________________ तृतीयस्तवके ] शब्दस्य बाधकत्वखण्डनम् / 407 नोक्तदोषावकाशः। नाऽपि पर्यायतापत्तिः, प्राधान्येन नियमात् / नापि पौनरुक्तयं, विशेषाऽन्वये तात्पर्यात् / नापीतरेतराश्रयत्वम् , स्वार्थस्मताचनपेक्षणात् / नापि वाक्यमेदापत्तिः। परस्परपदाऽर्थस्मृतिसन्निधौ तदितरानपेक्षणादिति चेत् / न / अन्विते सङ्गतिग्रह इति कोऽर्थः ? यदि यत्र सङ्गतिस्तद्वस्तुगत्या पदार्थान्वितं, न किञ्चित् प्रकृतोपयोगीति। नहि यत्रचक्षुषः सामर्थ्यमवगतंतद्वस्तुगत्या स्पर्शवदिति तद्वत्ताऽपि तस्य विषयः। अथान्विततयैव तत्र व्युत्पत्तिरित्यर्थः। तदसत् / प्रमायाभावात्। प्रकाशः। पनादित्यत आह नापीति।प्राधान्येनेति। क्रियापदं कारकमभिदधदपि कारकविशेष्यां क्रियामाह, कारकपदश्च क्रियामप्यभिदधत् क्रियाविशेष्यं कारकमाहेति विशेषणविशेष्यभावमेदेनार्थमेदादित्यर्थः। ननु क्रियाकारकविशेषवावकं पदं पुनरुक्तं, कारकोपहितक्रियादेरितरपदेनैवोपस्थापनादित्यत आह नापीति / विशेषेति / सामान्यज्ञानेऽपि तद्विशेषज्ञापनाय विशेषादमित्यर्थः। ननु कारकपदात् कारकोपस्थितिमपेक्ष्य क्रियापदेन तद्विशिष्टा क्रियोपस्थाप्या, कारकपदेन च क्रियापदात् क्रियोपस्थितिमपेक्ष्य तद्विशिष्टं कारकमुपस्थाप्यमित्यन्योन्याश्रय इत्याह नापीति।स्वार्थेति / कारकक्रियोपस्थितिमनपेक्ष्य क्रियाकारकपदाभ्यां विशिष्टास्मरणादित्यर्थः / नन्वेवं घटाऽन्वितमानयनमानयनान्वितो घट इति विशेषणविशेष्यभावभेदादर्थभेदे वाक्यभेदः स्यादित्यत आह नापि वा क्येति / यत्रैकस्मिन् वाक्यार्थे पर्यवसन्ने वाक्यार्थान्तरबोधस्तत्र वाक्यभेदः, अत्र तु न तथा, विशेषणविशेष्यमात्रभेदेऽपि घटानयनात्मकार्थस्यामेदादित्यर्थः / यत्रेति। यत्र वाक्यार्थे व्युत्पत्तिः सातिप्रह इत्यर्थः॥ प्रमाणाभावादिति / ननु वृद्धव्यवहारेणानुमितेतरान्वितपदार्थज्ञाने पदकरणत्वग्रहादुपस्थितत्वाच्च तत्रैव शक्तिप्रहो म पदार्थज्ञानमात्रे, तस्य व्यवहाराहेतुतया ततोऽनुपस्थितेः। मैवम् / विशिष्टज्ञानस्य विशेष्यविषयत्वनियतत्वेनेतरान्वितपदार्थज्ञानोपस्थितौ विशेष्यस्य पदार्थज्ञानस्याप्युपस्थितेस्तव शक्तिमहालाघवात् / न वितरान्वितेऽपि, गौरवात् / न चानन्यलभ्यत्वातत्र शक्तिः, पदार्थज्ञानशस्वेन ज्ञातपदस्य स्वार्थस्मृतिद्वाराऽऽवश्यकाकाक्षादिसाचिव्यात् समभिव्याहृतपदार्थेन स्वार्यान्वयानुभावकत्वस्वभावकल्पनात् / न चाशक्यान्वयानुभवेऽतिप्रसङ्गः, शक्यान्वयत्वस्य स्वरूप. सतो नियामकत्वात् / अन्वयसामान्यशक्तावपि अन्वयविशेषज्ञानार्थमाकाक्षादेरवश्यमपेक्षणात् / तस्मात् पदार्थानामन्वितज्ञानजनकत्वेऽपि यथा जातिवाचकपदानां व्यक्तावेकव शक्तिर्जात्यंशे ज्ञाता व्यक्त्यंशे तु स्वरूपसती व्याप्रियते, तथा एकैव शक्तिरन्वयांशे स्वरूपसती पदार्थाशे ज्ञाता व्याप्रियत इति नान्वयांशेऽपि शक्तिः / ज्ञातशब्दशक्तिजन्यज्ञान विषयस्यैव शक्यवात् // ___ नन्वन्वये पदाना तात्पर्य तन्निर्वाहिका च वृत्तिः / न च स्वार्थसम्बन्धिनि स्वान्वये तात्पर्याशक्षणा, अन्वथविशेषणतया पदार्थोपस्थितेष्व न वृत्तियविरोध इति वाच्यम् / वाक्यार्थस्यापूर्वतयाऽ न्वयस्य स्वार्थसम्बन्धित्वेन पूर्वमज्ञानात् / एवञ्चान्वयः पदशक्यः वृत्यन्तरं विना पदबोध्यत्वात् प्रकाशिका। कारकविशेष्यामिति।इदमुपलक्षणम् श्रानयनत्वादिना विशेषप्रकारेणेत्यपि द्रष्टव्यम्। एवमग्रेड टिप्पणी। सङ्गतेरिति / पदार्थविषयकत्वेनेत्यर्थः। न च शक्यान्धयानुभावेऽतिप्रसङ्ग इति / सति सप्तमीयम्, अशक्यस्यान्वयस्यानुभवे सति शक्यान्वयनियमभन्नेऽतिप्रसाः गोपदस्य घटानुभावकत्वप्रसा इत्यर्थः / शक्यान्वयत्वस्य स्वरूपसत इति / अशक्यं यदि पदमनुभावयेच्छक्यान्व