपस्थितिरेव यदि व्यापारस्तदा प्रत्यक्षोपस्थितकलायेनापि पक्तीति पदस्यान्वयषोधापत्तिरतः पदोपस्थितस्यैव न्यायमते शाब्दबोधविषयत्वमित्यन्वये पदशक्तिः कसनीयेति नैयायिक प्रति प्राभाकरस्याक्षेपः / अन्तरेति / शन्दोपस्थितपदार्थानामेव परस्परमः न्वयः शब्देन बोध्यत इति समाधानमाशयस्थं यावन्नयायिको न वक्तीत्यर्थः / अत एव नैयायिकेनायं पूर्वपक्षोऽप्रे न समाहितः, तात्पर्यगत्यैव समाधानादिति ध्येयम् / इष्टापादनमिति / प्रकारान्तरो मकरन्दः। आवश्यकाकाक्षादिसाचिव्यादिति यदुक्तं; तत्र तदावश्यकत्वे हेतुमाह अन्धयसामान्येति / अत एवेयं फक्किका, न चेत्यस्य पूर्व युज्यते इति प्राहुः। कोष्टगत्या वस्तुगत्येत्यर्थः / यमेवेति नियमकल्पनादित्यर्थः / अन्वयविशेषे शब्दोपयोगादिति / पचतीत्यादौ कलायमित्यायुक्त एव पाककलाययोरन्वयविशेषात्स प्रतीयते, नचैकपदस्याप्यभाव इति सर्वसम्मतो नियमः अन्वयस्य सामान्यतः शक्यत्वे उपपदयते सामान्योपस्थितेऽन्वये या जिज्ञासात्मिका ह्याकाक्षा तस्याः शाब्दीत्वाच्छद्वेनैव प्रपूरणस्य युक्तत्वात् , विशेषस्य शब्दज्ञाततापेक्षान्वितशक्त पदद्वया र्थस्मृतिपर्यवसनो विशेषः शाब्द इति तज्ज्ञानस्य शान्दजिज्ञासानिवर्तकस्वम् / अन्वयस्याशक्यस्वे:शाब्दे तस्मिन् जिज्ञासा शाब्दी न स्यात् , येन प्रमाणेनावगम्यते सामात्यमुत्सर्गतस्तत्प्रमाणेन तत्र हि जिज्ञासेति प्रत्यक्षायवगतार्थभानेऽपि जिज्ञासानिवृत्तिः स्यादित्युक्तनियमो न स्यादिति भावः / प्पिणी।